संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ५१

उत्तर पर्व - अध्याय ५१

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उवाच ॥

अन्यामपि प्रवक्ष्यामि शोभनां शुभसप्तभीम् ‍ । यामुपोष्य नरो रोगाच्छोकदुःखात्प्रमुच्यते ॥१॥

पुण्य आश्वयुजे मासि कृतस्नानः पयःसु हि । वाचयेत ततो विप्रानारमेच्छुभसप्तमीम् ‍ ॥२॥

कपिलां पूजयेद्भक्त्या गन्धमाल्यानुलेपनैः । नमामि सूर्यसंभूतामशेषभुवनालयाम् ‍ ॥३॥

त्वामहं शुभकल्याणशरीरां सर्वसिद्धये । अथाहृत्य तिलप्रस्थं तास्त्रप्राव्रेण संयुतम् ‍ ॥४॥

काञ्चनं वृषभं तद्वद्वस्त्रमाल्यगुडान्वितम् ‍ । दद्याढ्रद्विकालवलायामर्यमा प्रीयतामिति ॥५॥

पञ्चगव्यं च संप्राश्य स्वपेद्भमौ विमत्सरः । ततः प्रभाते संजाते भक्त्या संतर्ययेद् ‍ द्विजान् ‍ ॥६॥

अनेन विधिना दद्यान्मासि मासि सदा नरः । वाससी वृषभं हैम तद्वद्धेनोस्तु पूजनम् ‍ ॥७॥

संवत्सरान्ते शयनमिक्षुदण्डगुडान्वितम् ‍ । सोपधानकविश्रामं भाजनासनसंयुतम् ‍ ॥८॥

ताभ्रपाव्रं तिलप्रस्थं सौवर्णवृषसंयुतम् ‍ । दद्याद्वेदविदे सर्वं विश्वात्मा प्रीयतामिति ॥९॥

अनेन विधिना राजन्कुर्याद्यः शुभसप्तमीम् ‍ । तस्य श्रीर्विमला कीर्तिर्भदेज्जन्मनि जन्मनि ॥१०॥

अप्सरोगणगन्धर्वैः पूज्यमानः सुरालये । वसेद्नणाधिपो भूत्वा यावदाभूतसंप्लवम् ‍ ॥११॥

संकल्पादवलीर्णस्तु सप्तद्वीपाधिपो भवेत् ‍ । ब्रह्महत्यासहखस्य भ्रूणहत्याशतस्य च ॥१२॥

नाशङ्करोति पुण्येयं कृता वै शुभसप्तमी ॥१३॥

इमां पठेद्यः शृणुयान्मूहूर्तं पश्येत सङगादपि दीयमानम् ‍ । सोऽप्यव्र संबोध्य विमुक्तदेहः प्रान्पोति विद्याधरनायकत्वम् ‍ ॥१४॥ [ २०४४ ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे शुभसप्तमीव्रतनिरूपणं नामैकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP