संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व| अध्याय ४ उत्तर पर्व अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ उत्तर पर्व - अध्याय ४ भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे. Tags : bhavishya puranpuranपुराणभविष्यपुराणसंस्कृत अध्याय ४ Translation - भाषांतर युधिष्टिर उवाच ॥ देवत्वं मानुषत्वं च तिर्यक्त्वं केन कर्मणा । प्रान्पोति पुरुषः केन गर्भवासं सुदारुणम् ॥१॥ गर्भस्थश्व किमात्मास्ते कथमुत्पद्यते पुनः । दन्तोत्थानादिकान्दोषान्कथं तरति दुध्वरान् ॥२॥ बालभावे कथं पुश्विम स्यादुषा केन कर्मणा । कुलीनः केन भवति सुरुपः सुधनः कथम् ॥३॥ कथं दारानवान्पोति गृहं सर्वगुणैर्युत्म् । पण्डितः पुव्रर्वास्त्यागी स्पादामयविवर्जितः ॥४॥ कथं सुखेन स्त्रियते कथं भुङ्के शुभाशुभम । सर्वमेवामलमले गहनं प्रतिभाति मे ॥५॥ श्रीकृष्ण उवाच ॥ शुभैर्देवत्वमान्पोति मिश्रैर्मानषतां ब्रजेत् । अशुभैः कर्ममिर्जन्तुस्तिर्यग्योनिः प्रजायते ॥६॥ प्रमाणं श्रुतिरेवाव्र घर्माधर्माविनिश्वये । पापं पापेन भवति पुण्य़ं पुण्येन कर्मणा ॥७॥ ऋतुकाले तदा भुक्तं निर्दीषं येन संस्थितम् । तदा तद्वायुना स्पृष्ट खीरक्ते नैकतां ब्रजेत् ॥८॥ विसर्गकाले शुक्तस्य जीवः करण्संयुतः । मृत्युः प्रविशते यानिं कर्ममिः स्वैर्नियोजितः ॥९॥ तच्छुक्ररक्तमेकस्थमेकाहात्कललं भवेत् । पञ्चराव्रेण कललं बुद्धुदाकारतां व्रजंत् ॥१०॥ बुद्बुदं सप्रराव्रेण मांसपेशी भवेत्ततः । द्विसप्ताहाद्भवेत्पेशी रक्तमांसैर्द्दढाञ्चता ॥११॥ बीजस्येवाङ्कुराः पश्याः पञ्चविंशतिरात्रतः। भवन्ति मासमव्रेण पञ्चधा जायते पुनः ॥१२॥ ग्रीव शिरश्व स्कन्धश्व पृष्ठवंशस्तथोदरम् । मासद्वयेन सर्वाणि क्रमशः संभवन्ति च ॥१३॥ व्रिभिर्मासैः प्रजायन्ते ह्स्ताद्यङ्रकुरसन्धयः । मासैश्वतुर्निरङ्रगुल्यः प्रजायन्ते यथाक्रमम् ॥१४॥ मुखं नासा च कणौं च मासैर्जायेत पश्चभिः। दन्तपंक्तिस्तथा गुह्यं जायन्ते च नखाः पुनः ॥१५॥ कणौं च रन्ध्र्सहितौ षण्मासाम्यन्तरेण तु । पायुमेढ्रमुपस्थश्व नामिश्वाप्युपजायते ॥१६॥ सन्धयो ये च गाव्रेपु मासैर्जायन्ति सप्तभिः । अङ्गप्रत्यङ्रसंपूर्णः शिरः केशसमन्वितः ॥१७॥ विभक्तावयवः पुष्टः पुनर्मासाष्टकेन च । पञ्चात्मकसमायक्तः परिपक्कः स तिष्ठति ॥१८॥ मातुराहारवीर्येण षडविधेन स तिष्ठति । रसेन ग्रत्यहं बालो वर्धते भरतर्षभ ॥१९॥ तत्तेऽहं संप्रवक्ष्यामि यथा श्रुतमरिन्दम । नामिसूत्रनिबन्धेन वर्धते से दिजे दिने ॥२०॥ ततः स्मृतिं लभेज्जीवः संपूर्णेऽस्मिञ्छरीरके । सुखं दुःखं विजानाति निद्रास्वन्पं पुराकृतम् ॥२१॥ मृतश्वाहं पुनर्जातो जातश्वाहं पुनर्मुतः । नानायोनिसहस्त्राणि मया द्दष्टानि तानि वै ॥२२॥ अघुना जातमाव्रोऽहं प्राप्तसंस्कार एव च । एतच्छ्रेयः करिष्यामि येन गर्मे न संश्रयः ॥२३॥ गर्मस्थश्विन्तयेद्देवमहं नर्भाद्विनिःसृत । अध्येष्ये चतुरो वेदान्संसारविनिवर्तकान् ॥२४॥ एवं स गर्भदुःखन महता परिपीडितः । जीवः कर्मवशादास्ते मोक्षोपायं विचिन्तयन ॥२५॥ यथा गिरिवराक्रान्तः कश्विद्दःखेन तिष्ठति । तथा जरायुणा देही दुःखे तिष्ठति वेष्टितः ॥२६॥ पतितः सागरे यद्वद्दुःखेनास्ते समाकुलः । गर्भोदकेन सिक्ताङ्गस्तथास्ते व्याकुलः पुमान् ॥२७॥ लोहकुम्मे यथा न्यस्तः पच्यते कश्विदग्निना । तथा स पच्यते जन्तुर्गर्भस्थः पीडितोदरः ॥२८॥ सूचीभिरग्निवर्गाभिर्विभिन्नप्त्य निरन्तरम् । यद्दुःखमुपजायेत तद्नर्भ्रेऽष्टगुणं पुमान् ॥२९॥ गर्भवासात्परो वासः कष्टो नैवास्ति कुव्रचित् । देहिनां दुःखवद्राजन्सुघोरो ह्यतिसङ्कटः ॥३०॥ इत्येतद्नर्भदुःख हि प्रणिनां परिकीर्तितम् चरस्थिराणां सर्वेषामात्मगर्भानुरूपतः ॥३१॥ गर्भात्कोटिगुणम दुःखं योनियन्त्रप्रपीडनात् । संमूर्च्छितस्य जायेत जायमानस्य देहिनः ॥३२॥ शरवत्पीडन्यामानस्य यन्व्रेणेव समन्ततः । शिरसि ताडन्यमानस्य पाप्रद्नरकेण च ॥३३॥ गर्भान्निष्क्रम्यमाणस्य प्रबलैः सूतिमारूतैः । जायते सुमह्रद्दुःखं परिव्राणमविन्दतः ॥३४॥ यन्व्रेण पीडिता यद्वन्निः स्पुस्तिळेक्षवः । तथा शरीर निःसारं योनियन्व्रपप्रीड्तिम् ॥३५॥ अस्थिमज्जात्वचामांसस्त्रायुबन्धेन यन्व्रतम् । रक्तमांसमृदयुक्तविण्मूव्रद्रवलेपनम् ॥३६॥ केशलोमतृणाच्छन्नं रोगापतनमातुरम् । वदनैकमहद्द्वारं दन्तोष्ठकविभूषितम् ॥३७॥ ओष्ठद्वयकपाटं च दन्तजिह्रार्गलान्वितम् । नाडीस्वेदप्रवाहं च कफपित्तपरिप्लुतम् ॥३८॥ जराशोकसमाविष्टं कालचक्रानले स्थितम् । कामक्रोधसमाक्रान्त व्यसनैश्वोपमर्दितम् ॥३९॥ भोगतृष्णातुरं मूढं रागद्वेषचशानुगम् । संवर्तिताङ्गप्रत्यङ्ग जरायुपरिवेष्टितम् ॥४०॥ सङ्कटे ताविविक्तेन योनिद्वारेण निर्गतम् । विण्मूव्ररक्त सिक्ताङ्रं पत्केशाच्च समुद्भवम् ॥४१॥ इति देहगृहं प्रोक्तं नित्यस्यानित्यमात्मनः । अविशुद्वं विशुद्धस्य कर्मबन्धविनिर्मितम् ॥४२॥ शुक्रशोणितसंयोगाद्देहः संजायते यतः । नित्यं विण्मूव्रपूर्णश्व तेनायमशुचिह स्मृतः ॥४३॥ यथान्तर्विष्ठया पूर्णः शुचिः स्यान्न बहिर्घदः । यत्नतः शोघ्यमानाऽपि देहोऽयमशुचिस्तथा ॥४४॥ संप्राप्याव्र पविव्राणि पञ्चगव्यहर्वीषि च । अशुचिवि क्षणाच्चापि किमन्यद्वस्तुबिन्दवः ॥४५॥ देहः संशोध्यमानोऽपि पश्चगव्यकुशाम्बुभिः । घृष्यमाण इवाङ्गरो निर्मलत्वं न गच्छति ॥४६॥ श्रोव्राणि यस्य सततं प्रवहन्ति गिरेरिव । कफमूव्रपुरीषाघैः स देहः शुच्यते कथम् ॥४७॥ सर्वाशुचिनिधानस्य शरीरस्य न विद्यते । शुचिरेकः प्रदेशोऽपि विद्पुर्णः स्यन्दते किल ॥४८॥ कायः सुगन्धधूपाद्यैर्यत्नेनापि तु संस्कृतः । न जहाति स्वकं भावं श्वपुच्छमिब नामितम् ॥४९॥ यथा जात्यैव कृष्णो हि न शुक्लः स्यादुपायतः । संशोध्यमानाऽपि तथा भवेः न्मूर्तिर्न निर्मला ॥५०॥ जिघ्रन्नपि स्वदुर्गन्धं पश्यन्नपि मलं स्वकम् । न विरज्यति लोकोंऽयां पीडयन्नपि नासिकाम् ॥५१॥ अहों मोहस्य माहात्म्यं येन व्यामोहितं जगत् ।जिघ्रन्पन्स्वकं दोवं कायस्य न विरज्यते ॥५२॥ एवमतच्छरीर हि निसर्गादशुचि ध्रुवम् । विङ्माव्रलारं निःसारं कदलीप्तारसन्निमम् ॥५३॥ गर्भस्थस्य स्मृतिर्यासींत्सा जातस्या प्रणश्यति। संमूर्च्छितस्य दुःखेन योनियन्व्रप्रपीडनात ॥५४॥ बाह्येन वायुना चास्य मोहसंज्ञेन देहिनः । स्पृष्टमाव्रेण घोरेण ज्वरः समुपजायते ॥५५॥ तेन ज्वरेण महता महामोहः प्रजायते । संमूढस्य स्मृतिभ्रंशः शीघ्रं संजायते पुनः ॥५६॥ स्मृतिभ्रंशात्तु तस्येह पूर्वकर्मवशेन च । रतिः संजायते तूर्णं जन्तोस्तवैव जन्मनि ॥५७॥ रक्तो मूढस्य लोकोऽयमकार्ये संप्रवतते । न चात्मानं विजानाति परं विन्दते च सः ॥५८॥ न श्रूयते परं श्रेयः सति चक्षुपि नेक्षते । समे पथि शनैर्गच्छन्स्खलतीव पदे पदे ॥५९॥ सत्यां बुद्धौ न जानाति बोध्यमानो बुधैरपि । संसारे क्लिश्यते तेन रागलोभ्रवशानुगः ॥६०॥ गर्भस्मृतेरभावेन शास्त्रमुक्तं महाषिर्भिः । तद्दुःखमथनार्थाय स्वर्गमोक्षप्रसाधकम् ॥६१॥ ये सत्यस्मिन्परे ज्ञाने सर्वकामार्यसाधके । न कुर्वन्त्यात्मनः श्रेयस्तदव्र महदद्भुतम् ॥६२॥ अव्यक्तेन्द्रियवृत्तित्वाद्वाल्ये दुःख महत्पुनः । इच्छन्नपि न शक्रोति कर्तुं वक्तुं च सक्र्तियाम् ॥६३॥ दन्तोत्थाने महद्दुःखं मौलेन व्याधिना तथा । बालरोगैश्व विविधैः पीडा बालग्रहैरपि ॥६४॥ तृङ्बुभुक्षापरीताङ्रः कश्वित्तिष्ठति रारटन् । विण्मूव्रभक्षणमपि मोहाद्वालः समाचरेत् ॥६५॥ कौमारे कर्णवेधेन मातापिव्रोश्व ताडनात् । अक्षराध्ययनात्पुसां दुःखं स्याद्गुरुशासनात् ॥६६॥ प्रसन्नेन्द्रियवृत्तिश्व कामरागप्रपीडनात् । रोगोद्धतस्य सततं कुतः सौख्य़ं च यौवने ॥६७॥ ईर्ष्यया च महाद्दुःखं मोहाद्रक्तस्य जायते । नेव्रस्य कुपितस्यैव रागो दुःखाय केवलम् ॥६८॥ न राव्रौ विन्दते निद्रां कोपाग्निपरिपीडितः । दिवा वापि कुतः सौख्यमर्थोपार्जनचिन्तया ॥६९॥ स्त्रीष्वापासितदेहस्य ये पुंसः शुक्रबिन्दवः । न ते सुखाय मन्तव्याः स्वेदजा इव बिन्दवः ॥७०॥ कृमिभिस्तुद्यमानस्य कुष्ठिनः कामिनस्तथा । कण्डूयनाग्नितापेन यद्भवेत्खीषु तद्धि तत् ॥७१॥ याद्दशं विन्दते सौख्यं गण्डान्वयविनिर्गमे । ताद्दशं स्त्रीपु मन्तव्यं नाधिकं तासु विद्यते ॥७२॥ गण्डस्य वेदना यद्वत्स्फुटितस्य निवर्तते । तद्वत्स्त्रीष्वपि मन्तव्यं न सौख्यं परमार्थतः ॥७३॥ विण्मूव्रस्य समुत्सर्गात्सुखं भवति यादशम् । ताद्दशं तेषु विज्ञेयं मूढैः कल्पितमन्यथा ॥७४॥ मारीष्वशुचिभूतासु सर्वदोषाश्रयासु च । नाणुमाव्रकमप्येवं सुखमस्ति विचारसः ॥७५॥ सन्मानमयमानेन वियोगेन सुसंगमम् । यौवनं जरया ग्रस्तं किं सौख्यमनुपद्रवम् ॥७६॥ वलीपलितखालित्यैः शिथिलीकृतविग्रहम् । सर्वं क्रियास्त्रशक्तं च जरया जजरीकृतम् ॥७७॥ स्त्रीपुंसयोर्नवं रूपं तदान्योन्यं प्रियं पुरा । तदेव जरया ग्रस्तमुभयोरपि प्रियम् ॥७८॥ अपूर्ववत्स्वभात्मानं जरया परिवर्तितः । यः पश्यन्न विरज्येत कोऽन्यस्तस्मादचेतनः ॥७९॥ जराभिभूतः पुरुषः पत्नीपुव्रादिबान्धवैः । अशक्तत्वाद्दुराचारैर्भृत्यैश्व परिभूयते ॥८०॥ धर्ममर्थं च कामं च मोक्षं च नजरं यतः । शक्तं साघयितुं तस्माच्छरीरमिदमात्मनः ॥८१॥ वातपित्तकफादीनां वैपम्यं व्याविरुच्यते । तस्माह्माधिमयं ज्ञेयं शरीरमिदमात्मनः ॥८२॥ वाताद्यव्यतिरिक्तत्वाद्याधीनां पश्र्जरस्य च । रोगैर्नानाविधैर्यानि देहदुःखान्यनेकधा ॥८३॥ तानि च स्वात्मबेद्यानि किमन्यक्तथयाम्यहम् । एकोत्तरं मृत्युशतमस्मिन्देहे प्रतिष्ठितम् ॥८४॥ तवैकः कालसंयुक्तः शेषाश्वागन्तवः स्मृताः । ये त्विह। गन्तवः प्रोक्तास्ते प्रशाम्यन्ति भेपजैः ॥८५॥ जपहोपप्रदानैश्व कालमृत्युर्न शाम्यति । यदि चापि न म्रुत्युः स्याद्विषमद्यादशङ्कितः ॥८६॥ न सन्ति पुरुषे तस्मादपमृत्युविभीतयः । विविधा व्याधयः शस्त्रं सर्पाद्याः प्राणिनस्तथा ॥८७॥ विषाणि जङ्गमाद्यानि मृत्योर्द्वाराणि देहिनाम् । पीडितं सर्वरोगाधैरपि धन्वन्तरिः स्वयम् ॥८८॥ स्वस्थीकर्तुं न शक्रोति प्राप्तं मृत्यु च देहिनाम् । नौषधं न तपो दातं न मन्व्रा न च बान्धवा ॥८९॥ शक्नुवन्ति परिवातुं नरं कालेन पीडितम् । रसायनतपोजप्यैर्योगसिद्धैमहात्मभिः ॥९०॥ कालमृत्युरपि प्राज्ञैस्तीर्यते नालसैर्नरैः । नास्ति मृत्युसमं दुःखं नास्ति मृत्युसमं भयम् ॥९१॥ नास्ति मृत्युसमस्त्रासः सर्वेषामेव देहिनाम् । सद्भार्या पुव्रमिव्रणि राज्यैश्वर्यधनानि च ॥९२॥ अबद्धानि च वैराणि मृत्युः सर्वाणि कृन्तति । हे जनाः किंवान पश्यष्ठां सहस्त्रस्यापि मध्यतः ॥९३॥ जनाः शतायुषः पञ्च भवन्ति न भवन्ति च । अशीतिका विपद्यन्ते कचित्सप्ततिका नराः ॥९४॥ परमायुषं स्थितं षष्टिस्तच्चैवानिश्चितं पुनः । यस्य यावद्भवेदायुर्देहिनां पूर्वकर्माभिः ॥९५॥ तस्यार्द्धमायुषो राव्रिर्हरते मुत्युरूपिणी । बालभावेन मोहेन वार्द्धक्ये जरया तथा ॥९६॥ वर्षाणां व्रिशतियांति धर्मकामार्थंवर्जिता । आगन्तुकैर्मयैः पुसां व्याधिशोकैरनेकधा ॥९७॥ भक्ष्यतेऽर्द्धं च तव्रापि यच्छेषं तच्च जीवति । जीवितान्ते च मरणं महाघोरमवाप्रुयात् ॥९८॥ जायत्ते जन्मकोटीपु मृतः कर्मवशात्पुनः । देहभेदेन यः पुंसां वियोगः कर्मसंक्षयात् ॥९९॥ मरणं तद्विनिर्दिष्टं नान्यथा परमार्थतः । महातपःप्रविभ्रृस्य च्छिद्यमानेषु मर्मसु ॥१००॥ यद्दुःखं मरणे जन्तोर्न तस्येहोपमा क्वचित् । हा तात मातः कान्तेति रुदन्नेवं हि दुःखितः ॥१॥ मण्डूक इव सर्पेण ग्रस्यते मृत्युना जनः । वान्धवैः संपरिष्वक्तः प्रियैः स परिवारितः ॥२॥ निःश्वसन्दीर्घमुष्णं च मुखेन परिशुष्यति । कन्दते चैव खट्वायां परिवर्तन्मुहुर्महुः ॥३॥ संमूढः क्षीयतेऽत्यर्थं हस्तपादावितस्ततः । खट्वातो वाञ्छते भूमिः भूमेः खट्वां पुनर्महीम् ॥४॥ विविशस्त्यक्तलज्जश्व मूव्रविष्टानुलेपितः । याचमानश्व सलिलं शुक्ष्ककण्ठोष्ठतालुकः ॥५॥ चिन्तयानश्व वित्तानि कस्यैतानि मृते मयि । पञ्चावटान्खन्यमानः कालपाशेन कर्शितः ॥६॥ स्त्रियते पश्यतामेव जनानां घुर्घुरस्वनः । जीवस्तृणजलौकेव देहाद्देहं विशेत्क्रमात् ॥७॥ संप्राप्योत्तरकालंहि देहं त्यजति पौर्विकम् । मरणात्प्रार्थनाद्दुःखमधिक ह्यविवेकिनः ॥८॥ क्षणिकं मरणाद्दुःखमनन्तं प्रार्थनाकृतम् । जगतां पतिरर्थित्वाद्विष्णुर्वामनतां गतः ॥९॥ अधिकः कोऽपरस्तस्माद्यो न यास्यति लाघवम् । ज्ञातं मयेदमधुना मतो भवति यद्गरुः ॥११०॥ न पर प्रार्थयेद्भूयस्नृष्णा लाघबकारनम् । आदौ दुःखं तथा मध्ये दुःखमन्ते च दारूणम् ॥११॥ निसर्गात्सर्धभूतानामिति दुःखपरम्परा । वर्तमानान्यतीतानि दुःखान्येतानि यानि तु ॥१२॥ नरा न भावयन्त्यज्ञा न विरज्यन्ति तेन ते । अत्याहारान्महद्दुःखमनाहारन्महत्तमम् ॥१३॥ तुलितं जिवितं कष्टं मन्येऽप्येवं कुतः सुखम् । बुभुक्षा सर्वरोगार्णा व्याधिः श्रेष्ठतमः स्मृतः ॥१४॥ स चान्नौषधिलेपेन क्षणमावं प्रशाम्यति । क्षुद्वन्याधिवेदनातुल्य निःशेपबलकृन्तनी ॥१५॥ तयाभिभूतो भ्रियत ययान्यैर्व्याधिभिर्नरः । तद्र्सोपि हि कामाद्वा जिह्राग्रे परिवर्तते ॥१६॥ तत्क्षणाद्वार्द्धकालेन कण्ठं प्राप्य निवर्तते । इति क्षुद्वयाधितप्तानामन्नमौषधवत्स्मृतम् । न तत्सुखाय मन्तव्यं परमार्थेन पण्डितैः ॥१७॥ मृतोपमो यश्वेक्षेत सर्वकार्यचिवर्जितः । तव्रापि च कुतः सौख्यं तमसाच्छादितात्मनः ॥१८॥ प्रबोधेऽपि कुतः सौख्यं कायैंरुपहतात्मनः । कृषिगोरक्षवाणिज्यसेवाध्वादिपरिश्रमैः ॥१९॥ प्रातर्मूव्रपुरीवाभ्यां मध्याह्रे तु बुभुक्षया । तृप्ताः कामेन बाध्यन्ते जन्तवोऽपि विनिद्रया ॥१२०॥ अर्थस्योपार्जने दुःखमर्जितस्यापि रक्षणे । आये दुःखं व्यये दुःखमर्थेभ्यश्व कुतः सुखम् ॥२१॥ चौरेम्यः सांलेलादग्नेः स्वजनात्पार्थिवादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृताभिव ॥२२॥ खेयातं पक्षिभिर्मांसं भक्ष्यते श्वापदैर्मुवि । जले च मक्ष्यते मत्स्यैस्तथा सर्वव्र वित्तवान् ॥२३॥ विमोहयन्ति संपत्सु तापयन्ति विपत्तिषु । खेदयन्त्यर्जनकाले कदा ह्यर्थाः सुखावहाः ॥२४॥ यथाऽर्थपतिरुद्विग्नो यश्व सर्वार्थानिःस्पृहाहः । यतश्वार्थपतिर्दुःखी सुखी सर्वार्थानिःस्पृहः ॥२५॥ शीतेन दुःखं हमन्ते ग्रीव्मे तापेन दारुणम् । वर्षासु । वातवर्षाभ्यां कालेऽप्येवं कुतः सुखम ॥२६॥ विवाहविस्तरे दुःखं तद्नर्भोद्वहने पुनः । प्रसवेऽपत्यदोषैश्व दुःखं दुःखादिकर्मभिः ॥२७॥ दन्ताक्षिरोगैः पुव्रस्य हा कष्टं किं करोम्यहम् । गावो नष्टाः कृषिर्भग्ना वृषाः क्कपि पलायिताः ॥२८॥ अमी पाघूर्णकाः प्राप्ता भक्तच्छेदे च मे गूहे । बालापत्या च मे भार्या कः करिष्पति रन्धनम् ॥२९॥ प्रदानकाले कन्यायाः कीद्दशश्व वरो भवेत् । इति चिन्ताभिभूतानां कुतः सौख्यं कुटुम्बिनाम् ॥१३०॥ कुटुम्बचिन्ताकुलितस्य पुसः श्रुतं च शीलं च गुणाश्व सर्वे । अपक्ककुम्मे निहिता इवापः प्रयान्ति देहेन समं विनाशम् ॥३१॥ राज्ये च सुमहद्दुःखं सन्धिविग्रहचिन्तया । पुव्रादपि भयं यव्र तव्र सौख्यं हे कीद्दशम् ॥३२॥ स्वजातीयाद्वधं प्रायः सर्वेषामेव देहिनाम् । एकद्रव्याभिलाषित्वाच्छुनामिब परस्परम् ॥३३॥ नाप्रधृष्यबलः कश्विन्नृपः ख्यातोस्ति भूतले । निखिलं यस्तिरस्कृत्य सुखं तिष्ठति निभयः ॥३४॥ आजन्मनः प्रभृति दुःखमयं शरीर कर्मात्मकं तब मया कथितं नरेन्द्र । दानोपवासनियमैश्व कृतैस्तदैव सर्वोपभोगसुखभागभवतीह पुंसाम् ॥१३५॥ [३२७] इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे संसारदोपख्यापनं नाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP