संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व| अध्याय ३ उत्तर पर्व अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ अध्याय ५३ अध्याय ५४ अध्याय ५५ अध्याय ५६ अध्याय ५७ अध्याय ५८ अध्याय ५९ अध्याय ६० अध्याय ६१ अध्याय ६२ अध्याय ६३ अध्याय ६४ अध्याय ६५ अध्याय ६६ अध्याय ६७ अध्याय ६८ अध्याय ६९ अध्याय ७० अध्याय ७१ अध्याय ७२ अध्याय ७३ अध्याय ७४ अध्याय ७५ अध्याय ७६ अध्याय ७७ अध्याय ७८ अध्याय ७९ अध्याय ८० अध्याय ८१ अध्याय ८२ अध्याय ८३ अध्याय ८४ अध्याय ८५ अध्याय ८६ अध्याय ८७ अध्याय ८८ अध्याय ८९ अध्याय ९० अध्याय ९१ अध्याय ९२ अध्याय ९३ अध्याय ९४ अध्याय ९५ अध्याय ९६ अध्याय ९७ अध्याय ९८ अध्याय ९९ अध्याय १०० अध्याय १०१ अध्याय १०२ अध्याय १०३ अध्याय १०४ अध्याय १०५ अध्याय १०६ अध्याय १०७ अध्याय १०८ अध्याय १०९ अध्याय ११० अध्याय १११ अध्याय ११२ अध्याय ११३ अध्याय ११४ अध्याय ११५ अध्याय ११६ अध्याय ११७ अध्याय ११८ अध्याय ११९ अध्याय १२० अध्याय १२१ अध्याय १२२ अध्याय १२३ अध्याय १२४ अध्याय १२५ अध्याय १२६ अध्याय १२७ अध्याय १२८ अध्याय १२९ अध्याय १३० अध्याय १३१ अध्याय १३२ अध्याय १३३ अध्याय १३४ अध्याय १३५ अध्याय १३६ अध्याय १३७ अध्याय १३८ अध्याय १३९ अध्याय १४० अध्याय १४१ अध्याय १४२ अध्याय १४३ अध्याय १४४ अध्याय १४५ अध्याय १४६ अध्याय १४७ अध्याय १४८ अध्याय १४९ अध्याय १५० अध्याय १५१ अध्याय १५२ अध्याय १५३ अध्याय १५४ अध्याय १५५ अध्याय १५६ अध्याय १५७ अध्याय १५८ अध्याय १५९ अध्याय १६० अध्याय १६१ अध्याय १६२ अध्याय १६३ अध्याय १६४ अध्याय १६५ अध्याय १६६ अध्याय १६७ अध्याय १६८ अध्याय १६९ अध्याय १७० अध्याय १७१ अध्याय १७२ अध्याय १७३ अध्याय १७४ अध्याय १७५ अध्याय १७६ अध्याय १७७ अध्याय १७८ अध्याय १७९ अध्याय १८० अध्याय १८१ अध्याय १८२ अध्याय १८३ अध्याय १८४ अध्याय १८५ अध्याय १८६ अध्याय १८७ अध्याय १८८ अध्याय १८९ अध्याय १९० अध्याय १९१ अध्याय १९२ अध्याय १९३ अध्याय १९४ अध्याय १९५ अध्याय १९६ अध्याय १९७ अध्याय १९८ अध्याय १९९ अध्याय २०० अध्याय २०१ अध्याय २०२ अध्याय २०३ अध्याय २०४ अध्याय २०५ अध्याय २०६ अध्याय २०७ अध्याय २०८ उत्तर पर्व - अध्याय ३ भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे. Tags : bhavishya puranpuranपुराणभविष्यपुराणसंस्कृत अध्याय ३ Translation - भाषांतर युधिष्ठिर उवाच ॥ कीद्दशी कृष्ण सा माया विष्णोरमिततेजसः । यया व्यामोहितं यच्च जगदेतच्चराचरम् ॥१॥ श्रीकृष्ण उवाच ॥ श्वेतद्वीपे पुरा विष्णुरास्ते चक्रगदाधरः वासुदेवः सगरुडः सचक्रश्व श्रिया सह ॥२॥ नीलोत्पलदलश्यामः कुण्डलाभ्यां विभूषितः । भ्राजते मुकुटोद्द्योतकेयूरवनमालया ॥३॥ तस्य द्रष्ट्रमथाभ्यागान्नारदो मुनिसत्तमः । प्रणम्य स्तुतिभिर्देवं प्राहद विस्मयान्वितः ॥४॥ संशयं परिपृच्छामि भगवन्व्रक्तुमर्हसि । का माया कीद्दशी मांया किंरूपा च कुतस्तथा ॥५॥ तस्या दर्शय मेंरूपं मायायाः पुरुषोत्तम । यया मोहयते सर्वं वैलोक्य सचराच रम् ॥६॥ आब्रह्म तम्बपर्यन्तं सदेवासरमानुषम् । वैकुण्ठं वासुदेवं च प्रसादं कतुमहसि ॥७॥ एवमुक्तस्तु मुक्षिना देवदेवो जनार्दनः । प्रहस्योवाच देवर्षे न कार्यं मायया त्वाया ॥८॥ भूयोऽपि मोहयामास सोमग्राहेण नारदम् । नारदोपि महाराज प्रोवाचेद पुनःपुनः ॥९॥ मार्थां दर्राय मे देव नान्यदस्ति प्रयोजनम् । अथासौ विष्णुरुथाय श्वेतद्वीपात् पुनर्ययौ ॥१०॥ अङ्रगुल्यग्रेण संगृह्य नारदं मुनिपुङ्गवम् । ततो मार्गगतश्वकं आत्मानं द्विजरूपिणम् ॥११॥ ऋखेदसद्दशः साक्षाद्विष्णुर्बह्मवदास्थितः । वृद्धद्विजोत्तमबपुः संशयो नाल्पकोऽभवत् ॥१२॥ शिखी कमण्डलुधृतो भृगचर्मोपवीतकः । यज्ञशर्मेति संज्ञां च चक्रेऽसावात्मनः प्रभुः ॥१३॥ कुत्वापि कुशतं त्वग्रपविव्रं कृतलक्षणम् । आषयौ स महापृष्ठं जम्बूद्वीपं चचार ह ॥१४॥ वैदिशं माम ननरं वेव्रवत्यास्तटे शुभम् । तस्मिन्सदोद्यमपरो धनधान्यसमृद्धिमान् ॥१५॥ गोमहिष्याजसंपूर्णं पाशुपाल्येन संस्थितः । हलकर्मवृषासक्तो बैश्यजातिरनिन्दितः ॥१६॥ गृहकर्मणि तन्निष्ठः सीरभद्र इति स्मृतः । तस्यान्तिके हरिः साक्षान्नारदेन सहागतः ॥१७॥ तेनाप्यासनसन्मामैः समथेंन कृतादरौ । प्रोक्तं केनाथ किं तुभ्यं साध्यमन्नं न साध्यते ॥१८॥ न वास्मदीयं युष्माकं रोचतेऽन्नं ततो रहिः । प्रहस्य प्रददौ तस्मै वरं द्विजवरो महत् ॥१९॥ उन्नाम्य वक्त्रं चोवाच देवसंस्तुतया गिरा । सन्तु ए बहवः पुव्राः क्षेव्रव्यापारबुद्धयः ॥२०॥ पशुपालगृहासक्ताः शतार्द्धबलवाहनाः तेषां पुव्राश्व पौव्राश्व कृषिवृद्धिप्रवर्द्धकाः ॥२१॥ त्वञ्च वृत्तिशतैर्नित्यं, वर्द्धस्व स्वजनावृतः । इत्युक्त्वा स जगन्नाथो वासुदेव सनारदः ॥२२॥ क्षेव्रे गोस्वामिनामानं द्विजं दद्दशतुश्व तौ । दरिद्रं हलकर्मार्तं मेथ्याद्योपस्करर्दितम् ॥२३॥ भागीरथ्यास्तटे रम्ये वेणिकाग्रामसन्निधौ । तृणगुल्प्रलताच्छन्नक्षेव्रे चिन्ताकुलो हि सः ॥२४॥ ताभ्यां संप्रर्थितो विप्रो भोज्यं प्रादाच्च किञ्चन । सकाशं तव संप्राप्तौ दूरादतिथिधर्मिणौ ॥२५॥ इत्युक्तोऽसौ द्विजश्रेष्ठो हलकर्म बिहाय तत् । आजगाम गृहं तूर्णं ताभ्यां सह ससंभ्रमम ॥२६॥ चक्रे चैवादरं भक्त्या स्वयमासनसत्क्रियाम् पादशौचं तथाभ्यङ्रं कृत्वान्नं च सुंसस्कृतम् ॥२७॥ सह पत्न्या सतनयो भोज्यभुक्तिं चकार सः । भुक्तभोज्यौ च शर्वर्यां सुखं सुप्तौ निशात्यये ॥२८॥ प्रयातौददतुः श्रेष्ठं वरं तस्मै द्विजातये । मा ते भवतु गोस्वामिन्कदाचिदपि कर्षणम् ॥२९॥ मा धान्यं मखसंसान मत्प्रसादाद्द्विजोत्तम । इत्युक्त्वा जम्मतुस्तूर्ण पुनः पप्रच्छ नारदः ॥३०॥ किमिदं वद देवेश शापरूपो वरस्त्वया । भद्र गोस्वामिने दत्तः किं च वैश्ये तथाविधः ॥३१॥ इत्युक्तः प्राह देवेशः शृनु नारद मद्वचः । परमार्थं प्रवक्ष्येऽहं तव्र संशयकृन्तनम् ॥३२॥ संवत्सरेण यत्पापं मत्स्यघाती समाचरेत् । तदह्रैकेन कुरुते लाङ्गली नाव्र संशयः ॥३३॥ अतोऽर्थं कृषिपाल्पेन नरकं याति लाङ्गली । तदभावान्न कल्पः स्यात्तेन मोक्षो मयि घ्रुवम् ॥३४॥ मुयि भुक्ते प्रसन्ने वा को विशेषोऽस्य नारद । यदि स्वर्गोऽथवा मोक्षो न संपद्येत तदृथा ॥३५॥ इदानीं हलकालुष्यैः सीरभद्रो चिचेष्टितैः । बहुपापप्रसङ्रेन घोरं नरकमेष्यति ॥३६॥ सपुव्रपौव्रसंतानं ह्रतोर्थं तद्न्हे मया । न भुक्तं न च विश्रान्तं विश्रान्तं द्विजवेश्मनि ॥३७॥ सोऽपि द्विजो मूनिश्रेष्ठ संसारादुत्तरिष्यति । इत्येवं संवदन्तौ च जग्मंतुर्मार्गमुत्तमम ॥३८॥ कन्यकुब्जस्प सामीप्ये सरःश्रेष्ठमपश्यताम् । हंसकारण्डवाकीर्णं चकवाकोपशोभितस् ॥३९॥ पद्मिनीजलकह्लाररक्तोत्पलसितोत्पलैः । छादितं पद्मिनीपव्रैर्मत्स्यैः कूर्मैंर्जलोद्भवैः ॥४०॥ तटै रम्यैर्घनैर्वृक्षैः केतकीखण्डमण्डितम् । केतकीकुसुमामोदैर्लकुचैस्तटमण्डितैः ॥४१॥ दात्यूहशिखिभारूण्डचकोराद्यैश्व सङ्कुलम् । कुरबैश्वातकै रम्यं केकाकुलनिनादितम् ॥४२॥ जलकुक्कुटसंगीतं हंससारसशोभितम् । जीवंजीवकहारीतचकोरैरुपशोभितम् ॥४३॥ वसिष्ठस्य मुनेर्नाम्ना विख्यातं श्रीमहोदयम् । अस्मिन्नद्य प्रवेतव्यं महाजनविवेकिनाम् ॥४४॥ स्थातव्यं पुरतस्तेषां तस्मात्स्नानं समाचरेत् । इत्युक्त्वा केशबः पापं सस्नौ प्रागेव तज्जलैः ॥४५॥ यं तीर्थलोकं विख्यातं खात्वा तीरं समाश्रितः । प्रहरे वासुदेवक्ष्य नारदोऽपि भुदा युतः ॥४६॥ आचम्य सस्नौ तीर्थेन क्षणात्तीर्थमवाप्य च । यावदुत्तिष्ठते तोयात्स्त्रत्वा क्रष्टिरुदारधीः ॥४७॥ तावत्खीत्वं समापन्नो नारदः केन वर्ण्यते । यस्यास्तु विस्तुते नवे वक्वं चन्द्रोपमं शुभमू ॥४८॥ स्मरपाशोपमौ कणौं कपोलौ कनकोज्ज्वलौ । नासिका तिलधारेण कामचापोपमे भ्रुवौ ॥४९॥ दशना हरिकैस्तुल्या विद्रुमाभः शुभाधरः । मयूरस्य कलापेन तुल्यं कचनिबन्धनम ॥५०॥ शंखरेखाव्रयेणैव कण्ठदेशो विराजते । माधवीलतया तुल्यौ मञ्जू तस्या भुजौ शुभौ ॥५१॥ युतौ रक्तोत्पलाभासौ पाणी रक्तनखाङ्गुली । पीनाबुत्तुङ्गतनुधृत्कठिनी कलशोपमौ ॥५२॥ स्तनावविरलौ स्त्रिष्टधौ चक्रवाकयुगोपमौ । स्वल्पकं सध्यदशें तु मुष्टिग्राह्यमसंशयम् ॥५३॥ नाभिमण्डलगाम्भीर्यं लावण्यं केन वर्ण्यत्ते वलिव्रयेण विकृतं रोमराजिविरजितम् ॥५४॥ नयने च पुनस्तस्या मृग्या इव सुशोमने । नितम्बं बिम्बफलकं मन्मथायतनं शुभम् ॥५५॥ रम्भायुग्मोपमावूरू स्मरबाणनिबन्धनौ । विपरीतरतायासखदभारसहौ द्दढौ ॥५६॥ नवकुन्दलतासासरलं सनिबन्धनम् । जङ्घायुगं महाराज गूढगुंल्फायुगं तथा ॥५७॥ रक्ताङ्गुलीलतानल्पनखचन्द्रिकयाचितम् । चरणारावन्दयुगलं सरक्तं सुप्रतिष्ठितम् ॥५८॥ सैत्रंविधा तदा नारी सर्वलक्षणपूजिता । बभूव क्षणमाव्रेण जगद्यामोहकारिणी ॥५९॥ क्षीरोदमथनोत्तीर्णी लक्ष्मीमन्यामिवोच्छ्रिताम् । द्दष्ट्रवाप्यदर्शनं प्राप्तो मायया मधुसूदनः ॥६०॥ संग्राप्यते च सा कालसङ्गमा हरिणी यथा । आस्त एकाकिनी मुग्धा कुर्याद्दिगवलोकनम् ॥६१॥ अथाजगाम तं दशं नाम्ना तालध्वजो नृपः । सह सैन्यैः परिवतः पुरन्दर इवामरैः ॥६२॥ गजारूढैर्हयारूढै रथारूढैर्नरोत्तमैः । विमानयानयुम्मस्थैस्तथान्तः पुरिकाजनैः ॥६३॥ ध्वजातपव्रकलिलैरनीकैः परिवारितः । तेन सा सहासा द्दष्टा नारी कमललोचना ॥६४॥ बभूव क्षणमाव्रेण कन्दर्पशरपीडितः । केयं कस्य कुतः प्राप्ता की देवी वाथ मानुषी ॥६५॥ अद्दष्टरूपाप्सरसां काचिद्देवी समागता । अहो रूपं सूरूपाया गोचो परितः पुमान् ॥६६॥ मुमूर्षुर्जायते मोहादनुदिग्धहतो यथा। इति संचिन्त्य हृदये राजा तालध्वजोऽन्तिके ॥६७॥ उवाच नारीं मुग्धां तां शृणु मद्वचनं शुभे । का त्वं कस्य कुतः प्राप्ता देशभेनं शुचिस्मिते ॥६८॥ इत्युक्तं साश्रुचार्वङ्गी प्राह मां विद्धययोनिजाम् । पिव्रा माव्रा विद्दीनां च तद्यथापि कुमारिकाम ॥६९॥ निराश्रयां विदित्वैनांततो राजा स्मरार्दितः । आरोप्य हयपष्ठे तां ततो राजा स्मरार्दितः ॥७०॥ नीत्वा विवाहयामास शास्त्रोक्तविधिना ततः । रेमे प्रासादशृङ्गाग्रे पर्यङ्के सितया तया ॥७१॥ उद्यानभव्यभूमीषु नदीनां पुलिनेषु च । पर्वतानां नितम्बेषु निर्झरेषु गुहासु च ॥७२॥ पद्मखण्डषु फुल्लेषु शोभितेषु सरस्सु च । प्रयागादिषु तीर्थेषु नदीनामाश्रमेषु च ॥७३॥ दिव्यावसथरम्येषु वेलाकूलेषु पार्थिवः । याबद्द्वादशवर्षणि एकाहमपि भारत ॥७४॥ ततस्त्रयोदशे वर्षे तस्या गर्भोऽभवन्मम । एतस्मिन्गर्भसंपूर्णे जातं दीर्घमलाबुकम् ॥७५॥ तद्भेदाहतकुम्भेषु चीजप्रारोहणान्नराः । बभूबुर्द्भातुशून्या वै दिव्यदेहबलोत्कटाः ॥७६॥ पञ्चाशत्सख्यया जाता उपसर्गादिवर्जिताः । आरूढयौवनाः सर्बे सुताः संग्रामकोविदाः ॥७७॥ तेषां पुव्राश्व पौव्राश्व बभूबुः सुरसत्तमाः । युयुधुः शरसङ्घातैश्वक्रशूलासिपद्दिशैः ॥७८॥ हयैरन्यैर्गजैरन्यैः क्रोधान्धाः कौरवा इव । पाण्डवैः सह सङ्ग्रामे युयुधुः क्षयमञ्जसा ॥७९॥ सपदातिगजारोहाः सान्तःपुरयुगेच्छया । विनेशुरब्धिमासाद्य सिन्धूनां प्रवश इव ॥८०॥ सासिसबलविस्ताराः सदर्पाः समहोच्छ्रयाः । इन्द्रलोकोपमं सर्वं कुलं नष्टं क्षणं तदा ॥८१॥ सा द्दष्टा नारदी योषा विनष्टं स्त्रकुलं रणे । रुरोद स्त्रेहसंयुक्तै । सैः कलुषया गिरा ॥८२॥ हा दैव हा विधे पाप हा कृतान्त नमसकृत । दर्शयित्वा निधानं मे पुननेंव्रे ह्रते त्वया ॥८३॥ इत्युकत्वा स्वमुरो घातैर्जघान भृशदुःखिता । भूमौ मूर्च्छातुरा भूत्वा पुनः प्राप्ता विचेतसा ॥८४॥ सोऽपि राजा विषण्णोऽसौ निर्विण्णः शोकसागरे । भूमौ निपतितो दुःखाद्रुरोद भृशदुःखितः ॥८५॥ विषण्णो मन्व्रिभिः सार्धं वृद्धशोकेन संयुतः । एतस्मिन्नन्तरे विष्णुराजगाम द्विजैः सह ॥८६॥ द्विजवेषपरिच्छन्न उपविष्टः सुखासने । ततः सस्सरो भूत्वा चक्रं धर्मार्थदर्शनात् ॥८७॥ किं रोदिनेन बहुना युवयोः क्लेशकारिणा । श्रूयतां विष्णुमायैषा स्वप्रवच्च धनोपमा ॥८८॥ शोभने याद्वशं शोकं कृत्वा संसारसागरे । सर्वेषामेव भूतानां परिणामोऽयमीद्दथः ॥८९॥ पुरन्दरसहस्त्राणि चक्रवर्तिशतानि च । निर्वापितानि कालेन दीपनेनेव वह्रिना ॥९०॥ येऽपि शोषयितुं शक्ताः समुद्रां ग्राहसङ्कुलम् । कुर्युश्व करयुग्मेन चूर्णं मेरुं महीतले ॥९१॥ उद्धर्तुं धरणीसंज्ञां ग्रहीतुं चन्द्रभास्करौ । प्रविष्टास्ते तु कालेन कृतान्तवदन तदा ॥९२॥ दुर्गा व्रिकूटं परिखाः समुद्रा रक्षांसि योद्धा धनदाच्च वित्तम् । मन्व्रं च यस्याशनसंप्रणीतं स रावणो दैवशाद्विषणः ॥९३॥ संग्रामे गजतुरगसमाकुलेऽपि वा स्यादग्नौ वा क्षितिविवरे महोदधौ वा । सर्वैर्वा सह वसतामुदीर्णकोपैर्नाभाव्यं भवति कदाचिदेव नाशः ॥९४॥ पातालमाविशतु यातु सुरेन्द्रलोकमारोहतु क्षितिधराधिपतिं सुमेरुम । मन्व्रौषधिप्रहरणैश्व करोतु रक्षां यद्भावि तद्भवति नाथ विभावितोऽरिम ॥९५॥ रोदिति कश्विदथाधुधौताननगुरुतरशोकविह्रलः । प्रविकटचाणवानपि नृत्पति कश्रिद्धर्मादिविग्रहः ॥९६॥ गायति ह्र्दयहारि सुखनिर्भरमायतविस्तृताधरोऽधिकन् । संसार एष रङ्गेदरगतनटकर्मतुल्य एबायम् ॥९७॥ इत्येवं धर्ममुद्दिश्य विष्णुः संसारचेष्टितम् । तूष्णीं बभूवानुपदं ततस्ते द्विजपुङ्गवाः ॥९८॥ उत्तिष्ठ स्त्राहि पुव्राणां प्रकुरुष्घौर्ध्वदोहिकम् । मा शोकं विष्णुमायैषा विष्णुना निर्मितं स्वयम् स्वयम् ॥९९॥ इत्युवत्वा चारुसर्वाङ्रीं स बभूवाचलः पुमान् । स एष सद्दशाकारो नारदस्तत्क्षणोऽभवत् ॥१००॥ सोऽपि राजा । ददर्शाथ त्तं समं व्रिपुरोहित्तः । सान्तःपुरमिदं सर्वमिन्द्रजालोपमं क्षणात् ॥१॥ नारदं मुनिशावूलं जटाभारभयानकम् । गौरवर्ण ज्वलन्तं च ब्राह्मन्या लक्ष्म्या विराजितम् ॥२॥ शिखाकमण्डलुघर बीणादण्डकरं तथा । ब्रह्मसूत्रेण शुभ्रेण कौपीनाच्छादनेन च ॥३॥ पादुकाभ्यां स्थितं तीरे सरसो ब्राह्मणासने । संग्रगृह्य कराग्रेण जगामादर्शनं हरिः ॥४॥ अम्बरेण सुरैः सार्द्धं तस्माद्देशाद्युधिष्ठिरः । श्वेतद्वीपमथासाद्य प्राह देवो मुनिं नृप ॥५॥ देवर्षे यत्त्वया पृष्टं पूर्वं मायाकथां प्रति । माया ययेद्वशी माया यत्स्वरूपा यदात्मिका ॥६॥ सा ते मायामया ब्रह्मन्वैष्णची संप्रदर्शिता । एवमुक्त्वा मुनिवरं देवदेवो जनार्दनः ॥१०७॥ [१९२] इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे मायादर्शन नाम तृतीयोऽध्यायः ॥३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP