संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|

उत्तर पर्व - अध्याय १७६

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

भगवन्सर्व भूतेश सर्वभूतनमस्कृत । अनुग्रहाय लोकानां कथयस्व ममापरम् ‍ ॥१॥

त्वत्तुल्यो जायते येन आयुषा यशसा श्रिया । तन्ने कथय देवेश दानं व्रतमथापि वा ॥२॥

श्रीकृष्ण उवाच ॥

शृणु राजन्प्रवक्ष्यामि तव लोकहितेच्छया । येनोपायेन जायंते मत्तुल्या म नवा भुवि ॥३॥

न व्रतैर्नोपवासैश्व न तीर्थगमनैरपि । महातीर्थदिमरणैर्न यज्ञैर्न श्रुतेन च ॥४॥

प्राप्यते मम लोकोऽयं दुष्प्राप्यस्त्रिदशैरपि । पार्थ स्त्रेहान्महाभाग प्रवक्ष्यामि हितं तव ॥५॥

गोब्राह्मणार्थे मरणं प्राप्तं येन सुमेधसा । प्रयागेऽनशनं वापि पूजितो वाथ शंकरः ॥६॥

प्रयाति ब्रह्मसालोक्यं श्रुतिरेषा सनातनी । येन मत्समतां याति तत्ते वक्ष्याम्यतः परम् ‍ ॥७॥

दानं हिरण्यगर्भाख्यं कथ्यमानं निबोध मे । अग्नेरपत्यं प्रथमं सुवर्णमिह पठ्यते ॥८॥

पवित्रं सर्व भूतानां पावनं परमं महत् ‍ । पर्यायनाम तस्योक्तं हिरण्यं सार्वलोकिकम् ‍ ॥९॥

तदपां गर्भपाविश्य पुमर्जातं तु भूतले । यश्व तद्वाह्नणे दद्यान्मत्तुल्यो जायते हि सः ॥१०॥

युधिष्ठिर उवाच ॥

विधानं तस्य देवेश कथयस्व सनातन । यत्प्रमाणं यथा चैतद्दातव्यं परमेश्वर ॥११॥

श्रीकृष्ण उवाच ॥

पर्वकाले प्रदातव्य दानमेतन्महामते । अयने विषुवे चैव ग्रहणे शशिसूर्ययोः ॥१२॥

व्यतीपातेऽथ कार्तिक्यां जन्मर्क्षे वा नरोत्तम । दुस्वप्रदर्शने चैव ग्रहपीडासु चैव हि ॥१३॥

प्रयागे नैमिषं चैव कुरुक्षेत्र तथार्बुदे । गंगायां यमुनायां च सिंधुसागरसंगमे ॥१४॥

पुण्यनद्यश्व दानेस्मिन्प्रशस्ताः स्युर्न संशयः यत्र वा रोचते राजन्गृहे देवकुलेथऽवा ॥१५॥

आरामे वा तडागे वा शुचौ देशे विधानतः तत्र भूशोधनं कुर्यात्प्रागुदक्प्रवणं शुभम् ‍ ॥१६॥

हस्ता द्वादशकर्तव्यं मंडपं तु सुशोभनम् ‍ । स्तम्भैर्मनोरहरैर्युक्तमार्द्रशाखा भिरन्वितम् ‍ ॥१७॥

तत्मध्ये वेदिकां कुर्यात्पंचहस्तामलंकृताम् ‍ । वितानमुपरिष्टाच्च पुष्पमालावलंबितम् ‍ ॥१८॥

हिरण्यगर्भे तन्मध्ये प्रथमेहनि कल्पयेत् ‍ । तस्य प्रमाणं वक्ष्यामि रुपंवै स्थंडिलोद्धवम् ‍ ॥१९॥

शिल्पिनं पूजयेत्पूर्व वासोभिर्भूषणैस्थता । ब्राह्मणान्वाचयेत्पश्वात्ततः कर्मसमारभेत् ‍ ॥२०॥

सूवर्णेन सुशुद्धेन शक्तितः कारयेद्‌बुधः । अंगुलानिश्चतुःषष्टिर्दैर्घ्य च परिकीर्तिंतम् ‍ ॥२१॥

त्रिभागहीनं वदने मूले तस्यार्द्धविस्तरम् ‍ । वर्तुलं कर्णिकाकारं चारु ग्रंथिविवर्जितम् ‍ ॥२२॥

पिधानमुपरिष्टाच्च कर्तव्यं चांगुलाधिकम् ‍ । अस्त्रामि दश कुर्वीत नालं सूर्य च कांचनम् ‍ ॥२३॥

दावंसपट्टिकं चैव सर्वोपस्करणान्वितम् ‍ । सूची क्षुरश्व हैमानि तत्सर्व परिकल्पयेत् ‍ ॥२४॥

पार्श्वतः स्थापयेत्तस्य हेमदंडकमंडलू । छत्रिकापादुक युग्मं वज्रवैडूर्यमंडितम् ‍ ॥२५॥

एवं लक्षणसंयुक्तं कृत्वा गर्भे विचक्षणः । ब्रह्मघोषेण महता शंखतूर्यवेण च ॥२६॥

हस्तिना शकटेनाथ राजन्ब्रहरथेन वा । आनयेन्मंडपं कृत्वाप्रदक्षिणमतंद्रितः ॥२७॥

तिलद्रोणोपरिगतवेदीमध्येऽधिवासयेत् ‍ । समालभ्य पनः सर्व कुंकुमेन सुगंधिना ॥२८॥

कौशेयवाससी शुभ्रे ततस्तं परिधापयेत् ‍ । सम्तात्पुष्पमालाभिः पूजयेद्भक्तितः सुवीः ॥२९॥

धूपैः सुधूपितं कृत्वा मंत्रमेतमुदीरयेत् ‍ । भूर्लोकप्रमुखालोकास्तव गर्भे व्यवस्थिताः ॥३०॥

ब्रह्मादयस्थथा देवा नमस्ते भुवनोद्भव । नमस्ते भवनाधार नमस्ते भुवनेश्वर ॥३१॥

नमो हिरण्यगर्भाय गर्भे यस्य पितामहः । एवं संपूजयित्वा तू तां रात्रिमधिवासयेत् ‍ ॥३२॥

वेद्याश्वतुर्दिशं चैव कुंडानि परिकपयेत् ‍ । चत्वारि चतुरस्त्राणि तेषु होमो विधीयते ॥३३॥

चतुश्वारणिकास्तत्रब्राह्मणा मंत्रपारगाः । होमं कुर्युर्जितात्मानो मौनिनः सर्व एव ते ॥३४॥

सर्वाभरणसंपन्नाः सर्वे चाहतवाससः ताम्रयाप्त्रद्वयोपेता गंधपुष्पादिपूजिताः ॥३५॥

वेद्याः पूर्वोत्तरे भागे ग्रहवेदिं प्रकल्पयेत् ‍ । तत्र ग्रहाँल्लोकपालान्ब्रह्मविष्णुमहेश्वरान् ‍ ॥३६॥

पूजयोत्वर्णवटितान्पुष्पधूपविलेपनैः । पताकाभि लंकृत्य मंडपं तोरणैस्तथा ॥३७॥

कुंभद्वयं च द्वारेषु स्थापयेद्रत्नसंयुतम् ‍ । तुलापुरुषमंत्रैश्व लोलपालबलिं क्षिपेत् ‍ ॥३७॥

कुंभद्वयं च द्वारेषु स्थापयेद्रात्नसंयुतम् ‍ । तुलापुरुषमंत्रैश्व लोकपालबलिं क्षिपेत् ‍ ॥३८॥

पालाश्यः समिधस्तत्र प्रशस्ता होमकर्मणि । चरुश्वैवेंद्रवत्यस्तिला गव्यं घृतं तथा ॥३९॥

स्वलिंगैर्होमयेत्पूर्व मंत्रैव्याहृतिभिः पुमान् ‍ । अयूते द्वे च होमत्य संख्यामाहुर्मनीविणः ॥४०॥

यजमानस्ततः स्त्रात्वा शुल्कांबरधरः शुचिः । भक्त्या हिरण्यमम च पर्वकाले समर्चयेत् ‍ ॥४१॥

नमो हिरण्यगर्भाय विश्वगर्भाय वै नमः । चराचरस्य जगतो गृहभूताय ते नमः ॥४२॥

मात्राहं जनितः पूर्व मर्त्यधर्मा सुरोत्तम । त्वद्नर्भसंभवादय दिव्यदेहो भवाम्यहम् ‍ ॥४३॥

इत्युच्चार्य स्वयं भक्त्या कृत्वा चैव प्रदक्षिणम् ‍ । क्षीरान्यदधिसंपूर्न तद्गर्भ प्रविशेद्‍बुधः ॥४४॥

सौवर्ण धर्म राजं तु सव्ये कृत्वा करे ततः । भास्करं दक्षिणेचैव मुष्टिं बद्धवा प्रयत्नतः ॥४५॥

जान्वोरंतरतश्वैवशिरः कृत्वा समाहितः । उछावसपंचकं तिष्ठेच्चेतसा चिंतयञ्छिवम् ‍ ॥४६॥

गर्भाधान पुंसवनं सीमंतोन्नयनं तथा । कुर्यार्हिरण्यगर्भस्य ततस्ते द्विजपुंगवाः ॥४७॥

जातकर्मादिकाः कर्युः क्रियाः षोडश चापराः । तत उत्थाय निःसृत्य पुनः कुर्यात्प्रदक्षिणाम् ‍ ॥४८॥

तावन्मुखं न पश्येत कस्यचिन्नृपसत्तम । सौवर्णा पृथिवी यावन्न दृष्टा स्पष्टचक्षुषा ॥४९॥

ततः स्नानं प्रकुर्वीत ब्रह्मघोषपुरःसरम् ‍ । अष्टौ द्विजाः सुवर्णागाः सौवर्णैः कलशैः शुभैः ॥५०॥

रौप्येरौदुं बरैर्वापि मृन्मयैर्वा सुशोभनैः । दध्यक्षतविचित्रांगै राम्रपल्लवशोभितैः ॥५१॥

पुष्पैरावेष्टितग्रीवैरद्रणैः कलशर्दृढः । चतुष्कमध्ये संस्थाप्य पीठमव्रणमुत्तमम् ‍ ॥५२॥

तत्र स्थाप्य महाभा यजमानं द्विजोत्तमाः । देवस्यत्वेति मंत्रेण कुर्युस्स्यभिषेचनम् ‍ ॥५३॥

अद्य जातस्य तेंऽगानि अभिषेक्ष्यामहेवयम् ‍ । दिव्येनानेन वपुषां चिरंजीव सुखी भव ॥५४॥

एवं कृताभिषेकस्तु यजमानः समाहितः । दबाद्धिरम्यगर्भ तं सोदकेनैव पाणिना ॥५५॥

तान्संपूज्य च भावेन बहुभ्यो वा तदाज्ञया । यज्ञोपकरणं सर्व गुरवे विनिवेदयेत् ‍ ॥५६॥

पादुकोपानहौ चैव च्छत्रचामरभाजनम् ‍ । अन्येषां चैव विप्राणां ये च तत्र सभासदः ॥५७॥

तेषां चैव प्रदातव्यं दानं चात्र विशेषतः दीनांधकृपणानां च दातव्यं सार्वकामिकम् ‍ ॥५८॥

अन्नसत्रं च कर्तव्यं यावद्दानपरिग्रहः । अनेन विधिना यस्तु दानसेतत्ययच्छति ॥५९॥

स कुलं तारयेत्सर्व देवलोकं स गच्छति । विमानवरमारुह्य पंचयोजनविस्तृतम् ‍ ॥६०॥

वापीकूपतडागाद्यैर्जलस्थानैरलंकृतम् ‍ । उद्यानशतसंस्थानं पद्माकरनिषेवितम् ‍ ॥६१॥

प्रासादशतसंकीर्ण वरस्त्रीशतसेवितम् ‍ । वीणावेणुमृदंगानां शब्दैरापूरितं महत् ‍ ॥६२॥

भूमयो यत्र राजेंद्र दिव्या मणिमयाः शुभाः । वेदिकाभिर्विचिन्नाभिः शोभितं भास्करप्रभम् ‍ ॥६३॥

धृतं स्तंभहस्त्रेण सुकृतं विश्वकर्मणा । पताकाभिर्विचित्राभिर्वज्रैश्व समलंकृतम् ‍ ॥६४॥

तदारुह्य विमानाग्रयं विद्याधरगणैर्युतम् ‍ । स याति लोकं शक्रऽय शक्रेण सह मोदते ॥६५॥

मन्वंतरशते जाते कर्मभूमौ प्रजायते । जंबूद्वीपमशेषं तु भुक्ते दिव्यपरा क्रमः ॥६६॥

धार्मिकः सत्यशीलश्व ब्रह्मण्यो गुरुवत्सलः । दशजन्मान्यसौ राजा जायते रोगवर्जितः ॥६७॥

यस्त्विंद शृणुयाद्भक्त्या रहस्य पापनाशनम् ‍ । सोऽपि वर्षशतं साग्रं सुरलोके महीयते ॥६८॥

गर्भ हिरण्यरचितं विधिवत्प्रविश्य संस्कारसंस्कृततनुः पुनरेव तस्मात् ‍ । निःसृत्य तदि‌द्वजवराय निवेद्य भक्त्या मार्तण्डद्दीवि विराजति दिव्यदेहः ॥६९॥ [ ७६८० ]

इति श्रीभविष्येमहापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे हिरण्यगर्भदानविधिवर्णन नाम षट्‌सप्तत्युत्तरशततमोऽध्यायः ॥१७६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP