संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|

उत्तर पर्व - अध्याय १६९

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


श्रीकृष्ण उ वा च ॥

अन्नदानस्य माहात्मयं कथयामि तवानघ । यत्प्रोक्तमृषिभिः पूर्व तदिहैकमनाः शृणु ॥१॥

ददस्त्वान्नं ददस्वान्नं ददस्वान्नं युधिष्ठिर । सद्यस्तुष्टिकरं लोके किं दत्तेन परेण ते ॥२॥

रामेण दशरथिना वनस्थेन निजानुजः । निर्वेदाद्यत्पुरा प्रोक्तस्तदहं प्रब्रवीमि ते ॥३॥

पृथिव्यामन्नपूर्णायां वयमन्नस्य कांक्षिणः । सांमित्रे नूनमस्माभिर्न ब्राह्मणमुखे हुतम् ‍ ॥४॥

यदुच्यते कर्मबीजं तस्यावश्यं फलं नरैः । प्राप्यते लक्ष्मणास्माभिर्नान्नं विप्रमुखे हुतम् ‍ ॥५॥

यन्न प्राप्यं तदप्राप्यं विद्यया पौरुषेण वा । सत्यो लोकप्रवादोऽयं नादत्तमुपतिष्ठति ॥६॥

भक्षोपयोगादन्नस्य दानं श्रेयस्करं परम् ‍ ॥७॥

प्रकारंतभोज्यानि दानान्यन्यानि भारत ॥ अन्नमेव पर्म दानं सत्यवाक्यं परं पदम् ‍ ॥८॥

बुद्धिश्वार्थात्परो लाभः संतोषः परमं सुखम् ‍ । स्त्रातान्यमनुलितानां भूषितानां च भूषणैः ॥९॥

न सुख न च संतोषो मवेदन्नादृतेनृणाम् ‍ । श्वेतो नाम महीपालः सार्वभौमोऽभवत्पुरा ॥१०॥

तेनष्टं बहुभिर्यज्ञैः संग्रामा बहवो जिताः । दानानि च प्रदत्तानि धर्मतः पालिता मही ॥११॥

भुक्ता भोगाः सुविपुलाः शत्रूणां मूर्धनि स्थितम् ‍ । वानप्रस्थेन विधिना त्यक्त्वा राज्यश्रियं नृप ॥१२॥

स्वर्ग जगाम मुकवा तु पूज्यमानो मरुद्वणैः । विमानसर्कप्रतिमं प्रतिपेदे मुदा युतः ॥१३॥

तत्रास्ते रममाणोऽसौ साकंविद्याधरैः सुखम् ‍ । प्रसिद्धैः स्तूयते सिद्धैः सेव्यतेऽप्सरसां गणैः ॥१४॥

गंधर्वैर्गीयते हृष्टैः शक्रेणाप्यनुगम्यते । दिव्यमाल्यांबरधरो दिव्याभरणभूषितः ॥१५॥

स च नित्यं विमानाग्रयादवतीर्यमहीतलम् ‍ । स्वमांसान्यत्ति कौतेयं पूर्व त्यक्त्वा कलेवरम् ‍ ॥१६॥

तच्छरीरं तथैवास्ते रक्षितं पूर्वकर्मभिः । स कदाचिन्सुरेशानं ब्रह्माणं समुपंस्थितेः ॥१७॥

प्रणम्य प्रांजलिर्भूत्वा निर्वेदादिदमब्रवीत् ‍ । भगवंस्त्वत्प्रसादेन प्राप्तं स्वर्गसुखं मया ॥१८॥

सर्वेषामपि संपूज्यः सुराणां सुरपुंगव । किं तु क्षुद्धाधतेऽत्यर्थ स्वर्गस्थस्यापि मे प्रभो ॥१९॥

यया मांसान्यहं स्वस्य भक्षयाम्यशनं विना । ब्रह्योवाच ॥ श्वेताभिजनसंपन्नश्वेत शृणु बचो मम ॥२०॥

त्वयाधीतं हुतं दत्तं गुरवः परितोषिताः । नाशनं भवता दत्तं यदि‌द्वजेभ्यो नराधिप ॥२१॥

अनन्नदानस्व फलं त्वयेक्मुपभुज्यते । तर्ह्यन्नदानतो नान्यच्छरीरारोम्यकारकम् ‍ ॥२२॥

नान्यदन्नादृते पुंसां किंचित्संजीवनौषधम् ‍ । महीं गत्वा महाराज कुरुष्व वचनं मम ॥२३॥

तपःस्वाध्यायसंपन्ने शास्त्रेज्ञे संजितेंद्रिये । येन संपद्यते तृप्तिक्षया क्ष्मापते तव ॥२४॥

विरिंचेर्वचनाद्नत्वा त्वरायुक्तो महीतलम् ‍ । अगस्त्यं भोजयामास भक्त्या मरतसत्तम् ‍ ॥२५॥

भोजयित्वा ततः प्रादाद्दक्षिणां क्षणिकल्मषः । एकाबलिं स्वकात्कंठात्समुत्तार्य समुज्ज्वलाम् ‍ ॥२६॥

ततो दुंदुभिघोषेण पूजितः सुरसत्तमैः । श्वेतरतृप्तोगतः स्वर्ग दत्वान्नं दक्षिणायुतम् ‍ ॥२७॥

पौलस्त्ये निहते पश्वाद्देवदानवसंकटे । रामायैकावलि प्रादादगस्त्यः परया मुदा ॥२८॥

एतदन्नस्य माहात्म्यं कथयाम्यपरं च ते । च चान्नादपरं किम्चित्सत्यं तव मयोदितम् ‍ ॥२९॥

अन्नं वै प्राणिनां प्राणा अन्नमोजो बलं सुखम् ‍ । एतस्मात्कारणात्सद्भिरन्नदः प्राणदः स्मृतः ॥३०॥

सुदूरादशया यस्य गृहं प्राप्ता बुभुक्षिताः । तृप्ताः प्रतिनिवर्तते कोऽन्यस्तत्सदृशः पुमान् ‍ ॥३१॥

दीक्षितः कपिला सत्री राजा भिक्षुर्महोदधिः । दृष्टमात्राह पुनं येते तस्मात्पश्यंति नित्यशः ॥३२॥

एकस्याप्यतिथेरन्नं यः प्रदातुमशक्तिमान् ‍ । तस्याऽऽरंभैः परिक्लेशैर्वसतः किं फलं गृहे ॥३३॥

शक्त्यते दुष्करेप्यर्थे चिररात्राय जीवितुम् ‍ । न त्वाहारविहीनेन शक्यं वर्तयितं चिरम् ‍ ॥३४॥

भुक्त्वा गृहे गृहस्थस्य मैथुनं यश्व सेवते । यस्यान्नं तस्य ते पुत्रा इति प्राहुम्रनीषिणः ॥३५॥

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति । यो यस्मान्नं समश्नाति स तस्याश्नाति दुष्कृतम् ‍ ॥३६॥

वनस्पतिगते सोमे परान्नं यस्तु भुंजति । तस्य मासकृतं पुण्य़ं दातारमुपगच्छति ॥३७॥

कस्मान्न दीयते नित्यं कस्मादन्नं न दीयते । यस्येदृशी फलावाप्तिः कथिता पूर्वसूरिभिः ॥३८॥

भिक्षां पुष्कलां वापि हंतकारं द्विजातये । भोजनं वा यथालाभमदत्त्वश्नातिकिल्विषम् ‍ ॥३९॥

येनायुतं सहस्त्रं वा भोजितं स्यादि‌द्वजन्मनाम् ‍ । तेनब्रह्मगृहासन्नंनूनं बद्धंकुटीरकम् ‍ ॥४०॥

वाराणस्यां पुरा पार्थ वणिगापणजीवनः । धनेश्वर इति ख्यातो देवब्राह्मणपूजकः ॥४१॥

तस्यापणकैदेशे तु मुक्त्रांडं पांडुरच्छवि । ससर्प सर्पस्तेद्देशाद्वणिग्दृष्ट्रवा विशंकितः ॥४२॥

तदंड वणिजा तेन दृष्टं कारुण्यबुद्धिना । ततः प्रभृत्यनुदिनं ररक्ष च पुपां च ॥४३॥

निर्जगाम दिनैः कैश्विद्भित्त्वांडं सर्पपोतकः । तं बणिवक्षीर पानाद्यैरुपचारैरवर्धयम् ‍ ॥४४॥

लिलिहे घृतभांडानि जिघ्रे च गंधसंचयात् ‍ । लुलोठ पांसुप्रकरे चचार घरिमध्यगः ॥४५॥

वणिजाक्ष्यमाणः सस्त्रेहाच्चाहरहर्निशम् ‍ । जगाम समहान्कालोऽभवदेष भयंकरः ॥४६॥

अथैकस्मिन्दिने गंगां गतः स्त्रातुं त्रिलोकगाम् ‍ । वणिगापणे पण्यविदं स्थापयित्वा सुतं मतम् ‍ ॥४७॥

व्यवहर्तु समारब्धं वणिक्पुत्रेण धीमता । ददाति प्रतिगृह्राति घृततैलयवैशवम् ‍ ॥४८॥

व्यवहाराकुलतया पादयोरंतरेण सः । सर्पश्वचालचापल्याद्वणिग्विक्षेपपमभ्यगात् ‍ ॥४९॥

जानन्नपि तद्धत्तांतं निघनं नियतेर्वशात् ‍ । त्रासात्संतर्जयामास बलेन पदचारिणम् ‍ ॥५०॥

समाहतः समुत्थाय मूर्द्धानमवर ह्य च । उवाच दारुणतर वचनं पन्नगाधमः ॥५१॥

शरणागतं पोषितं च तव पित्रा प्रियंकरम् ‍ । कस्मान्मी हसि दुष्टात्मन्कथं जीवन्विमोक्ष्यसे ॥५२॥

अनंतंर कलकलः संजातो रोदतां नृणाम् ‍ । धनेश्वरसुतो दष्टः सर्पेणापि भृशाकुलः ॥५३॥

अच्युतानंत गोविंद कृष्ण कृष्णेत्युदीरयन । धनेश्वरोऽप्यनुप्राप्तः प्रोवाचाकुलया गिरा ॥५४॥

किं कृतं मम पुत्रेण तव पन्नग विप्रियम् ‍ । यदयं भवता मूर्ध्नि स्वभोगेनाभिवेष्ठितः ॥५५॥

मूर्खे मित्रं सुसंबंधं हनिजातिं जनोहि यः । यः करोत्यबुर्धोगारान्स स्वहस्तेन कर्षति ॥५६॥

तमुवाच च सर्पोऽसौ बाष्पगद्नदया गिरा । निरपराधो भवतिः पुत्रेणाहं समाहतः ॥५७॥

तदहं पश्यतस्ते‍द्य दशाम्येन नराधिप । यथा न भूयो भूतानां भवेदस्मात्क्कचिद्भयम् ‍ ॥५८॥

धनेश्वर उवाच ॥ उपकारव्रतं भक्त्वा स्नेहपाशो न यस्य च । संता मागंमपाक्रम्य प्रयातः केन वार्यते ॥५९॥

क्षणमात्रं प्रतीक्षस्व यावदेव शिशुर्मम । और्ध्वदेहि ककर्माणि करोति स्वयमात्मनः ॥६०॥

एवमुक्त्वा गृहं गत्वा यतीनां ब्रह्मचारिणाम् ‍ । सहस्त्रं भोजयामास घृतपायसभोजनै ॥६१॥

समुत्थाय ततः सर्वे ब्राह्मणा हृष्टमानसाः । वनीक्पुत्रस्योत्तमांगेचिक्षितुः कुसुमाक्षतान् ‍ ॥६२॥

वेणिक्पुत्रचिरंजीव नश्यंतु तव शत्रवः । अमीष्टफलसंसिद्धिरस्तु ते ब्राह्मणाज्ञया ॥६३॥

ततः स दुष्टप्रकृतिर्विप्रवाग्वज्रताडितः । पन्नगो नगसंकाशः पपात्त च ममार च ॥६४॥

विपन्नं वन्नगं दृष्टाव त्रस्तचक्षुर्धनेश्वरः । आः किमेतदिति प्रोच्य विषादमगमत्परम् ‍ ॥६५॥

पोषितोऽयं मया बालः पालितो लालितस्तथा । ममापचारात्पंचत्वमापन्नः पवनाशनः ॥६६॥

उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिरिष्यते ॥६७॥

इत्येवमवधार्यासौ दुःखसंतप्तमानसः । बुभुजे नाकुलतया न च सुष्वाप तां निशाम् ‍ ॥६८॥

ततः प्रभाते गंगायां स्नात्वा संतर्प्य देवताः । संहस्त्रं भोजयामास पुनरेवद्विजन्मनास् ‍ ॥६९॥

तैर्भुक्तैरिष्टसंसिद्धयै ब्राह्मणैरनुमोदितः । वणिक्प्राह ममाभीष्टं संजीवत्वेष पन्नगः ॥७०॥

ततो द्विजवरोन्मुक्तैरंबुभिः परिषिंचितः । उदतिष्टदहनिनांगः सहसाहिमहाकुलः ॥७१॥

प्रहर्षमतुलं लेभे दृष्ट्‌वा तं पुरतः स्थितम् ‍ । प्रत्यग्रावयवं दृष्ट्‌वा सक्तिगीपरिलोलिहम् ‍ ॥७२॥

साधुवादोमहाञ्जातः प्रशशंसुर्धनेश्वरम् ‍ । पुरीनिवासिनः सवे विस्मयोत्फुल्ललोचनाः ॥७३॥

सहस्त्रभोज्यमाहात्म्यं कथितं ते युधिष्ठिर । सम्यक्छ्रद्धाप्रयुक्तत्य । किमन्यत्कथयामि ते ॥७४॥

यच्छंति येऽनुदिवसं द्विजपुंगवानामन्नं विशुद्धमनसो भृशमागतानाम् ‍ । मर्त्ये विहृत्य सुचिरं सुसुहृज्जनास्ते प्रेत्य प्रयंति भवनं मुदिता मुरारेः ॥७५॥ [ ७३९१ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे अन्नदानमाहात्म्यवर्णनं नामैकोनसप्तत्युत्तरशततमोऽध्यायः ॥१६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP