संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|

उत्तर पर्व - अध्याय २०५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठिर उवाच ॥

प्रतिपत्क्रमयोगेन तिथीनां विस्तरः श्रुतः । सरहस्यः समंत्रश्व प्रारंभोद्यापनैः सह ॥१॥

नवग्रहमख्यात्सर्व होमकर्मावधारितम् ‍ । स्त्रानक्रमश्व विदितो विज्ञाताश्वोत्सवा मया ॥२॥

दानधर्मस्त्वशेषेण श्रुतः सर्वार्थदर्शितः । तदागोत्सर्जनविधिर्विंदितः पादपोत्सवः ॥३॥

एवं गते मम मनो मुह्यते मधुसूदन । व्रतं कथयता कृष्ण तास्तःसंश्रित्य देवताः ॥४॥

देवानां देवकीपुत्रं नानात्वं संप्रदर्शितम् ‍ । तिथिक्रमान्कथयता पूजामंत्रोधिवासनम् ‍ ॥५॥

व्यासाद्यैर्मुनिभिः सर्वैर्ध्यानयोगपरायणैः । एक एवात्र निर्दिष्टो देवः सवगतोऽव्ययः ॥६॥

वर्णाश्रमाचारधर्मः कस्मान्नात्र प्रदर्शितः । एते महर्षस्तुष्टाः श्रोतुकामा भवद्वचः ॥७॥

श्रीकृष्ण उवाच ॥ व्रतदानैकलेशोयं कथितस्तव पार्थिव । विशेषतश्व शक्रोति वक्तुं यदि सरस्वती ॥८॥

सर्वस्तरतिदुर्गाणिसर्वोभद्राणिपश्यति । वर्णाश्रमाणां सामान्य इति धर्मः प्रकीर्तितः ॥९॥

कथितोऽयं व्रतत्वोहो देवानुद्दिश्य वो मया । वस्तुतस्तु य एवोक्तो देवस्तमुपधारय ॥१०॥

यो ब्रह्मा स हरिः प्रोक्तो यो हरिः स महेश्वरः । महेश्वरमुनः सूर्यः सूर्यः पावक उच्यते ॥११॥

पावकः कार्तिकेयोसौ कर्तिकेयो विनायकः । गौरीलक्ष्मीश्व सावित्री शक्तिभेदाः प्रकीर्तिताः ॥१२॥

देवं देवीं समुद्दिश्य यः करोति व्रतं नरः । न भदग्तत्र मतंव्यः शिवशक्तिमय्म जगत् ‍ ॥१३॥

बहुप्रकारा वसुधा भेदाः साग्र्यानिलांभसाम् ‍ । परमार्थतश्विंत्यमानो न भेदः प्रतिभासते ॥१४॥

कंचिद्देवं समाश्रित्य करोति किमपि व्रतम् ‍ । त्रयधिधर्मानुगं पार्थ एकं तत्रापि कारणम् ‍ ॥१५॥

यश्वैव ते मयाख्यातो व्रतदानविधिः मरः । सफलः स तु विज्ञेयः सदाचारवतां सताम् ‍ ॥१६॥

आचारहीनं न पुनंति यद्यप्यधीताः सहषड्‌भिरगैः । छंदांस्येनं मृत्यु काले त्यजंति नीडं शकुंता जातपक्षाः ॥१७॥

कपालस्थं यथां तोयं श्वदृतौ वा यथा पयः । दुष्टं स्यात्स्थानदोषेण वृत्तहीने तथा शुभम् ‍ ॥१८॥

वृत्तं यत्नेन संरक्षेद्वित्तमेति प्रयाति च । अहीनो वित्ततो हीनो वृत्ततस्तु हतो हतः ॥१९॥

एवमाचारो धर्मस्य मूलं राजन्कुलसा च । आचारद्धि च्युतो जंतुर्नकुलीनो न धार्मिकः ॥२०॥

किं कुलेनोपदिष्टेन विपुलेन दुरात्मनाम् ‍ । कृमयः किं न जायते कुसुमेषु सुगंधिषु ॥२१॥

हीनजातिप्रसूतोपि शौचायासरमन्वितः । सर्वधर्मार्थकुशलः स्त्रकुलीनः सतां वरः ॥२२॥

न कुलं कुलमित्याहुराचारः कुलमुच्यते । आचारकुशलो र जन्निह चामुत्र नंदते ॥२३॥

युधिष्ठिर उवाच ॥ सदाचारमहं कृष्ण श्रोतुमिच्छामि शाश्वतम् ‍ । सर्वधर्ममयः कोऽत्र सदाचारः प्रकीर्तितः ॥२४॥

श्रीकृष्ण उवाच ॥ आचारप्रभवो धर्मः संतश्वाचारलक्षणाः । साधूनां च यथ वृत्तं स सदाचारउच्यते ॥२५॥

तस्मात्कुर्यादिहाचारं य इच्छेद्गतिमात्मनः । अपि पापशरिरस्य आचारोहंत्यलक्षणमः ॥२६॥

अदृष्टमश्रुतं बेद पुरुषं धर्मचारिणम् ‍ । स्वानि कर्माणि कुर्वाणं तं जनं कुरुते प्रियम् ‍ ॥२७॥

ये नास्तिका नैष्ठिकाश्व गुरुशास्त्रातिलंघिनः । अधर्मज्ञा दुराचारास्ते भवंति गतायुषः ॥२८॥

सर्वलक्षणहीनोऽपि यः सदाचारवान्नरः । ब्राह्मणानलगोसूर्यान्नमेहेत कदाचन ॥३०॥

उदङ्‌मुखो दिवा रात्रावुत्सर्ग दक्षिणामुखः । उत्थायाचम्य तिष्ठेत पूर्वा संध्यां समाहितः ॥३१॥

एवमे वोनरो संध्यां समुपासीतवाग्यतः । नेक्षेता नास्तं यांतं कदाचन ॥३२॥

ऋषये दीर्घतप्तसा दीर्घमायुरवाप्नुयुः उपासते ये न पूर्वा द्विजाः संध्यां न पश्विमाम ॥३३॥

सर्वास्तान्धार्मिको राजा शूद्रकर्मणि योजयेत् ‍ । आबाधासु यथाकामं कुर्यान्मूत्रपुषियोः ॥३४॥

शिरसा प्रावृतनैव समास्तीर्यतृणमहीम् ‍ । ग्रामावसथतीर्थानां क्षेत्राणा चैव वार्मनि ॥३५॥

न मूवमधितिष्ठेत न कृष्टे न च गोब्रजे । अंतर्जलादावसथाद्वल्मीकान्मूषकस्थलात् ‍ ॥३६॥

कृतशौचावशिष्टाश्व वर्जयेत्पंच वै मृदः । देवाचनादिकार्याणि तथागुर्वाभिवादनम् ‍ ॥३७॥

कुर्वीत सम्यगाचम्य तद्वदन्नभुजिक्रियाम् ‍ । अफेनशब्दगंधाभिर द्धिरच्छाभिरादरात् ‍ ॥३८॥

आचानेत्प्रयतः सम्यक्पाड्‌मुखोदङ्‌मुखाऽपिवा । त्रिवर्गसाधनं यच्च सदा कार्य विपश्विता ॥३९॥

तन्निमित्तद्‌गृहस्थस्य सिद्धिरत्र परत्र च । पादेन काय पारत्र्यं पादं कुर्याच्च संचये ॥४०॥

अर्धेनाहारचरणं नित्यनैमित्तिकांतकम् ‍ । अर्थस्योपार्जने यत्नः सद कार्यो विपश्वितैः ॥४१॥

तासंसिद्धौ हि सिद्धयंति धर्मकामादयो नृप । केशप्रसाधनादर्शदर्शनं दंतधावनम् ‍ ॥४२॥

पूर्वाह्र एव कार्याणि देवतामां च पूजनम् ‍ । दूरादावसथान्मूत्रं दूरात्पादावसेचनम् ‍ ॥४३॥

उच्छिष्टो सर्जनं दूराल्सद कार्य हितैषिणा । लोष्ठमर्दी तृणच्छेद्री नखखादी च यो नरः ॥४४॥

नित्योच्छिटः संकरकृन्ने हायुर्विदते महत् ‍ । नग्नां परस्त्रियं नेक्षेन्न पश्येदात्मनः शकृत ॥४५॥

उदक्यादर्शनस्पर्श कुयत्संभाषणं न च । नाप्सु मूत्रं पुरीष वा मैथुनं वा समाचरेत् ‍ ॥४६॥

नाधितिष्ठेच्छकृन्मत्रेकेशभस्मकपालिकान् ‍ । तुषांगारास्थिशीर्णानिरज्जुवस्त्रादिकानिच ॥४७॥

धारिणो न नमोद्विद्वान्नासनं चापि दापयेत । ब्राह्मणान्प्रणमेद्विद्वानासनं चापि दापयेत् ‍ ॥४८॥

कृतांजलिरुपासीत गच्छंतं पृष्ठतोन्वियात् ‍ । न चासीतासने भिन्ने भिन्नं कांस्यं च वर्जयेत् ‍ ॥४९॥

नामुक्तकेशैर्भोक्तव्यं न नग्नः स्त्रानमाचरेत् ‍ । स्वप्तव्य्म नवि नग्नेन न चेच्छिष्टस्तु संविशेत् ‍ ॥५०॥

उच्छिष्टां न स्पृशेच्छीर्ष सर्वे प्राणास्तदाश्रयाः । केशग्रहान्प्रहारांश्व शिरस्येतानि वर्जयेत् ‍ ॥५१॥

नान्यत्र पुत्रशिष्याभ्यां शिफया स्मृतम् ‍ । न पाणिभ्यं संहताभ्यां कंडूयेदात्मनः शिरः ॥५२॥

न चाभीक्ष्णं शिरः स्नानं कार्य निष्कारणं नरैः । अप्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् ‍ ॥५३॥

न भुक्तोत्तरकालं च नगंभीरजलाशये । शिरः रनानं तु तैलेन नांगं किंचिदुपस्पृशेत् ‍ ॥५४॥

तिलपिष्टं च नाश्रीयात्तथा स्यायुर्न हीयते । दुष्कृतं न गुरोर्ब्रूयात्क्रुद्धं चैनं प्रसाद येत् ‍ ॥५५॥

परीवादं न शृणुप्रादन्येषामपि जल्पताम् ‍ । सदानुपहतस्तिष्ठेत्प्रशस्ताश्व तथौषधीः ॥५६॥

गारुडानि चरत्नानि बिभृयात्प्रयतो नरः । सुस्निग्धामलकेराश्वसुगंधिश्चारूवेषधृक् ‍ ॥५७॥

सिताः सुमनसो हृद्या विभृयाच्च नरः सदा । किंचित्परस्वं न हरेन्नाल्पमप्यप्रियंवदेन् ‍ ॥५८॥

प्रिय च नानृतं ब्रूयान्नान्यदोषानुदीरयेत् ‍ । नान्वाश्रितं तता वैरं राचयेत्पुरुषेश्वर ॥५९॥

न दुष्टयान मारोहेत्कूलच्छायांनसंश्रयेत् ‍ । विद्विष्टपतितोन्मत्तबहुवैरादिसंकरैः ॥६०॥

बंधकीबंधकीभर्तृक्षुद्रानृतकथैः सह । तथातिव्ययशीलैश्व परिवादरतैः शठैः ॥६१॥

बुधो मैत्रीं न कुर्वीत नैक पंथानमाशयेत् ‍ । नावगाहेज्जलौधस्य वेगमग्रेनरेश्वर ॥६२॥

प्रदीप्ते वेश्म न विशेन्नारोहोच्छिखरंतरोः । न हुंकुर्याच्छवं चैव शवगंधोहि सामयः ॥६३॥

न कुर्याद्दतसंघर्ष न कुर्याच्चलनासिकाम् ‍ । नासंस्पृष्टमुखोब्रूयाच्छ्रवास कासौचवर्जयेत् ‍ ॥६४॥

नोच्चैर्हसत्सशब्दंचनमुञ्चेत्पवनंबुधः । नखान्नवादयोच्छिंद्यान्न नखैश्व महीं लिखेत् ‍ ॥६५॥

न श्मश्रुभक्षयेचैव न लाष्ठानि च मर्दयेत् ‍ । पादेन नाक्रमेत्पादं न पूज्याभिमुखं नयेत् ‍ ॥६६॥

नोच्चासने समासीत गुरारग्रे कदाचन । तस्मात्सदाचारपरो भवेत्कामचरो न हि ॥६७॥

लोकद्वय शुभं प्रेत्य स्वर्गे महीयते । चतुष्पथं चैत्यतरुं श्मशानोपवनानि च ॥६८॥

दुष्टस्त्रीस्निकर्ष च वर्जयेन्निशि सर्वदा । ग्रीष्मवर्षासु च च्छत्री मौनी रात्रौ वनेषु च ॥६९॥

केशाथिकँटकामध्यबलिभस्मतुषांस्तथा । स्नानार्द्रा धरणीं चैव दूरतः परिवर्जयेत् ‍ ॥७०॥

पंथा देयो ब्राह्मणेभ्यो राजभ्यः स्त्रीभ्य एव च । विद्याधिकस्य गुर्विण्या भारिणश्व महीयस ॥७१॥

मूकांधबधिराणां न मत्तस्योन्मत्तकरयच । उपानदूस्त्रमाल्य्म च धृतमन्यैर्न धारयेत् ‍ ॥७२॥

न हीदृशमनायुष्यं लोके किंचन विद्यते । यादृशंपुरुषस्येह परदारोपसेवनम् ‍ ॥७३॥

न चेर्ष्या स्त्रीषु कर्तव्या दारारक्ष्याः प्रयत्नतः । अनायुष्या भवेदीर्ष्या तस्मात्ताम परिवर्जयेत् ‍ ॥७४॥

मूर्खोन्मत्तव्यसनिनो विरुपा मानिनस्तथा । हीनांगानधिकांगांश्व विद्याहीनांश्व नाक्षिपेत् ‍ ॥७५॥

पानीयस्य क्रिया नक्तं तथैव दधिसक्तवः । वर्जनीया महाराज निशीथे भोजनक्रियाः ॥७६॥

नोर्ध्वजानुश्विर तिष्ठेन रहस्यपरो भवेत् ‍ । तद्वन्नोपविशेत्प्राज्ञः पादोनाक्रम्य वासनम् ‍ ॥७७॥

न चातिरक्तवासाः स्याच्चित्रासितधरोऽपि वा । नच कुर्याद्विपर्यासं वाससो न विभूषणे ॥७८॥

स्त्रीं कृशां नावजानीयाद्दीर्घमायुर्जिजीविषुः । ब्राह्मणं क्षत्रिय सर्व सर्वे ह्यशीविषोपमाः ॥७९॥

हन्यादाशीविषः क्रुद्धो यावत्स्पृशति दंष्ट्‍या । क्षत्रियोऽपि दहेत्क्रुद्दो यावत्पश्यति तेजसा ॥८०॥

ब्राह्मणः सकुलं हन्याद्धयानेनावेक्षितेन च । नातिकल्य्म नातिसायं न च मध्यं दिने तथा ॥८१॥

जाज्ञातैः सह गतंव्य नैकेन बहुभिः सह । नारुंतुदः स्यान्न परोक्षवादी न प्रमादि च ॥८२॥

रोहते चाग्निना दग्धं वनं परशुनाहतम् ‍ । वचोदुरुक्तभीभत्सं न संरोहति चाक्षतम् ‍ ॥८३॥

नास्तिक्यं वेदनिंदां च देवतांना च कुत्सनम् ‍ । द्वेषोदम्भोऽतिमावश्ववलैव्यं च परिवर्जयेत् ‍ ॥८४॥

न ब्राह्मणं परिवेदन्न नक्षत्राणि दर्शयेत् ‍ । तिथिं पक्षस्य न व्रूयाद्ययात्यायुर्नरिष्यते ॥८५॥

धौतं शुल्कं च वासश्वपरिधायाचमेद्‌बुधः । जितामित्रोनृपोयश्वबलवान्कर्मतत्परः ॥८६॥

तत्र नित्यं वसेत्प्राज्ञः कृतकृत्यः सदासुखम् ‍ । पौराः सुसंहता यत्र सतत न्यायवर्तिनः ॥८७॥

यत्रस्त्रियोऽमत्सरिण्यस्तत्रवासः सुखोदयः । यस्मिन्कृषीवला राष्ट्रे प्रायशो नाति भाषिण ॥८८॥

यत्रौषधान्यशेषाणि वसेत्तत्र विचक्षणः । तत्र राजन्न वस्तव्यं यत्रैतत्रितयं सदा ॥८९॥

जिगीषु पूर्ववैरं च जनश्व विरतोत्सवः । तत्र राजन्न वस्तव्यं यत्र नास्ति चतुष्टयम् ‍ ॥९०॥

ऋणप्रदाता वैद्यश्व श्रोत्रियः सजला नदी । अवलोक्यो न चादर्शो मलिनो बुद्धिमत्तरैः ॥९१॥

न च रात्रौ महाराज दीर्घराज्यमभीप्सता । हेमकारगृहे चान्नमश्नीयन्न च विश्व सेत् ‍ ॥९२॥

म च मित्र प्रकुर्वीत हिमकारं कदाचन । भिन्नभांडं च खट्‌वां च कुक्कुरं कुक्कुटे तथा ॥९३॥

अप्रशस्तानि चत्वारि ये च वृक्षाः सकंटकाः । भिन्नभांडे बलिः प्रायः खटावयां शयनं सदा ॥९४॥

नाश्नांति पितरस्तत्य यत्र कुक्कुअकुक्कुटौ । वृक्षमूले पिशाचानां सर्वेषामेव संस्थितिः ॥९५॥

अतस्तेषां तले भुंजन्नश्नते पूयशोणितम् ‍ । असंस्कृतान्नभुङ्‌मूत्रंबालादिप्रभवं स्वयम् ‍ ॥९६॥

सुवासिनीं गुर्विनीं च वृद्धां बालातुरांस्तथा । भोजयेत्संस्कृतान्नेन प्रथमं चरमं गृही ॥९७॥

अघं स केवलं भुक्तेऽभुक्तगोवाहनादिकम् ‍ । यो भुक्ते च बहिर्ज्येष्ठप्रेक्षतामप्रदाय च ॥९८॥

वैश्वदेवं ततः कुर्याद्यावदाहुत यःक्रमात् ‍ प्रथमां ब्रह्मणे दद्यात्प्रजानां पतये ततः ॥९९॥

तृतीयां चैव गृह्येभ्यः कश्यपाय तथा पराम् ‍ । ततश्वानुमतेदद्याद्दत्वा गृहबलिं ततः ॥१००॥

पूर्वाख्यातं मया यत्ते नित्यकर्मक्रियाविधौ । दद्यादथ धरित्रीणां दद्यात्तु मणिकत्रयम् ‍ ॥१०१॥

प्राच्या दिक्रमयोगेन इंद्रादीनां बलिं क्षिपेत् ‍ । ब्रह्मणे चान्तरिक्षाय सूर्याय च यथाक्रमम् ‍ ॥१०२॥

विश्वेभ्यश्वैव देवेभ्यो विश्वभूतेभ्य एव च । कृत्वापसव्यं वायव्यं यक्ष्मै तत्ते निवेदयेत् ‍ ॥१०३॥

ततश्वाग्रं समुद्धृत्य हंतकारोपकल्पितम् ‍ । यथाविधि यथान्याय ब्राह्मणायोपपादयेत् ‍ ॥१०४॥

दत्त्वा विश्वेभ्यो देवेभ्यो गुरुभ्यः सुश्रुताय च । पुण्यगंधांबरधरो माल्यधारी नरेश्वर ॥१०५॥

नैकवस्त्रधरोऽश्नीयान्नार्द्रपादो महीपते । विशुद्धबदनः प्रीतो भुंजीत न विदिङ्‌मुखः ॥१०६॥

पाङ्‌मुखो दङ्‌मुखो वापि न चैवान्यमना नरः । कुत्सितेन हतं चैव जुगुप्सावदसंस्कृतम् ‍ ॥१०७॥

दत्त्वा तु भुंक्ते शिष्टेभ्यः क्षुधितेभ्यस्तथा गृही । प्रशस्तशुद्धपात्रेषु भुंजीताकुपितो नृप ॥१०८॥

नासदीसंस्थिते पात्रे नादेशे नरेश्वर । नाकाले नातिसंकीर्णे दत्त्वाग्रं च नरो महीं ॥१०९॥

अश्नीयात्तन्मयो भूत्वा पूर्व त मधुरं रसम् ‍ । लवणोग्रौततः पश्वात्कटुस्तीक्ष्णादिकं ततः ॥११०॥

मार्दवं पुरुषोश्नवै मध्ये च कठिनाशनम् ‍ । अंतेपुनर्द्रवाशी च नरो रोगेण मुच्यते ॥१११॥

दिवाधानासुवसतिरात्रौचदधिसक्तुषु । अलक्ष्मीः कोविदारेषु सर्वदैव कृतालया ॥११२॥

अनिद्यं भक्षयेन्नित्यं वाग्यतोऽन्नमकुत्सयन् ‍ । भुक्त्वा सम्यग्यथाचम्य प्राङ्‌मुखो दङ्‍मुखोऽपि वा ॥११३॥

यथावत्पुनराचामेत्पाणी प्रक्षाल्य यत्नतः । अभीष्ट्देवतानां च कुर्वीत स्मरणं नरः ॥११४॥

प्राणापानसमानानामुदानव्यानयोस्तथा । अन्नं पुष्टिकरं चास्तु ममाद्याव्याहतं सुखम् ‍ ॥११५॥

अगस्तिरग्निर्वडवानलश्व मुक्त ममान्नं जरयत्वशेषम् ‍ । सुखचमेत्त्परिणामसंभवंच्छत्वरोगंखलुवासुदेवः ॥११६॥

इत्युच्चार्य स्वहस्तेन परिमार्ज्य तथोदरम् ‍ । अनायासप्रदायीति कुर्यात्कर्माण्यतंद्धितः ॥११७॥

संध्यायां पथिकः कश्वित्समागच्छति भारत । पादशौ चासनैः प्रहृः स्वागतोक्त्या च पूजयेत् ‍ ॥११८॥

ततश्वान्नप्रदानेन शयनेन च पार्थिव । दिवातिथौ च विमुखो यदेकं पातकं भवेत् ‍ ॥११९॥

तदेवाष्टगुणं पुंसां सूर्ये हंसमुखे गते । गच्छेच्छय्यामस्फुटितामपि दारुमयीं नृप ॥१२०॥

नविशालां न वा भग्नां नासमां मलिनां नच । न च जंतुमयीं शय्यां समतिष्ठेदनापदि ॥१२१॥

प्राच्यां दिशि शिरः शस्तं याम्यायामपि भूपते । सदैव स्वपतां पुंसां विपरीतं तु रोगदम् ‍ ॥१२२॥

ऋतावुपगमः शस्तः सपत्न्यां ह्यवनीपते । पुण्यर्क्षे च शुभे काले पुत्रा युग्मासु रात्रिषु ॥१२३॥

न चास्त्रातां स्त्रियं गच्छेद्नर्भिणीं जरजस्वलाम् ‍ । नानिष्टां वै कुपितां नाशस्ताम न च रोगिणीस् ‍ ॥१२४॥

नादक्षिणां नान्यकामां नाकामां नाययोषितम् ‍ । सुक्षामामत्यभुक्तांचस्वयंचै भिर्गुणैर्युतः ॥१२५॥

स्त्रातः सुगंधधृग्धृष्टो न श्रांतः क्षुधितोऽपि वा । सकामः सानुरागश्व व्यवाय्म पुरुषो व्रजेत् ‍ ॥१२६॥

चतुर्दश्यां तथाष्टम्यां पंचदश्यां च पर्वसु । तैलाभ्यंगं तथा भोगान्योषितश्व विवर्जयेत् ‍ ॥१२७॥

क्षुरकर्मणि चांते च स्त्रीसंभोगे च भारत । स्त्रायीतचैलवान्प्रातःशुद्धभूमिमुपेत्य च ॥१२८॥

गुरोः प्रतिव्रतानां च तथा यज्ञतपस्विनाम् ‍ । परिवादं न कुर्वीत परिहासेऽपि भारत ॥१२९॥

युगपज्जल्मग्निं च बिभृयान्न विचक्षणः । गुरुं देवान्प्रति तथा न च पादौ प्रसारयेत् ‍ ॥१३०॥

नाचक्षीत धयंर्ती गां जलं नांजलिना पिबेत् ‍ । वातातपौ न सेवेत अनुतापं च वर्जयेत् ‍ ॥१३१॥

दासं शपेन्नवै क्रुद्धः सर्वबंधूनमत्सरी । भीता श्वासनकृत्साधुः स्वर्गस्तस्याव्ययं फलम् ‍ ॥१३२॥

नोर्ध्व तु पत्तनद्वारं निरीक्ष्य पर्यटेन्नरः । युगमात्रं महीपृष्ठे नरो गच्छेद्विलोकयन् ‍ ॥१३३॥

एवं यः कुरुते राजन् ‍ धर्मात्मा विजितेंद्रियः । तस्य धर्मार्थकामानां हानिर्नाल्पापि जायते ॥१३४॥

वृथामांसं न खादेत पृष्ठमांसं तथैव च । आक्रोशं च विवादं च पैशुन्यं च विवर्जयेत् ‍ ॥१३५॥

संयावं कृशरं मांसं शष्कुलीपायसं तथा । आत्मार्थे न प्रकर्तव्य देवतानां प्रकल्पयेत् ‍ ॥१३६॥

अजाश्व नावकर्षेत ता बहिर्धारयंति च । रक्तमाल्य्म न धार्य स्याच्छुक्लं धार्य तु पंडितैः ॥१३७॥

वर्जयित्वात्र कमलं तथा कुवलयं विभो । रक्त शिरसि धार्य च तथापानेयमित्यपि ॥१३८॥

कांचनीयापि या माला सा न दुष्यति कर्हिंचित ‍ । अन्यदेव भवेद्वासः शयनीये नरोत्तम ॥१३९॥

अन्यदर्चासु देवानामन्यद्धार्य सभासु च । पिप्पलं च वटं चैव शीर्णश्लेष्मातकं तथा ॥१४०॥

उदुंबर न खादे भवार्थी पुरुषोत्तम । पतितैश्व कथांतैश्व भोजनं च विवर्जयेत् ‍ ॥१४१॥

पतितः स्यान्नरो राजन्पतितैस्तु सहाचर न् ‍ । वृद्धो ज्ञातिस्तथा मित्रोदरिद्रो यो भवेदिह ॥१४२॥

गृहे वासं स्थापितास्ते गृहवृद्धिमभीप्सता । गृहे पारावता धन्याः शुक्राश्व सहसारिकाः ॥१४३॥

भवंत्येत सदा पापास्तथासंतोषदायकः । आजोक्षाचंदनवीणाआदर्शोमधुसर्पिषी ॥१४४॥

जलाग्री चैव बिभृयाद्‌गृहे नित्यमिति स्थितिः । धनुर्वेद च सततं यत्नः कार्यो नराधिप ॥१४५॥

हस्तिपृष्ठेऽश्वपृष्ठे च रथचर्यासु चैव हि । यत्नवान्भव राजेंद्र नयवान्सुखमेधते ॥१४६॥

प्रजापालनयुक्तश्व न शांतिं लभते नृप । यज्ञशास्त्रं च विज्ञाय शब्दशास्त्रं च भारत ॥१४७॥

गांधर्वशास्त्रं विज्ञेयं कलाज्ञेयाश्व भारत । पुराणमिति हासं च तथाख्यानानि यानि च ॥१४८॥

एष ते लक्षणाद्देश आचारस्य प्रकीर्तितः । शेषाश्व वेद्या वृद्धेभ्यः प्रत्याहार्या नराधिप ॥१४९॥

आचारो भूतिजननआचारः कीर्तिवर्धनः आचाराद्वर्धते ह्यायुराचारो हंत्यलक्षणम् ‍ ॥१५०॥

आगमानां हि सर्वेषामाचारः श्रेष्ठ उच्यते । आचारः परमो धर्म आचाराद्वर्धते धनम् ‍ ॥१५१॥

पुण्य्म यशस्यमायुष्यं स्वर्ग्य स्वस्त्ययन महत् ‍ । सर्ववर्णानुकंपार्थ मयैतत्समुदाहृतम् ‍ ॥१५२॥

आचार एव नरपुंगवसेव्यमानो धर्मार्थकामफलदो भवतीह पुंसाम् ‍ । तस्मान्सदैव विदुषावहितेम राजञ्छस्त्रोदितो ह्यनुदिनं परिपालनीयः ॥१५३॥ [ ८०८५ ]

इति श्रीभविष्ये महापुराणे उत्तरपर्वणि श्रीकृष्णयुधिष्ठिरसंवादे सदचारधर्मवर्णनं नाम पंचाधिकद्विशततमोऽध्यायः ॥२०५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP