संस्कृत सूची|संस्कृत साहित्य|पुराण|भविष्यपुराण|उत्तर पर्व|
अध्याय ७५

उत्तर पर्व - अध्याय ७५

भविष्यपुराणांत धर्म, सदाचार, नीति, उपदेश, अनेक आख्यान, व्रत, तीर्थ, दान, ज्योतिष अणि आयुर्वेद शास्त्र वगैरे विषयांचा अद्भुत संग्रह आहे.


युधिष्ठर उवाच ॥

उपवासासमर्थानां सदैव पुरुषोत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ ॥१॥

श्रीकृष्ण उवाच ॥ मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता । सर्वकामप्रदा पुण्या चोपवासे महाफला ॥२॥

सङ्गमे सरितां स्त्रात्वा द्वादश्यां समुपोषितः । अयत्नात्समवान्पोति द्वादशद्वादशीफलम् ‍ ॥३॥

बुधश्रवणद्वादश्यामेवं वै संयतो भवेत् ‍ । अत विमहती तस्यां कृतं सर्वमथाक्षयम् ‍ ॥४॥

द्वादशी श्रवणोपेता यदाभवति भारत । सङ्गमे सरितां स्त्रात्वा गङ्गादिस्त्रानजं फलम् ‍ ॥५॥

सोपवासः समान्पोति नाव्र कार्या विचारणा । जलपूर्णे तथा कुम्भे स्थापयित्वा विचक्षणः ॥६॥

पञ्चरत्नसमोपेतं सोपवीतं सुपूजितम् ‍ । तस्यस्कन्धे सुघटितं स्थापयित्वाजनार्दनम् ‍ ॥७॥

यथाशक्त्या स्वर्णमयं शंखशार्ङ्गविभूषितम् ‍ । स्नापयित्वा विधानेन सितचन्दनचर्चितम् ‍ ॥८॥

सितवस्त्रयुगच्छन्नं छव्रोपानद्युगान्वितम ‍ । ॐ नमो वासुदेवायेति शिरः संपूजयेद्धरेः ॥९॥

श्रीधराय मुखं तदूत्कण्ठं कृष्णाय वै पुनः । ॐ नमः श्रीमते वक्षी भुजौ सर्वास्त्रधारिणे ॥१०॥

व्यापकायनमः कुक्षी केशवायोदरं नमः । व्रैलोक्यजनकायेति एवं संपूजयेत्कटिम् ‍ ॥११॥

सर्वाधिपतये जङ्धे पादौ सर्वात्मने नमः । अनेन विधिना राजन्पुष्पैर्धूपैः समर्चयेत् ‍ ॥१२॥

ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् ‍ । सोदकांश्व नवान्कुम्भाञ्छक्तन्या दद्याद्विचक्षणः ॥१३॥

एवं संपूज्य गोविन्दं जागरं तव्र कारयेत् ‍ । प्रभाते विमले स्त्रात्वा संपूज्य गरुडध्वजम् ‍ ॥१४॥

पुष्पधूपौदिनैवेधैः फलैर्वस्त्रैः सुशोभनैः । ततः पुष्पाञ्जलिं बद्धा मन्व्रसेतमुदीरयेत् ‍ ॥१५॥

नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक । अधौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥१६॥

एवं संपूज्य गोविन्दं ब्राह्मणं पूजयेत्ततः । अनन्तरं ब्राह्मणे वै वेदवेदान्तपारगे ॥१७॥

पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत ‍ । द्वादश्यां श्रवणे युक्ते अशेषाहप्त्करान्विते ॥१८॥

कर्तव्यं सङ्गमे स्त्रानं प्रीयतां मे जार्दनः । श्रीकृष्ण उवाच ॥ अव्राप्युदाहरन्तीममितिहासं पुरातनम् ‍ ॥१९॥

महत्यरण्येयदृत्तं भूमिपाल शृणुष्व तत ‍ । देशो दशाणेको नाम तस्य भागे तु पश्विमे ॥२०॥

अस्ति कश्विन्मरुदेशः सर्वसत्त्वभयङ्करः । सुतप्तसिकता भूमिर्यव्र दुष्टा महोरगाः ॥२१॥

अल्पछायद्रुमाकीर्णो मृतप्राणिसमाकुलः । शमीखदिरपालाशकरीरैः पीलुभिः सह ॥२२॥

तव्र भीसव्रमाः पार्थ कण्टकेः शबला द्दढै । दग्धप्राणिगणाकीर्णा यव्र भूर्दश्यते क्कचित् ‍ ॥२३॥

अन्नोदकं नो लभन्ते राजंस्तव्र बलाहकाः । कदाचिदपि द्दश्यन्ते भ्नममाणा विहङ्गमाः ॥२४॥

वृक्षान्तरगतैर्नित्यं शिशुभिस्तृषितै समम् ‍ । उत्कृत्तजीविता राजन्द्दश्यते विहगोत्तमाः ॥२५॥

तृषातुराश्व सहसा मृगाः सैकतमागताः । सैकतेष्वेव नश्यन्ति जलं सैकतसेतुवत् ‍ ॥२६॥

तस्मिंस्तथाविधे देशे कश्विद्दैववशाद्वणिक् ‍ । निजसार्थपरिभ्रष्टः प्रविष्टो मरुजङ्गले ॥२७॥

पिशाचान्मलिनांस्तीक्ष्णान्निर्मांसान्भमिदर्शनान् ‍ । इतस्ततः संचरतो ददर्श वणिजोत्तमः ॥२८॥

ब्रभ्रामोद्‍भ्रान्तह्रदयः क्षुत्तृषान्भमकर्षितः । क्व ग्रामः क्व जलं क्वाहं यास्यामि न बुबोध सः ॥२९॥

अथ प्रेतान्ददर्शासौ तृषणाव्याकुलितोन्द्रियान् ‍ । स्नायुबद्धास्थिचरणान्प्रेक्षमाणानितस्ततः ॥३०॥

प्रेतस्कन्धसमारूढमेकं प्रेतं ददर्श ह । अपश्यद्वहुभिः प्रेतैः समन्तात्परिवारितम् ‍ ॥३१॥

आगच्छमानमव्यग्रं स्त्रुतुशब्दपुरःसरम् ‍ । प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत् ‍ ॥३२॥

सद्दष्टाथवणिकछ्रेष्ठमिदं बचनमब्रवीत् ‍ । अस्मिन्दै निर्जले देशे गमनं भवतः कथम् ‍ ॥३३॥

तसुवा च वणिग्धीमान्सार्थभ्रष्टस्य चैव मे । प्रवेशो दैवयोगेन पूर्वकर्मकृतेन तु ॥३४॥

तृष्णा मां बाधतेऽत्यर्थं क्षुद्दुनोति भृशं तथा । प्राणाः कण्ठमनुप्राप्ता वचनं नश्यतीव मे ॥३५॥

अव्रोपायं न पश्यामि जीवेयं येन केनचित् ‍ । कृष्ण उवाच ॥ इत्येवसुक्ते प्रेतस्तं वणिजं वाक्यमब्रवीत ‍ ॥३६॥

पुंनागमिममाश्रित्य प्रतीक्षस्व मुहूर्तकम् ‍ । कृतातिथ्यो यथालाभं गमिष्यसि यथासुखम् ‍ ॥३७॥

एबमुक्तस्तथा चक्रे स वणिक्तृष्मयादिंतः । मध्याह्रसमये प्राप्ते ततस्तं देशमागतः ॥३८॥

पुन्नागवृक्षात्करको वारिधारामनोरमः । दध्योदनसमायुक्तो वर्धमानेन संयुतः ॥३९॥

आगते करके तस्मिन्प्रादादतिथये तदा । भुक्त्वास्त्रं च जले पीत्वा वणिक्तुष्टिसुपागतः ॥४०॥

विटुष्णो विज्वरश्वैव क्षणेन समपद्यत । ततंस्तु प्रेतसङघस्य भोक्तुकामस्य वै ददौ ॥४१॥

दध्योदनं सपानीयं प्रेतास्तृप्तिं परां गताः । अतिथिं तर्पयित्वा च प्रेतलोकं च सर्वशः ॥४२॥

ततः स्वय स बुभूजे भुक्तशेषं यथासुखम् ‍ । तस्य भुक्तवतश्वान्नं पानीयं च क्षयं ययौ ॥४३॥

प्रेताधिपं ततस्तृप्तो वणिग्वचनमब्रवीत् ‍ । आश्वर्यमेतत्परमं वनेऽस्मिन्प्रतिभाति मे ॥४४॥

अन्नपानस्य संप्राप्तिः परमस्य कुतस्तव । स्तोकेन च तथान्नेन बिभषिं सुबहून्पृथक् ‍ ॥४५॥

तृप्ताः परं कथं त्वेते निर्सांसा भिन्नकुक्षयः । अपरं च च कथं चेह मम पापपरिक्षयः ॥४६॥

हस्तावलस्बनः कस्त्वं संप्राप्तो निर्जने वने । तृप्तश्वासि कथं ग्रासमाव्रेणच शुभव्रत ॥४७॥

कस्त्वमस्यां सुघोरायामटव्यां तु कृतालयः । तदेतत्संशयं छिन्धि परं कौतूहलं मम ॥४८॥

एवसुक्तः स वणिजा प्रेतो वचनमब्रवीत् ‍ । शृणु भद्र प्रवक्ष्यामि दुष्कृतं कर्म चात्मनः ॥४९॥

शाकले नगरे रम्ये अहमासं सुदुर्मतिः । वणिजासक्तितः पूर्वं कालो नीतो मयानघ ॥५०॥

धनलोभान्म्या तव्र कदाचिच्च प्रमादिना । न दत्ता भिक्षवे भिक्षा तृष्णया पीडिताय च ॥५१॥

प्रतिवेशे च तव्रासीद्‍ब्राह्मणो गुणवान्मम । भ्रवणद्वादशीयोगे मासि भाद्रपदे तथा ॥५२॥

स कदाचिन्म्या सार्धं तोषां नाम नदीं ययौ । तस्प्राश्वसङ्गमः पुण्यो यव्रासीच्चन्द्रभागया ॥५३॥

चन्द्रभागा सोमसुता तोषा चैवार्कनन्दिनी । तयोः शीतोष्णसलिलसङ्गमः सुमनोहरः ॥५४॥

तत्तीर्थवरमासाद्य प्रतिवेश्यः स च द्विजः । श्रवणद्वादशीयोगे स्त्रातश्वैवमुपोषितः ॥५५॥

चन्द्रभागातोषयोश्व वारिधान्यैर्नवैर्द्दढैः । दध्योदनयुतैः सार्धं संपूर्णैर्वर्धमानकैः ॥५६॥

छव्रोपानद्युगं वस्त्रं प्रतिमां विधिवद्धरेः । चन्द्रभागाजीवनेन दध्योदनयुतं तदा ॥५७॥

एतत्कृत्वा गृहं प्राप्तस्ततः कालेन केनचित् ‍ । पञ्चत्वमहामासाद्य नास्तिक्यात्प्रेततां गतः ॥५८॥

अस्यामटव्यां घोरायां यथा द्दष्टस्त्वयानघ । ब्रह्मस्वहारिणस्त्वेते पापाः प्रेतत्वमागताः ॥५९॥

परदाररताः केचित्स्वाभिद्रोहरताः परे । मिव्रद्रोहरताः केचिद्देशेऽस्त्रिंस्तु सुदारुणे ॥६०॥

ममैते भृत्यतां याता अन्नपानकृतेन च । अक्षय्यो भगवान्कृष्णः परमात्मा सनातनः ॥६१॥

यद्दीयते तमुद्दिश्य अक्षय्यं तत्प्रकीर्तित्म् ‍ । मिया विहीनाः किं त्वेते वनेऽस्मिन्भृशदारुणे ॥६२॥

पीडामनुभविष्यन्ति दारुणां कर्मयोनिजाम् ‍ । एतेषां त्वं महाभाग ममानुग्रहकाम्यया ॥६३॥

अनेकनामगोव्राणि गृहाण लेखनेन च । अस्तु कक्षागता चैव तव संपुटिका शुभा ॥६४॥

हिमवत्यां तथासाद्य तव्र त्वं लप्स्यसे निधिम् ‍ । गयाशीर्षे ततो गत्वा श्राद्धं कुरु महामते ॥६५॥

एकमेकमथोद्दिश्य प्रेतं प्रेतं यथासुखम् ‍ । एवं संभाष्यमाणोऽसौ तप्तजा म्बूनदप्रभः ॥६६॥

विमानवरमारुह्य स्वर्गलोकमितो गतः । स्वर्गते प्रेतनाथे तु प्रभावात्स वणिक्पुमान् ‍ ॥६७॥

नामगोव्राणि संगृह्य प्रयातः स हिमाचलम् ‍ । तव्र प्राप्य निधि गत्वा विनिक्षिप्य स्वके गृहे ॥६८॥

धनभागमुपादाय गयाशीर्षवटं ययौ । प्रेतानां क्रमशस्तव्र चक्रे श्राद्धं दिने दिने ॥६९॥

यस्य यस्य गया श्राद्धं स करोति दिने वणिक । स च तस्य सदा स्वन्पे दर्शयत्यात्मनस्तनुम् ‍ ॥७०॥

ब्रवीति च महाभाग प्रसादेन तवानघ । प्रेतभावो मया त्यकः प्राप्तोस्मि परमां गतिम् ‍ ॥७१॥

स कृत्वा धनलोभाच्च प्रेतानां सत्कृतिं वाणेक । जगाम स्वगृहं तव्र मासि भाद्रपदे तथा ॥७२॥

श्रवणद्वादशी योगे पूजयित्वा जनार्दनम् ‍ । दानं च दत्त्वा विप्रेभ्यः सोषवासो जितेन्द्रियः ॥७३॥

महानदीसङ्गमेषु प्रतिवर्षे युधिष्ठिर । चकार विधिवद्दानं ततो दिष्टान्तमागतः ॥७४॥

अवाष परमं परमं स्थानं दुर्लभं चाव्र मानवैः । यव्र कामफला वृक्षा नद्यः पायसकर्दमाः ॥७५॥

शीतलामलपानीयाः पुष्करिण्यो मनोहराः ॥७६॥

तं देशमासाद्य वणिङ् ‍ महात्मा सुतप्तजाम्बूनदभूषिताङ्गः । कल्पं समग्रं सह सुन्दरीभिः स्वर्गे स रेमे मुदितः सदैव ॥७७॥ [ ३१५० ]

इति श्रीभविष्ये महापुराण उत्तरपर्वणि श्रीकृष्णायुधिष्टिरसंवादे श्रवणद्वादशीव्रतवर्णनं नाम पञ्चसप्ततितमोऽष्यायः ॥७५॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP