संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथशांतिसूक्तानि अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथशांतिसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथशांतिसूक्तानि Translation - भाषांतर श्री: ॥ आनोभद्राइतिदशर्चस्यसूक्तस्यगौतमोराहूगणोविश्वेदेवाजगती षष्ठीविराट्स्थानाअंत्यास्तिस्त्रस्त्रिष्टुभ: । स्वस्तिनइतिपंचानांस्वस्त्यात्रेयोविश्वेदेवास्त्रिष्टुप् अन्त्येद्वेअनुष्टुभौ । शनंइंद्राग्नीइतिपंचदशर्चस्यसूक्तस्यवसिष्ठोविश्वेदेवास्त्रिष्टुप् । यतइंद्रेतिषण्णांभर्ग:प्रगाथ इंद्र:प्रागाथं । भद्रंनइत्यस्यऐंद्रोविमदोऽग्निरेकपदाविराट् । आशु:शिशानइतित्रयोदशर्चस्यसूक्तस्याप्रतिरथऐंद्रइंद्रोदेवता चतुर्थ्याबृहस्पति: द्वादश्याअप्वा त्रयोदश्याइंद्रोमरुतोवात्रिष्टुबंत्यानुष्टुप् । मुंचामित्वेतिपंचर्चस्यसूक्तस्यायक्ष्मनाशन:प्राजापत्यंइंद्रस्त्रिष्टुबंत्यानुष्टुप् । त्वमूविष्वितितृचस्यसूक्तस्यारिष्टनेमिस्तार्क्ष्यस्त्रिष्टुप् । महित्रीणामितितृचस्यसूक्तस्यसत्यधृतिर्वारुणिदितिरादित्योगायत्री । रात्रीव्यख्यदित्यष्टर्चस्यसूक्तस्यकुशिक:सौभरोरात्रिर्वाभारद्वाजीरात्रिर्गायत्री । सर्वारिष्टशांत्यर्थेशांतिसूक्तरात्रिसुक्तजपेविनियोग: ॥ ॐ आनोभद्रा:क्रतवोयंतुविश्वतोदब्धासोअपरीतासउभ्दिद: ॥ देवानोयथासदमिद्वृधेअसन्नप्रायुवोरक्षितारोदिवेदिवे ॥ देवानांभद्रासुमतिऋजूयतांदेवानांरातिरभिनोनिवर्ततां ॥देवानांसख्यमुपसेदिमावयंदेवानआयु:प्रतिरंतुजीवसे ॥तान्पूर्वयानिविदाहूमहेवयंभगंमित्रमदितिंदक्षमस्त्रिधं । अर्यमणंवरुणंसोममश्विनासरस्वतीन:सुभगामयस्करत् ॥ तन्नोवातोमयोभुवातुभेषजंतन्मातापृथिवीतत्पिताध्यौ: ॥तन्द्रावाण:सोमसुतोमयोभुवस्तदश्विनाश्रृणुतंधिष्ण्यायुवं ॥ तमीशानंजगतस्तस्थुषस्पतिधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसव्दृधेरक्षितापायुरदब्ध:स्वस्तये ॥१॥स्वस्तिनइंद्रोवृध्दश्रवा:स्वस्तिन:पूषाविश्वदेवा: ॥ स्वस्तिनस्तार्क्ष्योअरिष्टनेमि:स्वस्तिनोबृहस्पतिर्दधातु ॥ पृषदश्वामरुत:पृश्निमातर:शुभंयावानोविदथेषुजग्मय: ॥ अग्निजिव्हामन्व:सूरचक्षसोविश्वेनोदेवाऽअवसागमन्निह ॥ भद्रंकर्णेभि:श्रृणुयामदेवाभद्रंपश्येमाक्षभिर्यजत्रा: ॥ स्थिरैरंगैअस्तुष्टुवांसस्तनूभिर्व्यशेमदेवहितंयदायु: ॥ शतमिन्नुशरदोअंतिदेवायत्रानश्चक्राजरसंतनूनां ॥ पुत्रासोयत्रपितरोभविंतिमानोमध्यारीरिषतायुर्गंतो: ॥अदितिर्ध्यौरदितिरंतरिक्षमदितिर्मातासपितासपुत्र: ॥ विश्वेदेवाअदिति:पंचजनाअदितिर्जातमदितिर्जनित्वं ॥२॥स्वस्तिनोमिमीतामश्विनाभग:स्वस्तिदेव्यदितिरनर्वर्ण: ॥ स्वस्तिपूषाअसुरोदधातुन:स्वस्तिध्यावापृथिवीसुचेतुना ॥ स्वस्तयेवायुमुपब्रवामहैसोमंस्वस्तिभुवनस्ययस्पति: ॥बृहस्पतिंसर्वगणंस्वस्तयेस्वस्तयआदित्यासोभवंतुन: ॥ विश्वेदेवानोअध्यास्वस्तयेवैश्वानरोवसुरग्नि:स्वस्तये ॥ देवाऽअवंत्वृभव:स्वस्तयेस्वस्तिनोरुद्र:पात्वंहस: ॥ स्वस्तिमित्रावरुणास्वस्तिपथ्येरेवति ॥ स्वस्तिनइंद्रश्चाग्निश्चस्वस्तिनोअदितेकृधि ॥ स्वस्तिपंथामनुचरेमसूर्याचंद्रमसाविव ॥ पुनर्ददताघ्नताजानतासंगमेमहि ॥३॥स्वस्त्ययनंतार्क्ष्यमरिष्टनेमिंमहद्भूतंवायसंदेवतानां ॥ असुरघ्नमिंद्रसखंसमत्सुबृहध्यशोनावमिवारुहेम ॥ अंहोमुचमांगिरसंगयंचस्वस्त्यात्रेयंमनसाचताक्ष्यं ॥ प्रयतपाणि:शरणंप्रपध्येस्वस्तिसंबाधेष्वभयंनोऽअस्तु ॥४॥शंनइंद्राग्नीभवतामवोभि:शंनइंद्रावरुणारातहव्या ॥ शमिंद्रासोमासुवितायशंयो:शंनइंद्रापूषणावाजसातौ ॥ शंनोभग:शमुन:शंसोअस्तुशंन:पुरंधि:शमुसंतराय: ॥ शंन:सत्यस्यसुयमस्यशंस:शंनोअर्यमापुरुजातोऽअस्तु ॥ शंनोधाताशमुधर्तानोअस्तुशंनउरुचीभवतुस्वधाभि: ॥ शंरोदसीबृहतीशंनोअद्रि:शंनोदेवानांसुहवानिसंतु ॥ शंनोअग्निर्ज्योतिरनीकोअस्तुशंनोमित्रावरुणावश्विनाशं ॥ शंन:सुकृतांसुकृतानिसंतुशंनइषिरोअभिवातुवात: ॥ शंनोध्यावापृथिवीपूर्वहूतौशमंतरिक्षंदृशयेनोअस्तु ॥ शंनओषधीर्वनिनोभवंतुशंनोरजसस्पतिरस्तुजिष्णु: ॥५॥शंनइंद्रोवसुभिर्देवोअस्तुशमादित्येभिर्वरुण:सुशंस: ॥ शंनोरुद्रोरुद्रेभिर्जलाष:शंनस्त्वष्टाग्नाभिरिहशृणोतु ॥ शंन:सोमोभवतुब्रह्मशंन:शंनोग्रावाण:शमुसंतुयज्ञा: ॥ शंन:स्वरुणांमितयोभवंतुशंन:प्रस्व१:शम्वस्तुवेदि: ॥ शंन:सूर्यउरुचक्षाउदेतुशंनश्चतस्त्र:प्रदिशोभवंतु ॥ शंन:पर्वताध्रुवयोभवंतुशंन:सिंधव:शमुसंत्वाप: ॥ शंनोअदितिर्भवतुव्रतेभि:शंनोभवंतुमरुत;स्वर्का: ॥ शंनोविष्णु:शमुपूषानोअस्तुशंनोभवित्रंशम्वस्तुवायु: ॥ शंनोदेव:सवितात्रायमाण:शंनोभवंतूषसोविभाती: ॥ शंन:पर्जन्योभवतुप्रजाभ्य: शंन:क्षेत्रस्यपतिरस्तुशंभु: ॥६॥शंनोदेवाविश्वदेवाभवंतुशंसरस्वतीसहधीभिरस्तु ॥ शमभिषाच:शमुरातिषाच:शंनोदिव्या: पार्थिवा:शंनोअप्या: ॥ शंन:सत्यस्यपतयोभवंतुशंनोअर्वत:शमुसंतुगाव: ॥ शंनऋभव:सुकृत:सुहस्ता:शंनोभवंतुपितरोहवेषु ॥ शंनोअजएकपाद्देवोअस्तुशंनोहिर्बुध्न्य:१शंसमुद्र: ॥शंनोअपान्नपात्पेरुरस्तुशंन:पृश्निर्भवतुदेवगोपा ॥ आदित्यारुद्रावसवोजुषंतेदंब्रह्मक्रियमाणंनवनीय: ॥ शृण्वंतुनोदिव्या:पार्थिवासोगोजाताउतयेयज्ञियास: ॥ येदेवानांयज्ञियायज्ञियानांमनोर्यजत्राअमृताऽऋतज्ञा: ॥ तेनोरासंतामुरुगायमध्ययूयंपातस्वस्तिभि:सदान: ॥७॥(शंवती:पारयंत्येतेदंपृच्छंतिवचोयुजा ॥ अभ्यारंतंयमाकेतुंयएवेदमितिब्रवन् ॥ भासाकेतुंपरिस्त्रुतंभारतीर्ब्रह्मवर्धनी: ॥ संजानानामहीमातायएवेदमितिब्रवत् ॥ इंद्रस्तंकिंविभुंप्रभुभानुनेयंसरस्वतीं ॥ येनसूर्यमरोचयध्येनेमेरोदसीउभे ॥ जषस्वाग्नेअंगिर:काण्वंमेध्यातिथिं ॥ मात्वासोमस्यबर्बृहत्सुतस्यमधुमत्तम: ॥ त्वमग्नेअंगिर:शोचस्वदेववीतम: ॥ आशंतमशंतमाभिरभिष्टिभि:शांति:स्वस्तिमकुर्वत ॥ शंन:कनिक्रदद्देव:पर्जन्योअभिवर्षतु ॥ शंनोध्यावापृथिवीशंप्रजाभ्य:शंनएधिद्विपदेशंचतुष्पदे ॥८॥) यतइंद्रभयामहेततोनोअभयंकृधि ॥ मघवन्छग्धिवतन्नऊतिभिर्विद्विषोविमृधोजहि ।त्वंहिराधस्पतेराधसोमह:क्षयस्यासिविधत: ॥ तंत्वावयंमघवन्निंद्रगिर्वण:सुतावंतोहवामहे ॥ इंद्रस्पळुतवृत्रहापरस्पानोवरेण्य: ॥ सनोरक्षिषच्चरमंसमध्यमंसपश्चात्पातुन:पुर: ॥९॥त्वंन:पश्चादधरादुत्तरात्पुरइंद्रनिपाहिविश्वत: ॥ आरेऽअस्मत्कृणुहिदैव्यंभयमारेहेतीरदेवी: ॥ अध्याध्याश्वश्वइंद्रत्रास्वपरेचन: ॥ विश्वाचनोजरितृन्त्सत्पतेअहादिवानक्तंचरक्षिप: ॥प्रभंगीशूरोमघवातुवीमघ:संमिश्लोवीर्यायकं ॥ उभातेबाहूवृषणाशतक्रतोनियावज्रंमिमिक्षतुं ॥१०॥भद्रंनोअपिवातयमन; ॥ आशु:शिशानोवृषभोनभीमोघनायन:क्षोभणश्चर्षणीनां ॥ संक्रंदनोनिमिषएकवीर:शतंसेनाअजयत्साकमिंद्र: ॥ संक्रंदनेनानिमिषेनजिष्णुनायुत्कारेणदुश्च्यवनेनधृष्णुना ॥ तदिंद्रेणजयततत्सहध्वंयुधोनरइषुहस्तेनवृष्णा ॥ सइषुहस्तै:सनिषंगिभिर्वशीसंस्त्रष्टासयुधइंद्रोगणेन ॥ संसृष्टजित्सोमपाबाहुशर्ध्यु१प्रधन्वाप्रतिहिताभिरस्ता ॥ बृहस्पतेपरिदीयारथेनरक्षोहामित्राँऽअपबाधमान: ॥ प्रभंजन्त्सेना:प्रमृणोयधाजयन्नस्माकमेध्यवितारथानां ॥ बलविज्ञायस्थविर:प्रवीर:सहस्वान्वाजीसहमानउग्र: ॥ अभिवीरोअभिसत्वासहोजाजैत्रमिंद्रुरथमातिष्ठगोवित् ॥ गोत्रभिदंगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥इमंसजाताअनुवीरयध्वमिंद्रंसखायोअनुसंरभध्वं ॥११॥अभिगोत्राणिसहसागाहमानोदयोवीर:शतमन्युरिंद्र: ॥ दुश्च्यवन:पृतनाषाळयुध्यो३स्माकंसेनाअवतुप्रयुत्सु ॥ इंद्रआसांनेताबृहस्पतिर्दक्षिणायज्ञ:पुरएतुसोम: ॥ देवसेनानामभिभंजतीनांजयंतीनांमरुतोयंत्वग्रं ॥ इंद्रस्यवृष्णोवरुणस्यराज्ञ आदित्यानांमरुतांशर्धउग्रं ॥ महामनसांभुवनच्यवानांघोषोदेवानांजयतामुदस्यात् ॥ उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानांमनांसि ॥ उद्वृत्रहन्वाजिनांवाजिनान्युद्रथानांजयतांयतुघोषा: ॥ अस्माकमिंद्र:समृतेषुध्वजेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्माँऽउदेवाअवताहवेषु ॥ अमीषांचित्तंप्रतिलोभयंतीगृहाणांगान्यप्वेपरेहि ॥ अभिप्रेहिनिर्दहहृत्सुशोकैरंधैनामित्रास्तमसाचंतां॥ प्रेताजयतानरइंद्रोव:शर्मयच्छतु ॥ उग्राव:संतुबाहवोनाधृष्यायथासथ ॥१२॥असौयासेनामरुत:परेषामभ्यैतिनओजसास्पर्धमाना ॥ तांगूहततमसापव्रतेनयथामीषाऽअन्योऽअन्यंनजानात् ॥ अंधाअमित्राभवताशीर्षाणाऽअहयइव ॥ तेषांवोऽअग्निदग्धानामग्निमूह्लानामिंद्रोहंतुवरंवनं ॥१३॥मुंचामित्वाहविषाजीवनायकमज्ञातयक्ष्मादुतराजयक्ष्मात् ॥ ग्राहिर्जग्राहयविदैवतेनंतस्याइंद्राग्नीप्रमुमुक्तमेनं ॥ यदिक्षितायुर्यदिवापरेतोयदिमृत्योरंतिकंनीतएव ॥ तमाहरामिनिऋतेरुपस्थादस्पार्षमेनंशतशारदाय ॥ सहस्त्राक्षेणशतशारदेनशतायुषाहविषाहार्षमेनं ॥ शतंयथेमंशरदोनयातींद्रोविश्वस्यदुरितस्यापारं ॥ शतंजीवशरदोवर्धमान:शतंहेमंतान्छतमुवसंतान् ॥ शतमिंद्राग्नीसविताबृहस्पति:शतायुषाहविषेमंपुनर्दु: ॥ आहार्षंत्वाविदंत्वापुनरागा:पुनर्नव ॥ सर्वांगसर्वतेचक्षु:सर्वमायुश्चतेविदं ॥१४॥त्वमूषुवाजिनंदेवजूतंसहावानंतरुतारंथानां ॥ अरिष्टनेमिंपृतगाजमाशुंस्वस्तयेतार्क्ष्यमिहाहुवेम ॥ इंद्रस्येवरातिमाजोहुवानास्वस्तयेनावमिवारुहेम ॥ उवींनपृथ्वीबहुलेगभीरेमावामेतौमापरेतौरिषाम ॥ सध्यश्चिध्य:शवसापंचकृष्टी:सूर्यइवज्योतिषापस्ततान ॥ सहस्त्रसा:शतसाऽअस्यरंहिर्नस्मावरंतेयुवतिंनशर्या ॥१५॥महित्रीणामवोस्तुध्युक्षंमित्रस्यार्यम्ण: ॥ दुराधर्षंवरुणस्य ॥ नहितेषाममाचननाध्वसुवारणेषु ॥ ईशेरिपुरघशंस: ॥ यस्मैपुत्रासोअदिते:प्रजीवसेमर्त्याय ॥ ज्योतिर्मयच्छंत्यजस्त्रं ॥१६॥रात्रीव्यख्यदायतीपुरुत्रादेव्य१क्षभि: ॥ विश्वाअधिश्रियोधित ॥ ओर्वप्राअमर्त्यानिवतोदेव्यु१द्वत: ॥ ज्योतिषाबाधतेतम: ॥ निरुस्वसारमस्कृतोषसंदेव्यायती ॥ अपेदुहाससेतम: ॥सानोअध्ययस्यावयंनितेयामंनविक्ष्महि ॥ वृक्षेनवसतिंवय: ॥ निग्रामासोअविक्षतनिपद्वंतोनिपक्षिण: ॥ निश्येनासश्चिदर्थिन: ॥ यावयावृक्यं१वृकंयवयस्तेनमूर्म्ये ॥ अथान:सुतराभव ॥ उपमापेपिशत्तम:कृष्णंव्यक्तमस्थित ॥ उषऋणेवयातय ॥ उपतेगाइवाकरंवृणीष्वदुहितर्दिव: ॥ रात्रिस्तोमंनजिग्युषे ॥१७॥आरात्रिपार्थिवंरज:पितर:प्रायुधामभि: ॥ दिव:सदांसिबृहतीवितिष्ठसआत्वेषंवर्ततेतम: ॥ येतेरात्रीनृचक्षसोयुक्तासोनवतिर्नव ॥ अशीति:संत्वष्टाउतोतेसप्तसप्तती: ॥ रात्रींप्रपध्येजननींसर्वभूतनिवेशनीं ॥ भद्रांभगवतींकृष्णांविश्वस्यजगतोनिशां ॥ संवेशनींसंयमनींग्रहनक्षत्रमालिनीं ॥ प्रपन्नोहंशिवांरात्रींभद्रेपारमशीमहिभद्रेपारमशीमह्योनम: ॥ स्तोष्यामिप्रयतोदेवींशरण्यांबह्वृचप्रियां ॥ सहस्त्रसंमितांदुर्गांजातवेदसेसुनवामसोमं ॥ शांत्यर्थंतद्विजातीनामुषिभि:सोमापाश्रिता: ॥ ऋग्वेदेत्वंसमुत्पन्नारातीयतोनिदहातिवेद: ॥ येत्वांदविप्रपध्यंतिब्राह्मणाहव्यवाहनीं ॥ अविध्याबहुविध्यावासन:पर्षदतिदुर्गाणिविश्वा ॥येअग्निवर्णांशुभांसौम्यांकीर्तयिष्यंतियेद्विजा: ॥ तान्तारयतिदुर्गाणिनावेवसिंधुदुरितात्यग्नि: ॥ दुर्गेषुविषमेघोरेसंग्रामेरिपुसंकटे ॥ अग्निचोरनिपातेषुदुष्टग्रहनिवारणिदुष्टग्रहनिवारण्योंनम: ॥ दुर्गेषुविषमेषुत्वंसंग्रामेषुवनेषुच ॥ मोहयित्वाप्रपध्यंतेतेषांमेअभयंकुरुतेषांमेअभयंकुर्वोनम: ॥ केशिनींसर्वभूतानांपंचमीतिचनामच ॥ सामांसमांदिशांदेवीसर्वत:परिरक्षतुसर्वत:परिरक्षत्वोंनम: ॥ तामग्निवर्णांतपसाज्वलंतींवैरोचनींकर्मफलेजुष्टां ॥ दुर्गांदेवींशरणमहंप्रपध्येसुतरसितरसेनम:सुतरसितरसेनम: ॥ दुर्गादुर्गेषुस्थानेषुशंनोदेवीरभिष्टये ॥यइमंदुर्गास्तवंपुण्यंरात्रौरात्रौसदापठेत् ॥ रात्रि:कुशिक:सोभरोरात्रिर्वाभारद्वाजीरात्रिस्तवंगायत्रं ॥ रात्रीसूक्तंजप्पेन्नित्यंतत्कालउपपध्यते ॥१८॥उलूकयातुंशुशुलूकयातुंजहिश्वयातुमुतकोकयातुं ॥ सुपर्णयातुमुतगृध्रयांतुदृषदेवप्रमृणरक्ष इंद्र ॥ पिशंगभृष्टिमंभृणंपिशाचिमिंद्रसंमृण ॥ सर्वंरक्षोनिबर्हय ॥ रक्षाणोअग्नेतवरक्षणेभीराक्षाण:सुमखप्रीणान: ॥ प्रतिष्फुरविरुजवीड्वंहोजहिरक्षोमहिचिद्वावृधानं ॥ ब्रह्मचेतजातवेदोनमश्चेयंचगी:सदमिद्वर्धनीभूत् ॥ रक्षाणोअग्नेतनयानितोकारक्षोतनस्तन्वो३अप्रयुच्छन् ॥१९॥गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पताआन:शृण्वन्नूतिभि:सीदसादनं ॥ जातवेदसेसुनवामसोमरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ क्षेत्रस्यपतिनावयंहितेनेवजयामसि ॥ गामश्वंपोषयित्न्वासनोमृळातीदृशे ॥ वास्तोष्पतेप्रतिजानीह्यस्मान्त्स्वावेशोअनमीवोभवान: ॥ यत्त्वेमहेप्रतितन्नोजुषस्वशंनोभवद्विपदेशंचतुष्पदे ॥ वास्तोष्पतेप्रतरणोनएधिगयस्फानोगोभिरश्वेभिरिंदो ॥ अजरासस्तेसख्येस्यामपितेवपुत्रान्प्रतिनोजुषस्व ॥ वास्तोष्पतेशग्मयासंसदातेसक्षीमहिरण्वयागातुमत्या ॥ पाहिक्षेमउतयोगेवरंनोनूयंपातस्वस्तिभि:सदान: ॥अमीवहावास्तोष्पतेविश्वारुपाण्यविशन् ॥ सखासुशेवएधिन: ॥२०॥स्वप्न:स्वप्नाधिकरणेसर्वंनिष्वापयाजिनं ॥ आसूर्यमन्यान्त्स्वापयद्व्यू१ह्यलंजाग्रियादहं ॥ अजगरोनामसर्प:सर्पिरविषोमहान् । तस्मिन्हिसर्प:सुधितस्तेनत्वास्वापयामसि ॥ सर्प:सर्पोअजगर:सर्पिरविषोमहान् ॥ तस्यसर्पात्सिंधवस्तस्यगाधमशीमहि ॥ काळिकोनामसर्पोनवनागसहस्त्रबळ: ॥ यमुनहृदेसोजातो३योनारायणवाहन: ॥ यदिकाळिकदूतस्यदिका:काळिकाभ्ददयात् ॥ जन्मभूमिमतिक्रांतोनिर्विषोयातिकाळिक: ॥ आयाहींद्रपथिभिरीळितेभिर्यज्ञमिमंनोभागधेयंजुषस्व ॥ तृप्तांजहुर्मातुळस्वेवयोषाभागस्तेपैतृष्वसेयीवपामिव ॥ यशस्करंबलवंतंप्रभुत्वंतमेवराजाधिपतिर्बभूव ॥ संकीर्णनागाश्वपतिर्नराणांसुमंगल्यंसततंदीर्घमायु: ॥ कर्कोटकोनामसर्पोयोदृष्टिविषउच्यते ॥ तस्यसर्पस्यसर्पत्वंस्मैसर्पनमोस्तुते ॥२१॥माबिभेर्नमरिष्यसिपरित्वापामिसर्वत: ॥ घनेनहन्मिवृश्चिकमहंदंडेनागतं ॥ आदित्यरथवेगेनविष्णोर्बाहुबलेनच ॥ गरुडपक्षनिपातेनभूमिंगच्छमहायशा: ॥ गरुडस्यजातमात्रेणत्रयोलोका:प्रकंपिता: ॥ प्रकंपितामहीसर्वासशैलवनकानना ॥ गगनंनष्टचंद्रार्कंज्योतिषंनप्रकाशंते ॥ देवताभयभीताश्चमारुतोनप्लवायतिमारुतोनप्लवायत्योंनम: ॥ भोसर्पभद्रभद्रंतेदूरंगच्छमहायशा: ॥ जन्मेजयस्ययज्ञांतेआस्तीकवचनंस्मर ॥ आस्तीकवचनंश्रुत्वाय:सर्पोननिवर्तते ॥ शतधामिध्यतेमूर्ध्निशिंशवृक्षफलंयथा ॥ अगस्त्योमाधवश्चैवमुचुकुंदोमहामुनि: ॥ कपिलोमुनिरास्तीक:पंचैतेसुखशायिन: ॥ नर्मदायैनम:प्रातर्नर्मदायैनमोनिशि ॥ नमोस्तुनर्मदेतुभ्यंत्राहिमांविषसर्पत: ॥ योजरत्कारुणाजातोजरत्कन्यांमहायशा: ॥ तस्यसर्पोपिभद्रंतेदूरंगच्छमहायशा: ॥२२॥(ग्रहमंत्रानत्रैवशांतिपाठसमाप्त्यंतेवापठंति । तेच) आकृष्णेनरजसावर्तमानोनिवेशयन्नमृतंमर्त्यच ॥ हिरण्ययेनसवितारथेनादेवोयातिभुवनानिपश्यन् ॥ आप्यायस्वसमेतुतेविश्वत:सोमवृष्ण्यं ॥ भवावाजस्यसंगथे ॥ अग्निर्मूर्धादिव:ककुत्पतिंपृथिव्याअयं ॥ अपांरेतांसिजिन्वति ॥ उब्धुध्यध्वंसमनस:सखाय:समग्निमिंध्वंबहव:सनीळा: ॥ दधिक्रामग्निमुषसंचदेवीमिंद्रावतोवसेनिह्वयेव: ॥ बृहस्पतेअतिदर्यो अर्हादृयुमद्विभातिक्रतुमज्जनेषु ॥यद्दीदयच्छवसऋतप्रजाततदस्मासुद्रविणंधेहिचित्रं ॥ शुक्र:शुशु:क्काँऽउषोनजार:पप्रासमीचीदिवोनर्ज्योतिं ॥ शमग्निरग्निभि:करच्छंनस्तपतुसूर्य: ॥ शंवातोवात्वरपाअपस्निध: ॥कयानश्चित्रआभुवदूतीसदावृध:सखा ॥ कयाशचिष्ठयावृता ॥ केतुंकृण्वन्नकेतवेपेशोमर्याअपेशसे ॥ समुषभ्दिरजायथा: ॥२३॥तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञपतयेदैवीस्वस्तिरस्तुन:स्वस्तिर्मानुषेभ्य: ॥ ऊर्ध्वंजिगातुतुभेषजं ॥ शंनोअस्तुद्विपदेशंचतुष्पदे ॥ ॐ नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनमओषधीभ्य: ॥ नमोवाचेनमोवाचस्पतेनमोविष्णवेमहतेकरोमि ॥३॥शांतापृथिवीशिवमंतरिक्षंध्यौर्नोदेव्यभयंनोअस्तु ॥ शिवादिश:प्रदिशउद्दिशोन आपोविध्युत:परिपांतुसर्वत:शांति:शांति:शांति: ॥ इतिशांतिसूक्तानि । षष्ठीपूजाशीर्मंत्रा: ॥ तमर्वतंनसानसिमरुषंनदिव:शिशुं ॥ मर्मृज्यंतेदिवेदिवे ॥ बोधध्यन्माहरिभ्यांकुमार:साहदेव्य: ॥अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआसदे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥ प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ अच्छानहूतउदरं ॥ उतत्यायजताहरीकुमारात्साहदेव्यात् ॥प्रयतासध्यआददे ॥ एषवांदेवावश्विनाकुमार:साहदेव्य: ॥ दीर्घायुरस्तुसोमक: ॥ तयुवंदेवावश्विनाकुमरंसाहदेव्यं ॥ दीर्घायुषंकृणोतन ॥ इतिशांतिपाठ:संपूर्ण: ॥ N/A References : N/A Last Updated : July 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP