संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| यज्ञोपवीताभिमंत्रणम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - यज्ञोपवीताभिमंत्रणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत यज्ञोपवीताभिमंत्रणम् Translation - भाषांतर श्री: ॥ उपाकर्मांगत्वेनयज्ञोपवीताभिमंत्रणधारणंचक० ॥ ब्रह्मजज्ञानंगौतमोवामदेवोब्रह्मात्रिष्टुप् । सूत्रकरणेवि० । ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥सबुध्न्याउपमाअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥ इदंविष्णु:काण्वोमेधातिथिर्विष्णुर्गायत्री । सूत्रत्रिगुणीकरणेवि० । ॐ इदंविष्णु० ॥ त्र्यंबकंमैत्रावरुणिर्वसिष्ठोरुद्रोनुष्टुप् ।ग्रंथिबंधनेविनियो० ॥ ॐ त्र्यंबकंयजामहे० ॥ आपोहिष्ठेतितृचस्यांबरीष:सिंधुद्वीपआपोगायत्री यज्ञोपवीताभिमंत्रणेवि० । ॐ आपोहिष्ठा०३ ऋच: । ॐ हिरण्यवर्णा:शुचय:पावकायासुजात:कश्यपोयास्विंद्र: । अग्निंयागर्भदधिरेविरुपास्तानआप:शस्योनाभवंतु ॥ यासाराजावरुणोयातिमधेसत्यानृतेअवपश्यन्जनानां । मधुश्चुत:शुचयोया:पावकास्तानआप:शस्योनाभवंतु ॥ यासांदेवादिविकृण्वंतिभक्षंयाअंतरिक्षेबहुधाभवंति । या:पृथिवींपयसोंदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ यांसादेवादिविकृण्वंतिभक्षंया अंतरिक्षेबहुधाभवंति । या:पृथिवींपयसोंदंतिशुक्रास्तानआप:शस्योनाभवंतु ॥ शिवेनमाचक्षुषापश्यताप: शिवयातनुवोस्पृशत्वचंमे । सर्वाअग्नीरप्सुषदोहुवेवोमयिवर्चोबलमोजोनिधत्त ॥ ॐ पवमान:सुवर्जन: । पवित्रेणविचर्षणि: । य:पोतासपुनातुमा । पुनंतुमादेवजना: । पुनंतुमनवोधिया । पुनंतुविश्वआयव: । जातवेद:पवित्रवत् । पवित्रेणपुनाहिमा । शुक्रेणदेवदीध्यत् । अग्नेक्रत्वाक्रतूरनु । यत्तेपवित्रमर्चिषि । अग्नेविततमंतरा । ब्रह्मतेनपुनीमहे । उभाभ्यांदेवसवित: । पवित्रेणसवेनच । इदंब्रह्मपुनीमहे । वैश्वदेवीपुनतीदेव्यागात् । यस्यैबह्वीस्तनुवोतपृष्ठा: । तयामदंत:सधमाध्येषु । वयस्यामपतयोरयीणां । वैश्वानरोरश्मिभिर्मापुनातु ।वात:प्राणेनेषिरोमयोभू: । ध्यावापृथिवीपयसापयोभि: । ऋतवरीयज्ञियेमापुनीतां । बृहभ्दि:सवितस्तृभि: । वर्षिष्ठैर्देवमन्मभि: । अग्नेदक्षै:पुनाहिमा । येनदेवाअपुनत । येनापोदिव्यंकश: । तेनदिव्येनब्रह्मणा । इंदब्रह्मपुनीमहे । य:पावमानीरध्येति । ऋषिभि:संभृतरसं । सर्वसपूतमश्नाति । स्वदितंमातरिश्वना । पावमानीर्योऽअध्येति ।ऋषिभि:संभृतरसं । तस्मैसरस्वतीदुहे । क्षीरसर्मिर्मधूदकं । पावमानी:स्वस्त्ययनी: । सुदुघाहिपयस्वती: । ऋषिभि:संभृतोरस: । ब्राह्मणेष्वमृतहितं । पावमानीर्दिशंतुन: ।इमंलोकमथोअमुं । कामान्त्समर्धयंतुन: । देवीर्देवै:सभामृता: । पावमानी:स्वस्त्ययनी: ।सुदुघाहिघॄतश्चुत: । ऋषिभि:संभृतोरस: । ब्राह्मणेष्वमृतहितं । येनदेवा:पवित्रेण । आत्मानंपुनतेसदा । तेनसहस्त्रधारेण । पावमान्य:पुनंतुमा । प्राजापत्यंपवित्रं । शतोध्यामहिरण्मयं । तेनब्रह्मविदोवयं । पूतब्रह्मपुनीमहे । इंद्र:सुनीतीसहमापुनातु । सोम:स्वस्त्यावरूण:समीच्यां । यमोराजाप्रमृणाभि:पुनातुमा । जातवेदामोर्जयंत्यापुनातु ।ॐ भूरग्निंचपृथिवींचमाच । त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्दुवासीद । ॐ भुवोवायुंचांतरिक्षंचमांच । त्रीश्चलोकान्त्संवत्सरंच ।प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ स्वरादित्यंचदिवंचमांच ।त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ भूर्भव:सुवश्चंद्रमसंचदिशश्चमांचं । त्रीश्चलोकान्त्संवत्सरंच । प्रजापतिस्त्वासादयतु । तयादेवतयांगिरस्वध्द्रुवासीद । ॐ कारंप्रथमतंतौन्यसामि । अग्निंद्वितीयतंतौन्यसामि । नागंस्तृतीयतंतौन्यसामि । सोमंचतुर्थतंतौन्यसामि । पितृन्पंचमतंतौन्यसामि । प्रजापतिंषष्ठतंतौन्यसामि । वायुंसप्तमतंतौन्यसामि । सूर्यमष्टमतंतौन्यसामि । विश्वान्देवान्नवमतंतौन्यसामि । ऋग्वेदंप्रथमदोरकेन्यसामि । यजुर्वेदंद्वितीयदोरकेन्यसामि । सामवेदंतृतीयदोरकेन्यसामि । अथर्ववेदंग्रंथौन्यसामि । प्रतियज्ञोपवीतंदशगायत्रीमंत्रंजप्त्वा । उध्यन्नध्येतितिसृभि:सूर्यायदर्शयित्वा । गायत्र्यात्रिस्ताडयेत् । यज्ञोपवीतमितिमंत्रस्यपरब्रह्मपरमात्मात्रिष्टुप् । श्रौतस्मार्तकर्मानुष्ठानसिध्यर्थंयज्ञोपवीतधारणेविनियोग: । ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् । आयुष्यमत्र्यंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेज: । इतिमंत्रेणप्रथंदक्षिणबाहुमुध्दृत्यपश्चात्कंठेधारयेत् ॥आचम्य ॥ समुद्रंगच्छस्वाहा । इतिजीर्णयज्ञोपवीतंजलेविसर्जयेत् । तत:सर्वै:सहप्राणानायम्य पृथ्वीतिमंत्रस्य इत्याध्युत्सर्जनागवत् ब्रह्मयज्ञांते सर्वेउपाकृतावैवेदा: इत्युक्त्वा अंजलिस्थान्कुशान्दक्षिणकटौनिवेशयेयु: ॥ ततआचार्य:प्रायश्चित्तादिहोमशेषंसमापयेत् ।तत:सर्वेवेदप्रीत्यर्थं ब्राह्मणभोजनंसंकल्प्यदक्षिणांदध्यु: । आचार्यो:ग्निंविसृज्यकर्मेश्वरार्पणंकृत्वाविष्णुंनत्वाद्विराचामेत् ॥ इत्युपाकर्मप्रयोग: ॥ N/A References : N/A Last Updated : July 27, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP