संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथदेवपूजाप्रारंभ: अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेवपूजाप्रारंभ: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथदेवपूजाप्रारंभ: Translation - भाषांतर श्री: मुद्राविमुक्तहस्तेनक्रियतेकर्मदैविकम् ॥ यदितन्निष्फलंतस्मात्कर्ममुद्रान्वितश्चरेत् ॥ त्रिचभास्करे ॥ हस्तद्वयेत्वधोवक्रेसंमुखेचपरस्परम् ॥ वामांगुलिर्दक्षिणामंगुलीनांचसंधिषु ॥ ॥ कनिष्ठेद्वेअनामाभ्यांयुंज्यात्साधेनुमुद्रिका ॥१॥वामांगुष्ठंतुसंगृह्यदक्षिणेनतुमुष्टिना ॥ कृत्वोत्तानंतथामुष्टिमंगुष्ठंतुप्रसारयेत् ॥ वामांगुलीस्तथाश्लिष्टा:संयुक्ता:सुप्रसारिता: ॥ दक्षिणांगुष्ठ्संस्पृष्टामुद्राशंखश्यचोदिता ॥२॥हस्तौतुसंमुखौकृत्वासंलग्नौसुप्रसारितौ ॥ कनिष्ठांगुष्ठकौलग्नौमुद्राचक्रस्यसिध्दिदा ॥३॥अन्योन्याभिमुखौहस्तौकृत्वातुग्रथितांगुली ॥ अंगुल्यौमध्यमेभूय:संलग्नेसुप्रसारिते ॥ गदामुद्रासमाख्यातापरामुक्तिकरीतथा ॥४॥करौतुसुमुखौकृत्वातुग्रथितांगुली ॥ तलांतर्मिलितांगुष्ठौकुर्यात्सापद्ममुद्रिका ॥५॥हस्तौतुविमुखौकृत्वाग्रंथयित्वाकनिष्ठिके ॥ तर्जन्यौमुखत:श्लिष्टेश्लिष्टावंगुष्ठकौतथा ॥मध्यमानामिकायुग्मेद्वौपक्षाविवचिंतयेत् ॥ एषागरुडमुद्रास्यादशेषविषनाशिनी ॥६॥अन्योन्याभिमुखौहस्तौकृतौचेद्ग्रथितांगुली ॥ अंगुष्ठौचमिथ:श्लिष्टौमुद्रैषाग्रथिताभिधा ॥७॥मुष्टिद्वयस्यतर्जन्यौप्रसार्योर्ध्वाधरीकृते ॥ ग्रथितेचेदसौमुद्रायमपाशाभिधामता ॥८॥हस्तंमुसलवत्कृत्वामंजलिंकृत्वानामिकामूलपरणो: ॥ अंगुष्ठौनिक्षिपेत्सेयंमुद्रात्वावाहनीमृता ॥१०॥अधोमुखीत्वियंचेत्स्यान्मुद्रासंस्थापनीमता ॥११॥उच्छ्रितांगुष्ठष्ट्योस्तुसंयोगात्संनिधापनी ॥१२॥अंत:प्रवेशितांगुष्ठोसैवसंरोधिनीमता ॥१३॥ मुष्टिद्वयस्थितांगुष्ठौसंमुखौतुपरस्परम् ॥ संश्चिष्टावुच्छ्रितौकुर्यात्सेयंसंमुखमुद्रिका ॥१४॥मुष्टिद्वयस्यतर्जन्यौप्रसार्याधोमुखीकृते ॥ अनुलोमविलोमेनभ्रातितेदेवताभित: दुष्टदृष्टि निरासायसैषामुद्रावगुंठिनी ॥१५॥हृदयादिषडंगानांमुद्राऊह्याविपश्चिता ॥ तर्जन्यादित्रयेणप्रसारितेनहृदयम् ॥१६॥अंगुष्ठतर्जनीभ्यांयोजितमुखाभ्यामधोग्राभ्यांशिर: ॥१७॥प्रसृतांगुष्ठेनाधोमुखेनशिखा ॥१८॥करद्वयदशांगुलिभि:प्रसृतभि:कवचम् ॥१९॥तर्जन्यादित्रयेणाग्रेणत्रिकोणाग्रतुल्येननेत्रम् ॥ द्विनेत्र्यांत्वनामिकालोप: ॥२०॥हस्तद्वयस्याप्यंगुष्ठतर्जनीभ्यांसशब्दमभितोभ्रामिताभ्यामस्त्रमितिसांप्रदायिकोऽर्थ: ॥२१॥अधोमुखीधेनुमुद्रादेवस्योपरिदर्शिता ॥ अमृतीकरणीप्रोक्तापरमानंददायिनी ॥२२॥अधोमुखौग्रथितांगुष्ठौप्रसृतांगुलिकौकरौ ॥ परमीकरणंनामदेवस्योपरिचालितौ ॥२३॥प्रसृतांगुलिकौहस्तौमिथ:श्लिष्टौचसंमितौ ॥ कुर्यात्स्वहृदयेसेयंमुद्राप्रार्थनसंज्ञिका ॥२४॥अंजल्यांजलिमुद्रास्याद्वादेवाभिधाचसा ॥२५॥सैवशीर्षादिपादांतंचालिताचेधोमुखी ॥ मुद्रैषाव्यापिकानामसद्गुणव्याप्तिदायिनी ॥२६॥तर्जन्यादित्रयेकार्येहस्तयो:संकुचन्मुखे ॥ प्रसारितेसुसरलेतथांगुष्ठकनिष्ठिके ॥ दक्षहस्तस्यतर्जन्यवामस्यानामिकामुखम् ॥ अनामयाचतर्जन्यामुखंमध्यांचमध्यया ॥ अंगुष्ठेनकनिष्ठायाअंगुष्ठस्यकनिष्ठया ॥ स्पर्शयेद्गालिनीमुद्रासैषातीर्थापकर्षिणी ॥२७॥अंगुष्ठाग्रेणसंस्पृश्यकनिष्ठामध्यपर्वणी ॥ गंधमुद्रेतिसाख्यातांगुष्ठयोर्मध्यपर्वणी ॥ तर्जन्यग्रेणसंस्पृश्येत्पुष्पमुद्रेतिकीर्तिता ॥२८॥तर्जनीमध्यमानामामध्यपर्वाणिसंस्पृशेत् ॥ अंगुष्ठाग्रेणताधूपदीपनैवेध्यमुद्रिका: ॥२९॥ऊर्ध्वाग्रांगुलिभिर्ग्रासमुद्रावामकरेकृता ॥३०॥सैवतांबूलमुद्रास्यद्दक्षेसंकुचितांगुलि: ॥३१॥तर्जनीमध्यमांगुष्ठै:प्राणमुद्राप्रकीर्तिता ॥३२॥मध्यमानामिकांगुष्ठै:स्यादपानस्यमुद्रिका ॥३३॥कनिष्ठानामिकांगुष्ठैर्व्यानमुद्राप्रकीर्तिता ॥३४॥तर्जन्यनामिकांगुष्ठै:स्यदुदानस्यमुद्रिका ॥३५॥समानमुद्रांगुलिभि:संहताभिस्तुपंचभि: ॥३६॥मणिबंधस्थितौकृत्वाप्रसृतांगुलिकौकरौ ॥ कनिष्ठांगुष्ठयुगुलेमिलित्वांतेप्रसारयेत् ॥ सप्तजिह्वाख्यमुद्रेयंवैश्वानर्वशंकरी ॥३७॥मिलितानामिकांगुष्ठमध्यमाग्राणियोजयेत् ॥ शिष्टेद्वेउच्छ्रितेकुर्यान्मृतमुद्रेयमीरिता ॥अनयोरुपयोगस्तुहोमविधौभविष्यति ॥३८॥कमलाकृतिमुद्रातुसौरमुद्रेतिकीर्तिता ॥३९॥मुष्टिद्वयंतथोत्तानंकृत्वासंयोज्यपार्श्वत: ॥ दक्षिणस्यकनिष्ठादीन्प्रसार्यक्रमश:पुर: ॥ तथावामनकनिष्ठादीनेकैकान्सुप्रसारयेत् ॥ अष्टौमुद्रा:समाख्यातानामतासांक्रमाच्छृणु ॥प्रोन्नामोन्नामनीचैवबिंबंपाशुपतंतथा ॥ शुध्दंत्याग:सारिणीचतथाचैवप्रसारिणी ॥४०॥॥४१॥ ॥४२॥ ॥४३॥ ॥४४॥ ॥४५॥ ॥४६॥ ॥४७॥दशांगुष्ठेपरांगुष्ठंक्षिप्त्वाहस्तद्वयेनतु ॥ एकंमुष्टिंसावकाशंकुर्यात्साकुंभमुद्रिका ॥४८॥अधोमुखेवामह्स्तऊर्ध्वास्यंदक्षहस्तकम् ॥ क्षिप्त्वांगुलीरंगुलीभिर्ग्रथयित्वाविवर्तयेत् ॥प्रोक्तासंहारमुद्रेयंविनियुक्ताविसर्जने ॥४९॥इयमेवनिर्याणमुद्रेत्युच्यते ॥ इतित्रिचभास्करेमुद्रालक्षणानि ॥ N/A References : N/A Last Updated : July 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP