संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथदेव्यथर्वशीर्षम् अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेव्यथर्वशीर्षम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथदेव्यथर्वशीर्षम् Translation - भाषांतर श्री: ॥ ॐ सर्वेवैदेवादेवीमुपतस्थु:कासित्वंमहादेवीति साब्रवीदहंब्रह्मस्वरुपिणी । मत्त:प्रकृति:पुरुषात्मकंजगत् । शून्यंचाशून्यंच । अहमानंदानानंदौअहंविज्ञाना विज्ञानेअहंब्रह्माब्रह्मणीद्वेषब्रह्मणीद्वेब्रह्मणीद्वेब्रह्मणीवेदितव्ये । इतिचाथर्वणीश्रुति: । अहंपंचभूतानि । अहंपंचतन्मात्राणि । अहमखिलंजगत् । वेदोहमवेदोहं । विध्याहमविध्याहमविध्याहं । अजाहमनजाहं । अधश्चोर्ध्वंचतिर्यक्वाहं । अहरुद्रेभिर्वसुभिश्चरामि । अहमादित्यैरुतविश्वदेवै: । अहंमित्रावरुणावुभौबिभर्मि । अहमिंद्राग्नीअहमविश्वनाउभौ । अहसोमंत्वष्टारंपूषणंभगंदधामि । अहंविष्णुमुरुक्रमं । ब्रह्माणमुत्प्रजापतिंदधामि । अहंदधामिद्रविणहविष्मतेसुप्राव्येयजमानायसुव्रते । अहराज्ञीसंगमनीवसूनांचिकितुषीप्रथमायविज्ञानां । अहसुवेपितरमस्यमूर्धन्ममयोनिरप्स्वंत:समुद्रे । यएवं वेदसदैवीसंपदमाप्नोति । तेदेवाअब्रुवन् । नमोदेव्यैमहादेव्यैशिवायैसततंनम: । नम:प्रकृत्यैभद्रायैनियता:प्रणता:स्मताम् । तामग्निवर्णांतसाज्वलंतींवैरोचनींकर्मफलेषुजुष्टाम् । दुर्गांदेवींशरणंप्रपध्यामहेऽसुरान्नाशयित्र्यैतेनम: । देवींवाचमजयंतदेवास्तांविश्वरुपा:पशवोवदंति । सानोमंद्रेषमूर्जंदुहानाधेनुर्वागस्मानुपसुष्टुतैतु ॥ कालरात्रींब्रह्मस्तुतांवैष्णवींस्कंदमातरम् । सरस्वतीमदितिंदक्षदुहितरंनमाम:पावनांशिवाम् । महालक्ष्म्यैचविद्महेसर्वशक्त्यैचधीमहि । तन्नोदेवीप्रचोदयात् । अदितिर्ह्यजनिष्टदक्षयादुहितातव । तांदेवाअन्वजायंतभद्राअमृतबंधव: ॥ कामेयोनि:कमलावज्रपाणिर्गुहाहंसामतलिश्चाभ्रमिंद्र: । पुनर्गुहासकलामाययाचापृथक् क्लेशाविश्वमातादिविध्या: ॥ एषात्मशक्ति: । एषाविश्वमोहिनीपाशांकुशधनुर्बाणधरा । एषाश्रीमहाविध्या । यएवंवेद सशोकंतरति । नमस्तेभगवतिमातरस्मान्पान्पाहिसर्वत: । सैषावैष्णव्यष्टौवसव: सैवैकादशरुद्रा: सैषाब्रह्मविष्णुरुद्ररुपिणी सैषाप्रजापतींद्रमनव: सैषाग्रहनक्षत्रज्योतिष्कलाकाष्ठादिविश्वरुपिणीतामहंप्रणौमिनित्यम् । पापापहारिणीदेवीभुक्तिमुक्तिप्रदायिनी । अनंतांविजयांशुध्दांशरण्यांसर्वदांशिवाम् ॥वियदाकारसंयुक्तंवीतिहोत्रसमन्वितम् । अर्धेंदुलसितंदेव्याबीजंसर्वार्थसाधकम् ॥एवमेकाक्षरंमंत्रंयतय:शुध्दचेतस: । ध्यायंतिपरमानंदमयाज्ञानांबुराशय: ॥वाड्मयाब्रह्मभूस्तस्मात्षष्ठवक्रसमन्वितम् ।सूर्योवामाश्रोत्रबिंदुसंयुक्ताष्टतृतीयकम् ॥ नारायणेनसंमिश्रोवायुश्चाधारयुक्तत: । विच्चेनवार्णकोणस्यमहानानंददायक: । हृत्पुंडरीकमध्यस्थांप्रात:सूर्यसमप्रभाम् । पाशांकुशधरांसौम्यांवरदाभयहस्तकाम् ॥त्रिनेत्रांरक्तवसनांभक्तकामदुहंभजे । भजामित्वांमहादेविमहाभयविनाशिनि ॥महादारिद्र्यशमनिमहाकारुण्यरुपिणि ॥ यस्या:स्वरुपंब्रह्मादयोनजानंतितस्मादुच्यतेअज्ञेया । यस्याअंतोनलभ्यतेतस्मादुच्यतेअनंता । यस्यालक्षंनोपलक्ष्यतेतस्मादुच्यतेअलक्षा । यस्याजननंनोपलक्ष्यतेतस्मादुच्यतेअजा । एकैवसर्वत्रवर्ततेतस्मादुच्यतएका । एकैवविश्वरुपिणीतस्मादुच्यतेऽनेका । अतएवोच्यतेऽज्ञेयानंतलक्ष्याजैकानेका । मंत्राणांमातृकादेवीशब्दानांज्ञानरुपिणी । ज्ञानानांचिन्मयातीताशून्यानांशून्यसाक्षिणी ॥यस्या:परतरंनास्तिसैषादुर्गाप्रकीर्तिता । तांदुर्गांदुर्गमांदेवींदुराचारविघातिनीम् । नमामिभवभीतोऽहंसंसारार्णवतारिणीम् ॥इदमथर्वशीर्षंयोधीते । सपंचाथर्वशीर्षफलमाप्नोति । इदमथर्वशीर्षंज्ञात्वायोर्चास्थापयति । शतलक्षंप्रजप्तापिनार्चाशुध्दिंचविंदति । शतमष्टोत्तरंचास्यपुरश्चर्याविधि:स्मृत: ।दशवारंपठेध्यस्तुसध्य:पापै:प्रमुच्यते । महादुर्गाणितरतिमहादेव्या:प्रसादत: ॥सायमधीयानोदिवसकृतंपापंनाशयति । प्रातरधीयानोरात्रिकृतंपापंनाशयति । सायंप्रात:प्रयुंजानोअपापोभवति । निशीथेतुरीयसंध्यायांजप्त्वावाक्सिध्दिर्भवति । नूतनायांप्रतिमायांजत्प्वादेवतासांनिध्यंभवति । भौमाश्विन्यांमहादेवीसंनिधौजप्त्वामहामृत्यंतरतिसमहामृत्यंतरति । यएवंवेद । इत्युपनिषत् ॥ इतिदेव्यथर्वशीर्षम् ॥ N/A References : N/A Last Updated : July 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP