संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथवैश्वदेवप्रयोग: अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथवैश्वदेवप्रयोग: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथवैश्वदेवप्रयोग: Translation - भाषांतर श्री: ॥ अथप्रात:सायंवैश्वदेवस्यसहकरणपक्षेतंत्रप्रयोग: ॥ अग्ने:पश्चात्प्राड्मुखउपविश्यआचम्यप्राणायामंकृत्वादेशकालौनिर्दिश्यममोपात्तदुरितक्षयद्वाराश्रीपरमेश्वरप्रीत्यर्थंआत्मान्नसंस्कारपंचसूनाजनितदोषपरिहारार्थंप्रातर्वैश्वदेवंसायंवैश्वदेवंचसहतंत्रेणकरिष्ये ॥ कुंडेस्थंडिलादौवापचनाग्निंजुष्टोदमूनाआत्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ॥ एह्यग्नेराहूगणोगोगोतमोऽग्निस्त्रिष्टुप् ॥ अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथिर्दुरोणइमंनोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्नेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एह्यग्नइहहोतानिषीदादब्ध:सुपुरएताभवान: ॥ अवतांत्वारोदसीविश्वमिन्वेयजामहेसौमनसायदेवान् ॥ इत्यक्षतैरावाह्यआच्छादनंदूरीकृत्यसमस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती ॥ अग्निप्रतिष्ठापनेविनियोग: ॥ ॐ भूर्भुव:स्व:पावकनामानमग्निंप्रतिष्ठापयामि ॥ प्रोक्षितेंधनानिनिक्षिप्यवेणुधमन्याप्रबोध्यध्यायेत् ॥ चत्वारिश्रृंगागौतमोवामदेवोग्निस्त्रिष्टुप् ॥ अग्निमूर्तिध्यानेविनियोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहोदेवोमत्याआविवेश ॥ सप्तहस्तश्चतु:श्रृंग:सप्तजिह्वोद्विशीर्षक: ॥ त्रिपात्प्रसन्नवदन: सुखासीन:शुचिस्मित: ॥ स्वाहांतुदक्षिणेपार्श्वेदेवींवामेस्वधांतथा ॥ विभ्रद्दक्षिणहस्तैस्तुशक्तिमन्नंस्त्रुचंस्त्रुवं ॥ तोमरंव्यजनंवामैर्घृतपात्रंचधारयन् । मेषारुढोजटाबध्दोगौरवर्णोमहौजस: ॥ धूम्रध्वजोलोहिताक्ष:सप्तार्चि:सर्वकामद: ॥ आत्माभिमुखमासीनएवंरुपोहुताशन: ॥ अग्नेवैश्वानरशांडिल्यगोत्रमेषध्वजप्राड्मुखोदेवममसंमुखोवरदोभव ॥ इतिध्यात्वापरिसमूहनपर्युक्षणेकृत्वा ॥ विश्वानिनइत्यलंकृत्य ॥ विश्वानिनइतिसृणामात्रेयोवसुश्रुतोऽग्निस्त्रिष्टुप् ॥ द्वयोरर्चनेऽन्त्यायाउपस्थानेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥ ॐ सिंधुंननावादुरितातिपर्षि ॥ ॐ जातवेदोयशोअस्मासुधेहि ॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥ ॐ यस्मैत्सुकृतेजातवेदउलोकमग्नेकृणव:स्योनं ॥ अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति ॥ आत्मानंचालंकृत्यहस्तंप्रक्षाल्य ॥ घृताक्तमन्नग्नावधिश्रित्यौदगुद्वास्यप्रोक्ष्यअग्ने:पश्चिमतोनिधायत्रिधाविभज्य ॥ सव्यंपाणितलंहृदिन्यस्यदक्षिणहस्तेनदक्षिणभागादार्द्रामलकमितमन्नमादायांगुष्ठाग्रेणपीडितंसंहतांगुल्युत्तानपाणिनाप्रणवादिरहितै:स्वाहांतै:सूर्यादिमंत्रैर्जुहुयात् ॥ सूर्यायस्वाहा ॥ सूर्यायेदंनमम ॥ प्रजापतयेस्वाहा प्रजापतयइदं० ॥ सोमायवनस्पयेस्वाहा० ॥अग्नीषोमाभ्यांस्वाहा० ॥ इंद्राग्निभ्यां० ॥ ध्यावापृथिवीभ्यां० ॥ धन्वंतरयेस्वाहा ॥ इंद्राय० ॥ विश्वेभ्योदेवेभ्य:० ॥ ब्रह्मणेस्वाहा ब्रह्मणइदं० ॥ सायंवैश्वदेवीया: ॥ अग्नयेस्वाहा ॥ अग्नयइदंनमम ॥ प्रजापतयइत्यादिब्रह्मणैत्यंतंपूर्ववन्नवाहुतीर्हुत्वा ॥(भू;स्वाहाअग्नयइदंनमम ॥ भुव:स्वाहावायवइदं० ॥ स्व:स्वाहासूर्यावेदं० ॥ भूर्भव:स्व:स्वाहाप्रजापतयइदं०) तत:त्रिस्त्रि:परिसमूहनपर्युक्षणेकृत्वाअग्न्यलंकरणं ॥ पंचोपचारपूजांते ॥ अग्निस्तुविश्रवैत्यस्यात्रेयोवसूयवोग्निस्त्रिष्टुप् ॥ पुष्पांजलौविनियोग: ॥ ॐ अग्निस्तुविश्रवस्तमंतुविब्रह्माणमुत्तमं ॥ अतूर्तश्रावयत्पतिंपुत्रंददातिदाशुषे ॥ इतिपुष्पांजलिंसमर्प्यविभूतिंधारयेत् ॥ मानस्तोकइत्यस्यकुत्सोरुद्रोजगती ॥ विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेतनयेमानआयौमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ त्र्यायुषंजमदग्नेरितिललाटे ॥ कश्यपस्यत्र्यायुषंकंठे ॥अगस्त्यस्यत्र्यायुषंनाभौ ॥ यद्देवानांत्र्यायुषंदक्षिणस्कंधे ॥ तन्मेअस्तुत्र्यायुषंवामस्कंधे ॥ सर्वमस्तुशतायुषंशिरसि ॥ ॐ चमेस्वरश्चमेयज्ञोपचतेनमश्च ॥ यत्तेन्यूनंतस्मैतउपयत्तेतिरिक्तंतस्मैतेनम: ॥ अग्नयेनम: ॥ स्वस्ति ॥ श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलं ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ इतिदेवयज्ञ: ॥ N/A References : N/A Last Updated : July 07, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP