संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपितृयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपितृयज्ञ:

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ प्राचीनावीती ॥ आग्नेय्यभिमुख:सव्यंजान्वाच्योत्तरभागादंगुष्ठपर्वमात्रमन्नंगृहीत्वा
पराचीनपाणिनाचक्राद्दक्षिणत: स्वधापितृव्यइतिमंत्रेणबलिंदत्वापउपस्पृश्य ॥
द्वीतीयचक्राग्नेयभागेचतथैवदत्वापउपस्पृश्यसव्यंपितृयज्ञान्नशेषेणैवचक्राब्दहिर्नैऋत्यकोणे श्यामाय ॥
चक्राद्वायव्यकोणे शबलाय ॥ इत्युभयत्रबलिंदत्वा बहिर्गत्वागृहांगणेजलमासिच्य
श्वचांडालपतितभूतवायसेभ्योन्नंभूमौविकिरेत् ॥ ऐंद्रवारुणवायव्यायाम्यानैऋतिकाश्चये ॥
तेकाका:प्रतिगृह्णंतुभूम्यांपिंडंमयोज्झितम् ॥ इतिपितृयज्ञशेषेणबलिंदध्यात् ॥
वैवस्वतकुलेजातौद्वौशामशबलौशुनौ ॥ ताभ्यांपिंडोमयादत्तोरक्षेतांपथिमांसदा ॥
येभूता:प्रचरंतिदिवाबलिमिच्छंतोवितुदस्यप्रेष्ठा: ॥ तेभ्योबलिंपुष्टिंकामोददामिमयिपुष्टिंपुष्टिपतिर्ददातु ॥
रात्रौचेन्नक्तमितिब्रूयात् ॥ इतिशौनकोक्तचक्राकारप्रयोग: ॥ बलिदानोत्तरमंगणएवगोदोह
नमात्रंतत्रस्थित्वातिथिमाकांक्षेत् ॥ प्रक्षालितपाणिपादआचम्यगृहंप्रविशन्निमंमंत्रंपठेत् ॥
ॐ शांतापृथिवीशिवमंतरिक्षंध्यौर्नोदेव्यभयंनोअस्तु ॥ शिवादिश:प्रदिशउद्दिशोनआपोवि
ध्युत:परिपांतुसर्वत:शांति:शांति:शांति: ॥ सर्वारिष्टशांतिस्तुइतिजपित्वाविष्णंस्मृत्वाकर्मार्पयेत् ॥
इतिपितृयज्ञ: ॥

N/A

References : N/A
Last Updated : July 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP