संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथपुरुषसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथपुरुषसूक्तम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ सहस्त्रशीर्षाषोळशनारायण:पौरुषमानुष्टुभंत्रिष्टुबंतं ॥ अभिषेकेविनियोग: ॥
हरि: ॐ ॥ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष: सह्स्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशां
गुलं ॥ पुरुषएवेदंसर्वंयद्भूतंयच्चभव्यं ॥ उतामृतत्वस्येशानोयदन्नेनातिरोहति ॥ एतावानस्यमहिमातोज्यांश्चपूरुष: ॥ पादोस्यविश्वाभूतानित्रिपादस्यामृतदिवि    ॥
त्रिपादूर्ध्वउदैत्पुरुष:पादोस्येहाभवत्पुन: ॥ ततोविष्वड्व्यक्रामत्साशनानशनेअभि ॥
तस्माद्विराळजायतविराजोअधिपूरुष: ॥ सजातोअत्यरिच्यतपश्चाद्भूतमिमथोपुर: ॥१॥
यत्पुरुषेणहविषादेवायज्ञमतन्वत ॥ वसंतोअस्यासीदाज्यंग्रीष्मइध्म:शरध्दवि: ॥
तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाअयजंतसाध्याऋषयश्चये ॥ तस्माध्यज्ञात्स
र्वहुत:संभृतंपृषदाज्यं ॥ पशून्तांश्चक्रेवायव्यानारण्यान् ग्राम्याश्चये ॥ तस्माध्यज्ञात्सर्व
हुतऋच:सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्मादयजुस्तस्मादजायत ॥ तस्मादश्वाअजायंत
येकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताअजावय: ॥२॥
यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥
ब्राह्मणॊस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्दयांशूद्रोअजायत ॥
चंद्रमामनसोजातश्चक्षो:सूर्योअअजायत ॥ मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥
नाभ्याआसीदंतरिक्षंशीर्ष्णोध्यौ:समवर्तत ॥ पभ्दयांभूमिर्दिश:श्रोत्रात्तथालोकाँअकल्पयन् ॥
सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायदयंज्ञंतन्वानाअबध्नपुरुषंपशुम् ॥
यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:
संतिदेवा: ॥३॥
अतोदेवाइतिषण्णांकाण्वोमेधातिथिर्देवाविष्णुर्गायत्री ॥ अभिषेकेवि० ॥ ॐ अतोदेवाअवंतु
नोयतोविष्णुर्विचक्रमे ॥ पृथिव्या:सप्तधामभि: ॥ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदम् ॥ समूह्वमस्यपासुरे ॥ त्रीणिपदाविचक्रमेविष्णुर्गोपाअदाभ्य: ॥ अतोधर्माणिधारयन् ॥
विष्णो:कर्माणिपश्यतयतोव्रतानिपस्पशे ॥ इंद्रस्युज्य:सखा ॥ तद्विष्णो:परमंपदंसदापश्यं
तिसूरय: ॥ दिवीवचक्षुराततं ॥ तद्विप्रासोविपन्यवोजागृवांस:समिधंते ॥ विष्णोर्यत्परमं
पदम् ॥ इतिपुरुषसूक्तंविष्णुसूक्तंच ॥ देवस्यत्वासवितु: प्रसवेश्विनोर्बाहुभ्यांपूष्णोहस्ता
भ्यामग्नेस्तेजसासूर्यस्यवर्चसेंद्रस्येंद्रियेणाभिषिंचामि ॥ बलायश्रियैयशसेन्नाध्याय ॐ भूर्भव: स्व: अमृताभिषेकोस्तु शांति: पुष्टिस्तुष्टिश्चास्तु ॥ अमुकदेव० महाभिषेकस्नानं
समर्पयामि ॥ महाभि० शुध्दोदकस्नानंसमर्पयामि ॥ स्नानांतेआचमनीयंस० ॥ ॐ तदस्तुमित्रावरुणातदग्नेशंयोरस्मभ्यमिदमस्तुशस्तम् ॥ अशीमहिगाधमुतप्रतिष्ठानंमोदि
वेबृहतेसादनाय ॥ गृहावैप्रतिष्ठासूक्तंतत्प्रतिष्ठिततमयावाचाशंस्तव्यंतस्माध्यध्यपिदूर
इवपशूँल्लभतेगृहानेवैनानाजिगमिषतिगृहाहिपशूनांप्रतिष्ठाप्रतिष्ठा ॥ नर्यप्रजांमेगोपाय ॥
अमृतत्वायजीवसे ॥ जातांजनिष्यमाणांच ॥ अमृतेसत्येप्रतिष्ठितां ॥ सुप्रतिष्ठितमस्तु ॥ ॐ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाऽअयजंतसाध्याऋषयश्चये ॥ सर्वभूषा
धिकेसौम्येलोकलज्जानिवारणे ॥ मयोपपादितेतुभ्यंवाससीप्रतिगृह्यताम् ॥ अमु० वस्त्रं०
॥ आचमनीयं ॥ ॐ तस्माध्यज्ञात्सर्वहुत:संभृतंपृषदाज्यं ॥ पशून्ताश्चक्रेवायव्यानारण्या
न्ग्राम्याश्चये ॥ देवदेवनमस्तेस्तुत्राहिमांभवसागरात् ॥ ब्रह्मसूत्रंसोत्तरीयंगृहाणपुरुषोत्तम ॥ अमु० यज्ञोप० आचमनीय ॥ (हरिद्रास्वर्णवर्णाभासर्वसौभाग्यदायिनी ॥ सर्वालंकारमु
ख्याहिदेवित्वंप्रतिगृह्यताम् ॥ हरिद्रांस० ॥ हरिद्राचूर्णसंयुक्तंकुंकुमंकामदायकम् ॥
वस्त्रालंकरणंसर्वदेवित्वंप्रतिगृह्यताम् ॥ अमुकदे० कुंकुमंसमर्पयामि ॥ कज्जलंकामदंरम
म्यंकामिनीकामसंभवम् ॥ सीमंतभूषणार्थायसिंदूरंप्रतिगृह्यताम् ॥ अमुकदे० सिंदूरंस० ॥ मांगल्यतंतुमणिभिर्मुक्ताफलविराजितम् ॥ कंठस्यभूषणार्थायकंठसूत्रंप्रगृह्यताम् ॥ अमुकदे० कंठसूत्रस० ॥ काचस्यनिर्मितंदिव्यंकंकणंचसुरेश्वरि ॥ हस्तालंकरणार्थायकंकणं
प्रतिगृह्यताम् ॥ अमुकदेवतायैनम: ॥ कंकणंस० ॥ अलंकारान्मयादेविसुवर्णेनविनिरर्मि
तान् ॥ प्रीत्यर्थंतवदेवेशिभूषणंप्रतिगृह्यताम् ॥ अमुकदे० नानाभूषणानिस० ॥ नानाभर
णशोभाढयंनानारत्नोपशोभितं ॥ अर्पितंचमयादेविताडपत्रंप्रगृह्यताम् ॥ अमुकदे० ताडपत्रं
सम० ॥)
ॐ अहिरिवभोगै:पर्येतिबाहुंज्यायाहेतिंपरिबाधमान: ॥ हस्तघ्नोविश्वावयुनानिविद्वान्पुमा
न्पुमांसंपरिपातुविश्वत: ॥ ज्योत्स्नापतेनमस्तुभ्यंनमस्तेविश्वरुपिणे ॥ नानापरिमलद्रव्यं
गृहाणपरमेश्वर ॥ अमुकदे० नानापरिमलद्रव्याणिसम० ॥ ॐ तस्माध्यज्ञात्सर्वहुतऋच:
सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माध्यजुस्तस्मादजायत ॥ श्रीखंडंचंदनंदिव्यंगंधाढयं
सुमनोहरं ॥ विलेपनंसुरश्रेष्ठचंदनंप्रतिगृह्यताम् ॥ अमुकदे० चंदनंस० ॥ अक्षतास्तंडुला:
शुभ्रा:कुंकुमेनविराजिता: ॥ मयानिवेदिताभक्त्यागृहाणपरमेश्वर ॥ अमुकदे० अलंकारार्थे
अक्षतानस० ॥ ॐ तस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेत्तस्माताअजावय: ॥ माल्यादीनि सुगंधीनिमालत्यादीनिवैप्रभो ॥ मयाहृतानिपूजार्थंपुष्पाणिप्रतिगृह्यतां ॥
सेवंतिकाबकुलचंपकपाटलाब्जै:पुन्नागजातिकरवीररसालपुष्पै: ॥ बिल्वप्रवालतुलसीदलमा
लतीभिस्त्वांपूजयामिजगदीश्वरमेप्रसीद ॥ अमु० पुष्पाणिस० ॥ केशवादिचतुर्विंशतिनाम
भिर्वाअष्टोत्तरशतनामभि:सहस्त्रनामभिर्वातुलासीदलैरन्येनद्रव्येणवापूजयेत् ॥ ॐ यत्पुरुषं
व्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ वनस्पतिरसोद्भूतो
गंधाढ्योगंधउत्तम: ॥ आघ्नेय:सर्वदेवानांधूपोऽयंप्रतिगृह्यताम् ॥ अमु० धूपंस० ॥ ॐ
ब्राह्मणोस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्ध्यांशूद्रोअजायत ॥
आज्यंसुवर्तिसंयुक्तंवन्हिनायोजितंमया ॥ दीपंगृहाणदेवेशत्रैलोक्यतिमिरापह ॥ भक्त्या
दीप्रपंयच्छामिदेवायपरमात्मने ॥ त्राहिमांनिरयाध्दोराद्दीपोयंप्रतिगृह्यतां ॥
अमु० दीपंस० ॥ ॐ चंद्रमामनसोजातश्चक्षो:सूर्योअजायत ॥ मुखादिंद्रश्चाग्निप्राणाद्वायु
रजायत ॥ नैवेध्यंगृह्यतांदेवभक्तिंचलांकुरु ॥ ईप्सितंमेवरंदेहिपरत्रचपरागतिम् ॥ शर्कराखंडखाद्यानिदधिक्षीरघृतानच ॥ आहारंभक्ष्यभोज्यंचनैवेध्यंप्रतिगृह्यताम् ॥ शर्करा
ध्यमुकनैवेध्यं समर्पयामि ॥ ॐ प्राणायस्वाहा ॥ ॐ अपानाय स्वाहा ॥ ॐ व्यानाय० ॐ उदानाय० ॐ समानाय० ॐ ब्रह्मणे० ॥ नैवेध्यमध्येपानीयं स० ॥ पुन: ॐ प्राणायस्वा० ॥ इत्यादि उत्तरापोशनं स० ॥ हस्तप्रक्षालनं स० ॥ मुखप्रक्षालनं स० ॥
करोद्वर्तनार्थेचंदनं स० ॥ पूगीफलंमहद्दिव्यंनागवल्लीदलैर्युतम् ॥ कर्पूर्रैलासमायुक्तंतां
बूलंप्रतिगृह्यताम् ॥ अमु० तांबूलं स० ॥ इदंफलंमयादेवस्थापितंपुरतस्तव ॥ तेनमेसुफलावाप्तिर्भवेज्जन्मनिजन्मनि ॥ फलेनफलितंसर्वत्रैलोक्यंसचराचरं ॥ तस्मात्फ
लप्रदानेनसफला:स्युर्मनोरथा: ॥ अमु० फलं० स० ॥ हिरण्यगर्भगर्भस्थं हेमबीजंविभाव
सो: ॥ अनंतपुण्यफलदमत:शांतिप्रयच्छमे ॥ अमु० दक्षिणां स० ॥ ॐ श्रियेजात:श्रिय
आनिरियायश्रियंवयोजरितृभ्योददाति ॥ श्रियंवसानाअमृतत्वमायन्भवंतिसत्यासमिथामित
द्रौ ॥ श्रियएवैनंतच्छ्रियामादधातिसंततमृचावषट्‍कृत्यंसंतत्यैसंधीयतेप्रजयापशुभिर्यएवंवेद ॥ याज्ययायजतिप्रत्तिर्वैयाज्यापुण्यैवलक्ष्मी:पुण्यामेवतलक्ष्मींसंभावयतिपुण्यांलक्ष्मींसंस्कुरु
ते ॥ चंद्रादित्यौचधरणिर्विध्युदग्निस्तथैवच ॥ त्वमेवसर्वज्योतींषिआर्तिक्यंप्रतिगृह्यताम् ॥ अमु० महानीराजनदीपंस० ॥ हृत्स्थाज्ञानतमोनाशक्षमंभक्त्यासमर्पितं ॥ कर्पूरदीपमम
लंगृहाणपरमेश्वर ॥ अमुकदे० कर्पूरार्तिक्यदीपं स० ॥ ॐ नाभ्याआसीदंतरिक्षंशीर्ष्णौध्यौ
सम:वर्तत ॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात्तथालोकाँअकल्पयन् ॥ नम:सर्वहितार्थायजगदाधारहे
तवे ॥ साष्टांगोऽयंप्रणामस्तेप्रयत्नेनमयाकृत: ॥ नमोस्त्वनंतायसहस्त्रमूर्तयेसहस्त्रपादा
क्षिशिरोरुबाहवे ॥ सहस्त्रनाम्नेपुरुषायशाश्वतेसहस्त्रकोटीयुगधारिणेनम: ॥ अमु० नम
स्कारान् सम० ॥ ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वाना
अबध्नन्पुरुषंपशुं ॥ यानिकानिपापानिजन्मांतरकृतानिच ॥ तानितानिविनश्यंतिप्रदक्षिण
पदेपदे ॥ अमुक० प्रदक्षिणा० स० ॥ ॐ यज्ञेययज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्या
सन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥ नमोमहभ्ध्योनमो० राजधिराजा
य० ॥ मंत्रपुष्पांजलिंसमर्पयामि ॥ अग्निमावाह्य पुरुषसूक्तेनप्रत्यृचमाज्यंहुत्वा तदसं
भवेसूक्तावृत्तिद्वयंजप्त्वा पुनस्तेनैवसूक्तेनषोडशपुष्पाण्यर्पयित्वा पुन:सूक्तंजपेत् ॥ तद
नंतरंस्वोपदिष्टमूलमंत्रंयथाशक्तिजस्वा ॥ ततोगीतंवाध्यंनृत्यंछत्रंचामरंदर्पणमांदोलनंसर्व
राजोपचारार्थेतुलसीपरं स० ॥ प्रार्थना ॥ ॐ अयंमेहस्तोभगवानयंमेभगवत्तर: ॥ अयंमेवि
श्वभेषज्योंशिवाभिमदर्शन: ॥ अयंमातायंपितायंजीवातुरागमत् ॥ इदंतवप्रसर्पणंसुबंधेहि
निरिहि ॥ आवाहनंनजानामिनजानामितवार्चनं ॥ पूजांचैवनजानामिक्षमस्वपरमेश्वर ॥ मंत्रहीनंक्रियाहीनंभक्तिहीनंसुरेश्वर ॥ यत्पूजितं मयादेवपरिपूर्णंतदस्तुमे ॥ अपराधसह
स्त्रंचक्रियतेहर्निशंमया ॥ दासोऽयमितिमांमत्वाक्षमस्वपरमेश्वर ॥ पूजांते ॥ दत्वाषोडश
भिऋग्भि:षोडशान्नस्यचाहुती: ॥ सूक्तेन (पौरुषेन) प्रत्यृचंपुष्पंदत्वासूक्तेनसंस्तुयात् ॥
अन्यै:पौराणैश्च ॥ गतंपापंगतंदु:खं गतंदारिद्र्यमेवच ॥ आगतासुखसंपत्ति:पुण्याच्चतव
दर्शनात् ॥ रुपंदेहिजयंदेहियशोदेहिद्विषोजहि ॥ पुत्रान् देहिधनंदेहिसर्वान्कामांश्चदेहिमे ॥ यस्यस्मृत्याचनामोक्त्यातप:पूजाक्रियादिषु ॥ न्यूनंसंपूर्णतांयातिसध्योवंदेतमच्युतं ॥
इतिप्रार्थना ॥ अनेनमयायथाज्ञानेनयथामीलितोपचारद्रव्यै:कृतपूजनेनश्रीअमुकदेवता:प्रीयं
ताम् ॥ ततो निर्माल्यं (विष्णुभिन्नं) देवदत्तंभावयित्वाशिरसिधारयेत् ॥ शंखमध्येस्थितं
तोयंभ्रामितंकेशवोपरि ॥ अंगलग्नंमनुष्याणांब्रह्महत्यांव्यपोहति ॥ अनेनमंत्रेणशंखोदकं
शिरसिधारयेत् ॥ अकालमृत्युहरणंसर्वव्याधिविनाशनं ॥ देवपादोदकंपीत्वाशिरसाधारया
म्यहं ॥ तीर्थंग्राह्यं ॥ तत्तुपात्रांतरेणैवविहितंनहस्तेन ॥ इतिदेवपूजा ॥
इतिअष्टधाविभक्तदिवसस्यप्रथमभागकृत्यं ॥

N/A

References : N/A
Last Updated : July 06, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP