संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथसभादीपदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथसभादीपदानम्

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यदेशकालौसंकीर्त्य पुराणोक्तफलावाप्त्यर्थं ममइहजन्मनिजन्मांतरेचाखंडि
तसौभाग्याध्यवाप्तयेपुत्रपौत्रधनधान्यादिसमृध्दयेवांछितसर्वमनोरथेप्राप्तयेचसभादीपदान
कल्पोक्तफलावाप्तिकामाऽहंब्रह्मविष्णुरुद्रप्रीत्यर्थं ब्राह्मणसभायांअग्निसंनिधौब्राह्मणाय
सभादीपदानंकरिष्ये । तत्रादौगणपतिपूजनंपंचशब्दै:पुण्याहवाचनंदीपपूजनंब्राह्मणपूजनंच
करिष्ये । दीपपूजजांकृत्वाब्राह्मणंसंपूज्य ॥
भोदीपब्रह्मरुपस्त्वंज्योतिषांप्रभुरव्यय: ॥ आरोग्यंदेहिपुत्रांश्चअवैधव्यंप्रयच्छमे ॥
श्रावणेमास्युपाकर्मण्यारब्धेविप्रसंसदि । व्रीहितंडुलपिष्टस्यपाचितेनचनिर्मितं ॥
घृतवर्त्यग्निसंयुक्तंविमलेकांस्यभाजने ॥ सपादतंडुलप्रस्थंपूरितंसुप्रतिष्ठितं ॥
अवैधव्यसुपुत्रत्वदीर्घायु:श्रीसुखाप्तये ॥ सभादीपप्रदानंचतुभ्यंविप्रसदक्षिणं ॥
ब्रह्मविष्णुमहेशाश्चप्रीयंतांदीपदानत: ॥ ममाभीष्टप्रदा:संतुभवेस्मिन्वाभवांतरे ॥
सर्वकामप्रदानृणांदीपदानप्रतोषिता: ॥ श्रावण्यांश्रवणर्क्षेचसभायामग्निसन्निधौ ॥
सभादीपप्रदानेनतत:शांतिंप्रयच्छमे ॥ स्वस्त्यस्तुदीर्घमायु:श्रेय:शांति:पुष्टिस्तुष्टि
श्चास्तु ॥
इदंसभादीपदानंदक्षिणातांबूलसहितंअमुकशर्मणेब्राह्मणायतुभ्यमहंसंप्रददे तेनश्रीब्रह्म
विष्णुरुद्रा:प्रीयंतां ॥ इतिसभादीपदानविधि: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP