संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथमहान्यास: अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथमहान्यास: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथमहान्यास: Translation - भाषांतर श्रीगणेशायनम:॥ हरि: ॐ ॥ अथात:पंचांगरुद्राणांन्यासपूर्वकंजपहोमार्चनविधिंव्याख्यास्याम: ॥ ॐ यातेरुद्रशिवातनूरघोरापापकाशिनी ॥ तयानस्तनुवाशंतमयागिरिशंताभिचाकशीहि ॥ शिखायैनम: ॥ ॐ अस्मिमन्यहत्यर्णवेंतरिक्षेभवाअधिं ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ शिरसेनम: ॥ ॐ सहस्त्राणिसहस्त्रशोयेरुद्राअधिभूम्यां ॥ तेषाँसहस्त्रयोजनेवधन्वानितन्मसि ॥ ललाटानम: ॥ॐहँस:शुचिषद्वसुरंतरिक्षसध्दोतावेदिषदतिथिर्दुरोणसत् ॥ नृषद्वरसदृतसव्द्योमसदब्जागोजाऋतजाऋतजाअद्रिजाऋतंबृहत् ॥ भ्रूमध्यायनम: ॥ॐ त्र्यंबकंयजामहेसुगंधिंपुष्टिवर्धनं ॥ उर्वारुकमिवबंधनान्मृत्योर्मुक्षीयमामृतात् ॥नेत्राभ्यांनम: ॥ ॐ नम:स्त्रुत्यायचपथ्यायच ॥ कर्णाभ्यांनम: ॥ ॐ मानस्तोकेतनयेमानआयुषिमानोगोषुमानोअश्वेषुरीरिष: ॥ वीरान्मानोरुद्रभामितोवधीर्हविष्मंतोनमसाविधेमते ॥ नासिकायनम: ॥ॐ अवत्यतधनुस्त्वँ सहस्त्राक्षशतेषुधे ॥ निशीर्यशल्यानांमुखाशिवोन:सुमनाभव ॥ मुखायनम: ॥ॐ नीलग्रीवा:शितिकंठा:शर्वाअध:क्षमाचरा: ॥ तेषासहस्त्रयोजनेवधन्वनितन्मसि ॥ कंठायनम: ॥ॐ नीलग्रीवा:शितिकंठादिवरुद्राउपाश्रिता: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ उपकंठायनम: ॥ॐ नमस्तेअस्त्वायुधायानातताधृष्णवे ॥ उभाभ्यामुततेनमोबाहुभ्यांतवधन्वने ॥ बाहुभ्यांनम: ॥ ॐ यातेहेतिमीढुष्टमहस्तेबभूवतेधनु: ॥ तयास्मान्विश्वतस्त्वमयक्ष्मयापरिब्भुज ॥ उपबाहुभ्यांनम: ॥ ॐ येतीर्थानिप्रचरंतिसृकावंतोनिषंगिण: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥हस्ताभ्यांनम: ॥ ॐ सध्योजातंप्रपध्यामिसध्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभवस्वमां ॥ भवोद्भवायनम: ॥अंगुष्ठाभ्यांन: ॥ ॐ वामदेवायनमोज्येष्ठायनम: श्रेष्ठायनमोरुद्रायनम: कालायनम: कलविकरणायनमोबलविकरणायनमोबलायनमोबलप्रथमनायनम:सर्वभूतदमनायनमोमनोन्मनायनम: ॥तर्जनीभ्यांनम: ॥ ॐ अघोरेभ्योथघोरेभ्योघोरघोरतेभ्य: ॥ सर्वेभ्य:सर्वशर्वेभ्योनमस्तेअस्तुरुद्रेभ्य: ॥ मध्यमाभ्यांनम: ॥ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात् ॥ अनामिकाभ्यांनम: ॥ॐ ईशान:सर्वविध्यानामीश्वर:सर्वभूतानांब्रह्माधिंपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॥ कनिष्ठिकाभ्यां नम: ॥ॐ नमोव:किरिकेभ्योदेवानाहृदयेभ्य: ॥ हृदयानम: ॥ ॐनमोगणेभ्योगणपतिभ्यश्चवोनम: ॥ पृष्ठैनम: ॥ॐ नमोहिरण्यबाहवेसेनान्येदिशांपतयेनम: ॥ पार्श्वाभ्यांनम: ॥ ॐ विज्य़ंधनु:कपर्दिनोविशल्योबाणवाउत ॥ अनेशन्नस्येषवआभुरस्यनिषंगथि ॥ जठरायनम: ॥ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्यजात:पतिरेकआसीत् ॥ सदाधारपृथिवींध्यामुतेमाकंस्मैदेवायहविषाविधेम ॥ नाभ्यैनम: ॥ ॐ मीढुष्टमशिवतमशिवोन:सुमनाभव ॥ परमेवृक्षआयुधंनिधायकृत्तिंवसान आचरपिनाकंबिभ्रदागहि ॥ कटयैनम: ॥ ॐ येभूतानामधिपतयोविशिखास:कपर्दिन: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥गुह्यायनम: ॥ ॐ सशिराजातवेदा: ॥ अक्षरंब्रह्मसंमितं ॥ वेदानाशिरउत्तमं ॥ जातवेदसेशिरसामाता ॥ स्वयंब्रह्मभूर्भव:सुवरोम् ॥ ॐ जातवेदसेसुनवामसोमरातीयतोनिदहातिवेद: ॥ सन:पर्षदतिदुर्गाणिविश्वानावेवसिंधुंदुरितात्यग्नि: ॥ तामग्निवर्णांतपसाज्वलंतींवैरोचनींकर्मफलेषुजुष्टां ॥ दुर्गांदेवींशरणमहंप्रपध्येसुतरसितरसेनम: ॥ अग्नेत्वंपारयानव्योअस्मान्त्स्वस्तिभिरतिदुर्गाणिविश्वा पूश्चपृथ्वीबहुलानउर्वीभवातोकायतनययशंयो: ॥ विश्वानिनोदुर्गहाजातवेद:सिंधुंननावादुरितातिपर्षि ॥ अग्नेअत्रिवन्मनसागृणानोस्माकंबोध्यवितातनूनां ॥ पृतनाजितसहमानमुग्रमग्निहुवेमपरमात्सधस्थात् ॥ सन:पर्षदतिदुर्गाणिविश्वाक्षामद्देवोअतिदुरिताग्यग्नि: ॥ अपानायनम: ॥ ॐ मानोमहांतमुतमानोअर्भकंमान उक्षंतमुतमानउक्षितं ॥ मानोवधी:पितरंमोतमातरंप्रियामानस्तनुवोरुद्ररीरिष: ॥ ऊरुभ्यांनम: ॥ ॐ एषतेरुद्र भागस्तंजुषस्वतेनावसेनपरोमूजवतोतीह्यवततधन्वापिनाकहस्त:कृत्तिवासा: ॥ जानुभ्यांनम: ॥ ॐ ससृष्टजित्सोमपाबाहुशर्ध्यूर्ध्वधन्वाप्रतिहिताभिरस्ता ॥ बृहस्पतेपरिदीयारथेनरक्षोहामित्रा अपबाधमान: ॥ जंघाभ्यांनम: ॥ ॐ विश्वभूतंभुवनंचित्रंबहुधाजातंजायमामंचयत् ॥ सर्वोह्येषरुद्रस्तस्मैरुद्रायनमोअस्तु ॥ गुल्फाभ्यांनम: ॥ ॐ येपथांपथिरक्षयऐलबदायव्युध: ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ पादाभ्यांनम: ॥ ॐ अध्यवोचदधिवक्ताप्रथमोदैव्योभिषेक् ॥ अहीश्वसर्वान्जंभयन्त्सर्वाश्चयातुधान्य: ॥ कवचायनम: ॥ॐ नमोबिल्मिनेचकवचिनेच ॥ उपकवचायनम: ॥ ॐ नमोअस्तुनीलग्रीवायसहस्त्राक्षायमीढुषे ॥ अथोयेअस्यसत्वानोहंतेभ्योकरंनम: ॥ तृतीयनेत्रायनम: ॥ ॐ प्रमुंचधन्वनस्त्वमुभयोर्त्नियोर्ज्यां ॥ याश्चतेहस्तइषव:पराताभगवोवप ॥ अस्त्रायफट् ॥ ॐ यएतावंतश्चभूयासश्चदिशोरुद्रावितस्थिरे ॥ तेषासहस्त्रयोजनेवधन्वानितन्मसि ॥ इतिदिग्बंध: ॥ इतिप्रथमोन्यास: ॥१॥ॐ नमोभगवतेरुद्रायेतिनमस्कारंन्यसेत् ॥ ॐ ॐ मूर्ध्नेनम: ॥ ॐ नं नासिकायैनम: ॥ ॐ मों ललाटायनम: ॥ ॐ भं मुखायनम: ॥ ॐ गं कंठायनम: ॥ ॐ वं हृदयाय नम: ॥ ॐ तें दक्षिणहस्तायनम: ॥ ॐ रुं वामहस्तायनम: ॥ ॐ द्रां नाभ्यैनम: ॥ ॐ यं पादाभ्यांनम: ॥ ॐ सध्योजातंप्रपध्यामिसध्योजातायवैनमोनम: ॥ भवेभवेनातिभवेभवेभवस्वमां ॥ भवोद्भवायनम: ॥ पादाभ्यांनम: ॥ ॐ वामदेवायनमोज्येष्ठायनम: ॥ श्रेष्ठायनमोरुद्रायनम: कालायनम: कलविकरणायनमोबलविकरणायनमोबलायनमोबलप्रथमनायनम: सर्वभूतदमनायनमोमनोन्मनायनम: ॥ ऊरुमध्यायनम: ॥ ॐ अघोरेभ्योथघोरेभ्योघोरघोरतेभ्य: ॥ सर्वेभ्य:सर्वशर्वेभ्योनमस्तेअस्तुरुद्ररुपेभ्य: ॥ हृदयायनम: ॥ॐ तत्पुरुषायविद्महेमहादेवायधीमहि ॥ तन्नोरुद्र:प्रचोदयात् ॥ मुखायनम: ॥ ॐ ईशान:सर्वविध्यानामीश्वर:सर्वभूतानांब्रह्माधिपतिर्ब्रह्मणोधिपतिर्ब्रह्माशिवोमेअस्तुसदाशिवोम् ॥ शिरसेनम: ॥ (ॐ कारंमूर्ध्निविन्यस्यनकारंनासिकाग्रत: ॥ मोकारंतुललाटेवैभकारंमुखमध्यत: ॥१॥गकारंकंठदेशेतुवकारंहृदिविन्यसेत् ॥ तेकारंदक्षिणेहस्तेरुकारंवामतोन्यसेत् ॥२॥द्राकारंनाभिदेशेतुयकारंपादयोर्न्यसेत् ॥ सध्यंचपादयोर्न्यस्यवामंन्यस्योरुमध्यत: ॥३॥अघोरंहृदिविन्यस्यमुखेतत्पुरुषंन्यसेत् ॥ ईशानंहृदिविन्यस्यहंसोनामसदाशिव: ॥४॥इतिद्वितीयोन्यास: ॥२॥अस्यश्रीहंसगायत्रीमंत्रस्यआत्माऋषि: ॥ परमात्मादेवता ॥ अव्यक्तगायत्रीछंद: ॥ हसंन्यासेविनियोग: ॥ ॐ हंसाअंगुष्ठाभ्यांनम: ॥ हृदयानम: ॥ ॐ हंसींतर्जनी० शिरसे० ॥ ॐ हंसूंमध्यमाभ्या० शिखायै० ॥ ॐ हंसैंअनामिकाभ्यां० कवचाय० ॥ॐ हंसौंकनिष्ठिकाभ्यां० नेत्रत्रयाय० ॥ ॐ हंस:करतलकर० अस्त्रायफट् ॥ इतिदिग्बंध: ॥ गमागमस्थंगमनादिशून्यंचिद्दीपदीपंतिमिरांधनाशं ॥ पश्यामितेसर्वजनांतरस्थंनमामिहंसंपरमात्मरुपं ॥ हंस: । सोहंस: ॥ परमाहंस: ॥ ॐ हंसहंसायविद्महेपरमहंसायधीमहि ॥ तन्नोहंस:प्रचोदयात् ॥ हंसहंसेतियोब्रूयाध्दंसोनामसदाशिव: ॥ एवंन्यासविधिंकृत्वातत:संपुटमारभेत् ॥ इतितृतीयोन्यास: ॥३॥ॐ भूर्भव:स्व: ॥ ॐ त्रातारमिंद्रमवितारमिंद्रहवेहवेसहवशूरमिंद्रं ॥ हुवेनुशक्रंपुरुहूतमिंद्र स्वस्तिनोमघवाधात्विंद्र: ॥ ॐ भूर्भव:सुव:ललाटस्थानेइंद्रायनम: ॥ ॐ नं त्वंनोअग्नेवरुणस्यविद्वान्देवस्यहेडोवयासिसीष्ठा: ॥ यजिष्ठोवन्हितम:शोशुचानोविश्वाद्वेषा सिप्रमुमुग्ध्यस्मत् ॥ नं नेत्रस्थानेअग्नयेनम: ॥ ॐ मों सुगंन:पंथामभयंकृणोतुयस्मिन्नक्षत्रेयमएतिराजा ॥ यस्मिन्नेनमभ्यर्षिचंतदेवास्तदस्यचित्रहविषायजाम ॥ मों कर्णस्थानेयमायनम: ॥ ॐ भं असुन्वंतमयजमानमिच्छस्तेनस्येत्यांतस्करस्यान्वेषि ॥ अन्यमस्मदिच्छसातइत्यानमोदेविनिऋतेतुभ्यमस्तु ॥ भं मुखस्थानेनिऋतये० ॥ ॐ गं तत्त्वायामिब्रह्मणावंदमानस्तदाशास्तेयजमानोहविर्भि: ॥ अहेडमानोवरुणेहबोध्युरुश समानआयु:प्रमोषी: ॥ गं बाहुस्थानेवरूणाय० ॥ ॐ वं आनोनियुभ्दि:शतिनीभिरध्वरसहस्त्रीणीभिरुपयाहियज्ञं ॥ वायोअस्मिन्ह विषिमादयस्वयूयंपात:स्वस्तिभि:सदान: ॥ वं नासिकास्थानेवायवे० ॥ ॐ तें वयसोमव्रतेतव ॥ मनस्तनूषुविभ्रत: ॥ प्रजावंतोअशीमहि ॥ तें हृदिस्थानेसोमाय० ॥ ॐ रुं तमीशानंजगतस्तस्थुषस्पतिंधियंजिन्वमवसेहूमहेवयं ॥ पूषानोयथावेदसामसद्वृधेरक्षितापायुरदब्ध:स्वस्तये ॥ रुं नाभिस्थानेईशानाय० ॥ ॐ द्रां अस्मेरुद्रामेहनापर्वतासोवृत्रहत्येभरहूतौसजोषा: ॥ य:शंसतेस्तुवतेधायिपज्रद्रज्येष्ठाअस्माँअवंतुदेवा: ॥द्रां मूर्धस्थानेआकाशायनम: ॥ ॐ यं स्योनापृथिविभवानृक्षरानिवेशनी ॥ यच्छांन:शर्मसप्रथा: ॥ यं पादस्थानेभूम्यैनम: ॥ एतत्संपुटमिंद्रादीन्दिक्षुविन्यस्यैवात्मनिरौद्रीकरणंकृत्वा ॥ (रौद्रीकरणंचेत्थं) ॥ ॐ विभूरसिप्रवाहणोरौद्रेणानेकेनपाहिमाग्नेपिपृहिमामामाहिसी: ॥ श्रोत्राभ्यांनम: ॥ ॐ वन्हिरसिहव्यवाहनोरौद्रेणानीकेन० ॥ त्वचेनम: ॥ ॐ श्वात्रोसिप्रचेतारौद्रेणा० ॥ चक्षुभ्यां० ॥ ॐ तुथोसिविश्ववेदारौद्रे० ॥ जिह्वायै० ॥ॐ उशिगसिकवीरोरौद्रेणानीकेन० ॥ नासिकायै० ॥ ॐ अंघारिरसिबंभारीरौद्रेणानीकेन० पायवेन० ॥ ॐ अवस्युरसिदुवस्वान्रौद्रेणानीकेन० ॥ उपस्थायन० ॥ॐ शुंध्यूरसिमार्जालीयोरौद्रेणानीकेन० ॥ हस्ताभ्यांन० ॥ ॐ सम्राडसिकृशानूरौद्रेणानीकेनपाहि० ॥ पादाभ्यांन० ॥ ॐ परिषध्योसिपवमानोरौद्रेणा० ॥ वाचेनम: ॥ॐ प्रत्तक्कासिनभस्वान् रौद्रे० ॥ आत्मनेनम: ॥ ॐ समंमृष्टोसिहव्यसूदोरौद्रे० ॥आकाशायनम: ॥ ॐ ऋतधामासिसुवर्ज्योतीरौद्रे० ॥ वायवेनम: ॥ ॐ ब्रह्मज्योतिरसिसुवर्धामारौद्रे० ॥ अग्नयेनम: ॥ ॐ अजोस्येकपाद्रौद्रे०॥ अभ्ध्योनम: ॥ ॐ अहिरसिबुध्नियोरौद्रे० ॥ भूम्यैनम: ॥ (श्रोत्रत्वक् चक्षुषीजिव्हानासिकाचैवपंचमी ॥ पायूपस्थौहस्तपादौवाक्वैवदशमीतथा ॥ आत्माखंवायुरग्निश्चआपोभूमिस्तुषोडश ॥)त्वगस्थिगतै:पापै:प्रमुच्यतेसर्वभूतेष्वपराजितोभवति ॥ ततोयक्षराक्षसगंधर्वभूतप्रेतपिशाचयमदूतशाकिनीडाकिनीसर्पश्वापदतस्कराध्युपघाता:सर्वेज्वलंतंपश्यंतु ॥ मारक्षंतु ॥ यजमानंरक्षंतु ॥ इतिचतुर्थोन्यास: ॥४॥ॐ मनोज्योतिर्जुषतामाज्यंविच्छिन्नंयज्ञ समिमंदधातु ॥ याइष्टाउषसोनिम्रुचश्चता:संदधामिहविषाघृतेन ॥ गुह्यायनम: ॥ ॐ अबोध्यग्नि:समिधाजनानांप्रतिधेनुमिवायतीमुषासं ॥ यव्हाइवप्रवयामुज्जिहाना: प्रभानव:सिस्त्रतेनाकमच्छ ॥ जठरायनम: ॥ ॐ मूर्धानंदिवोअरतिंपृथिव्यावैश्वानरमृतायजातमग्निं ॥ कविसम्राजमतिथिंजनानामासन्नापात्रंजनयंतदेवा: ॥ हृदयानम: ॥ ॐ मर्माणितेवर्मभिश्छादयामिसोमस्त्वाराजामृतेनाभिवस्तां ॥ उरोर्वरीयोवरिवस्तेअस्तुजयंतंत्वामनुमदंतुदेवा: ॥ मुखायनम: ॥ ॐ जातवेदायदिवापावकोसि ॥ वैश्वानरोयदिवावैध्युतोसि ॥ शंप्रजाभ्योयजमानायलोकं ॥ ऊर्जंपुष्टिंदददभ्याववृत्स्व ॥ शिरसेस्वाहा ॥ तत आत्मरक्षाकर्तव्या ॥ ॐ ब्रह्मात्मन्वदसृजतं ॥ तदकामयत ॥ समात्मनापध्येयेति ॥आत्मन्नात्मन्नित्यामंत्रवत ॥ तस्मैदशम हूत:प्रत्यश्रॄणोत् ॥ सदसहूतोभवत् ॥ दशहूतोहवैनामैष: ॥ तंवाएतंदशहूतसंतं ॥ दशहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैसप्तमहूत:प्रत्यश्रृणोत् ॥ ससप्तहूतोभवत् ॥सप्तहूतोहवैनामैष: ॥ तंवाएतसप्तहूतसंतं ॥ सप्तहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैषष्ठहूत:प्रत्यश्रृणोत् ॥ सषड्ढूतोभवत् ॥षड्ढूतोहवैनामैष: ॥ तंवाएत शड्डूतसंतं ॥ षड्ढोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैपंचमहूत:प्रत्यश्रृणोत् ॥ सपंचहूतोभवत् ॥पंचहूतोहवैनामैष: ॥ तंवाएतंपंचहूतसंतं ॥ पंचहोतेत्याचक्षतेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥ आत्मन्नात्मन्नित्यामंत्रयत ॥ तस्मैचतुर्थहूत:प्रत्यश्रृणोत् ॥ सचतुर्हूतोभवत् ॥चतुर्हूतोहवैनामैष: ॥ तंवाएतंचतुर्हूतसंतं ॥ चतुर्होतेत्याचक्षणेपरोक्षेण ॥ परोक्षप्रियाइवहिदेवा: ॥ तमब्रवीत् ॥ त्वंवैमेनेदिष्ठहूत:प्रत्यश्रौषी: ॥ त्वयैनानाख्यातारइति ॥ तस्मान्नुहैनाश्चतुर्होतारइत्याचक्षते ॥ तस्माच्छुश्रूषु:पुत्राणाहृध्यतम: ॥ नेदिष्ठोहृध्यतम: ॥ नेदिष्ठोब्रह्मणोभवति ॥ यएवंवेद ॥ इतिपंचमोन्यास: ॥५॥ॐ यज्जाग्रतोदूरमुदैतुदैवंतदुसुप्तस्यतथैवैति ॥ दूरंगमंज्योतिषांज्योतिरेकतन्मेमन: ॥शिवसंकल्पमस्तु ॥ येनकर्माण्यपसोमनीषिणोयज्ञेकृण्वंतिविदथेषुधीरा: ॥ यदपूर्वंयक्ष्ममंत:प्रजानांतन्मेमन:शिवसंकल्पमस्तु ॥ यत्प्रज्ञानमुतचेतोधृतिश्चयज्ज्योतिरंतरमृतंप्रजासु ॥ यस्मान्नऋतेकिंचनकर्मक्रियतेतन्मेमन: शिवसंकल्पमस्तु ॥येनेदंभूतंभुवनंभविष्यत्परिगृहीतममृतेनसर्व ॥ येनयज्ञस्तायतेसप्तहोतातन्मेमन: शिवसंकल्पमस्तु ॥ यस्मिन्नृच:सामयजूषियस्मिन्प्रतिष्ठितारथनाभाविवारा: ॥ यस्मिश्चित्त्त्तसर्वमोतंप्रजानांतन्मेमन: शिवसंकल्पमस्तु ॥ सुषारथिश्वानिवयंमनुष्यान्नेनीयतेभीशुभिर्वाजिनइव ॥ हृत्प्रतिष्ठंयदजिरंयविष्ठंतन्मेमन: शिवसंकल्पमस्तु ॥ॐ नमोभगवतेरुद्रायशिवसंकल्पहृदयायनम: ॥ ॐ सहस्त्रशीर्षापुरुष: ॥ सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वा ॥ अत्यतिष्ठदृशांगुलं ॥ पुरुषएवेदसर्व ॥ यद्भूतंयच्चभव्यं ॥ उतामृतत्वस्येशान: ॥ यदन्नेनातिरोहति ॥ एतावानस्यमहिमा ॥ अतोज्यायाश्चपूरुष: ॥ पादोस्यविश्वाभूतानि ॥त्रिपादस्यामृतंदिवि ॥ त्रिपादूर्ध्वउदैत्पुरुष: ॥ सजातोअत्यपरिच्यत ॥ पश्चाद्भूमिमथोपुर: ॥ यत्पुरुषेणहविषा ॥ देवायज्ञमतन्वत ॥ वसंतोअस्यादीदाज्यं ॥ ग्रीष्मइध्म:शरध्दवि: ॥सप्तास्यासन्परिधय: ॥ त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वाना: ॥ अबध्नन्पुरुषंपशुं ॥ तंयज्ञंबर्हिषिप्रौक्षन् ॥ पुरुषंजातमग्रत: ॥ तेनदेवाअयजंत ॥ साध्याऋषयश्चये ॥तस्माध्यज्ञात्सर्वहुत: ॥ संभृतंपृषदाज्यं ॥ पशूस्ताश्चक्रेवायव्यान् । आरण्यान् ग्राम्याश्चये ॥ तस्माध्यज्ञात्सर्वहुत: ॥ ऋच:सामानिजज्ञिरे ॥ छंदासिजज्ञिरेतस्मात् ॥ यजुस्तस्मादजायत ॥ तस्मादश्वाअजायंत ॥ येकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात् ॥तस्माज्जाताअजावय: ॥ यत्पुरुषंव्यदधु: ॥ कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहू ॥काऊरुपादावुच्येते ॥ ब्राह्मणोस्यमुखमासीत् ॥ बाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: ॥ पभ्ध्याशूद्रोअजायत ॥ चंद्रमामनसोजात: ॥ चक्षो:सूर्योअजायत ॥ मुखादिंद्रश्चाग्निश्च ॥ प्राणाद्वायुरजायत ॥ नाभ्याआसीदंतरिक्षं ॥ शीर्ष्णोध्यौ:समवर्तत ॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात् ॥ तथालोकाअकल्पयन् ॥ वेदाहमेतंपुरुषंमहांतं ॥ आदित्यवर्णंतमसस्तुपारे ॥ सर्वाणिरुपाणिविचित्यधीर: ॥ नामानिकृत्वाभिवदन्यदास्ते ॥ धातापुरस्ताध्यमुदाजहार ॥ शक्र:प्रविद्वान्प्रदिशश्चतस्त्र: ॥ तमेवंविद्वानमृतइहभवति ॥ नान्य:पंथाअयनायविध्यते ॥ यज्ञेनयज्ञमयजंतदेवा: ॥ तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंते ॥ यत्रपूर्वेसाध्या:संतिदेवा: ॥ ॐ नमोभगवतेरुद्रायपुरुषसूक्तशिरसेस्वाहा ॥ ॐ अभ्ध्य:संभूत:पृथिव्यैरसाच्च ॥ विश्वकर्मण:समवर्तताधि ॥ तस्यत्वष्टाविदधद्रूपमेति ॥तत्पुरुषस्यविश्वमाजानमग्रे ॥ वेदाहमेतंपुरुषंमहांतं ॥ आदित्यवर्णंतमस:परस्तात् ॥ तमेवंविद्वानमृतइहभवति ॥ नान्य:पंथाविध्यतेयनाय ॥ प्रजापतिश्चरतिगर्भेअंत: ॥ अजायमानोबहुधाविजायते ॥ तस्यधीरा:परिजानंतियोनिं ॥ मरीचीनांपदमिच्छंतिवेधस: ॥ योदेवेभ्यआतपति ॥ योदेवानांपुरोहित: ॥ पूर्वोयोदेवेभ्योजात: ॥ नभोरुचायब्राह्मये ॥रुद्रंब्राह्मंजनयंत: ॥ देवाअग्रेतब्रुवन् ॥ यस्त्वैब्राह्मणोविध्यात् ॥ तस्यदेवाअसन्वशे । हीश्चतेलक्ष्मीश्चपत्न्यौ ॥ अहोरात्रेपार्श्वे ॥ नक्षत्राणिरुपं ॥ अश्विनौव्यात्तं ॥ इष्टंमनिषाण ॥ सर्वमनिषाण ॥ ॐ नमोभगवतेरुद्रायेत्युत्तरनारायणशिखायैवषट् ॥ ॐ आशु:शिशानोवृषभोनयुध्मोघनाघन:क्षोभणश्चर्षणीनां ॥ संक्रंदनोनिमिषएकवीर:शतसेनाअजयत्साकमिंद्र: ॥ संक्रंदनेनानिमिषेणजिष्णुनायुत्कारेणदुश्च्यवनेनधृष्णुना ॥ तद्रिंद्रेणजततत्सहध्वंयुधोनरइषुहस्तेनवृष्णा ॥ सइषुहस्तै:सनिषंगिमिर्वशीसस्त्रष्टासयुधइंद्रोगणेन ॥ ससृष्टजित्सोमपाबाहुशर्ध्यूर्ध्वधन्वाप्रतिहिताभिरस्ता ॥ बृहस्पतेपरिदीयारथेनरक्षोहामित्राअपबाधमान: ॥ प्रभंजन्सेना:प्रमृणोयुधाजयन्नस्माकमेध्यवितारथानां ॥ गोत्रभिदगोविदंवज्रबाहुंजयंतमज्मप्रमृणंतमोजसा ॥ इमसजाताअनुवीरयध्वमिंद्रसखायोनुसरभध्वं ॥ बलविज्ञायस्थविर:प्रवीर:सहस्वान्वजीसहमानउग्र: ॥ अभिवीरोअभित्वासहोजाजैत्रमिंद्ररथमातिष्ठगोवित् ॥ अभिगोत्राणिसहसागाहमानोदायोवीर:शतमन्युरिंद्र: ॥ दुश्च्यवन:पृतननाषाडयुध्योस्माकसेनाअवतुप्रयुत्सु ॥ इंद्राआसांनेताबृहस्पतिर्दक्षिणायज: पुरएतुसोम: ॥ देवसेनानामभिभंजतीनांजयंतीनांमरुतोयंत्वग्रे ॥ इंद्रस्यवृष्णोवरुणस्यराज्ञ आदित्यानांमरुताशर्धौग्रं ॥ महामनसांभुवनच्यवानांघोषोदेवानांजयतामुदस्थात् ॥ अस्माकमिंद्र:समृतेषुध्वजेष्वस्माकंयाइषवस्ताजयंतु ॥ अस्माकंवीराउत्तरेभवंत्वस्मानुदेवाअवताहवेषु ॥ उध्दर्षयमघवन्नायुधान्युत्सत्वनांमामकानांमहासि ॥ उद्वृत्रहन्वाजिवांवाजिनान्युद्रथानांजयतामेतुघोष: ॥ उपप्रेतजयतानर:स्थिराव:संतुबाहव: ॥ इंद्रोव:शर्मयच्छत्वनाधृष्यायथासथ ॥ अवसृष्टापरापतशरव्येब्रह्मसशिता ॥ गच्छामित्रान्प्रविशमैषांकंचनोच्छिष ॥ मर्माणितेवर्मभिश्छादयामिसोमस्त्वाराजामृतेनाभिवस्तां ॥ उरोर्वरीयोवरिवस्तेअस्तुजयंतंत्वामनुमदंतुदेवा: ॥ यत्रबाणा:संपतंतिकुमाराविशिखाइव ॥ इंद्रोनस्तत्रवृत्रहाविश्वाहाशर्मयच्छतु ॥ ॐ नमोभगवतेरुद्रायअप्रतिरथंकवचायहुं ॥ ॐ त्वमग्नेरुद्रोअसुरोमहोदिव: ॥ त्वशर्धोमारुतंपृक्षईशिषे ॥ त्वंवातैररुणैर्यासिशंगय: ॥ त्वंपूषाविधत:पासिनुत्मना ॥ देवादेवेषुश्रयध्वं ॥ प्रथमाद्वितीयेषुश्रयध्वं ॥ द्वितीयास्तृतीयेषुश्रयध्वं ॥ तृतीयाश्चतुर्थेषुश्रयध्वं ॥ चतुर्था:पंचमेषुश्रयध्वं ॥ दशमाएकादशेषुश्रयध्वं ॥ एकादशाद्वादशेषुश्रयध्वं ॥ द्वादशास्त्रयोदशेषुश्रयध्वं ॥ त्रयोदशाश्चतुर्दशेषुश्रयध्वं ॥ चतुर्दशा:पंचदशेषुश्रयध्वं ॥ पंचदशा:षोडशेषुश्रयध्वं ॥ षोडशा:सप्तदशेश्रुयध्वं ॥ सप्तदशाअष्टादशेषुश्रयध्वं ॥ अष्टादशाएकान्नविशेषुश्रयध्वं ॥ एकान्नविशाविशेषुश्रुयध्वं ॥ विशाएकविशेषुश्रयध्वं ॥ एकविशाद्वाविशेषुश्रयध्वं ॥ द्वाविशास्त्रयोविशेषुश्रयध्वं ॥त्रयोविशाश्चतुर्विशेषुश्रयध्वं ॥ चतुर्विशा:पंचविशेषुश्रयध्वं ॥ पंचविशा:षड्विशेषुश्रयध्वं ॥षड्विशा:सप्तविशेषुश्रयध्वं ॥ सप्तविशाअष्टाविशेषुश्रयध्वं ॥ अष्टाविशाएकान्नत्रिशेषुयध्वं ॥ एकान्नत्रिशास्त्रिशेषुश्रयध्वं ॥ त्रिशाएकत्रिशेषुश्रयध्वं ॥ एकत्रिशाद्वात्रिशेषुश्रयघ्वं ॥ द्वात्रिशास्त्रयस्त्रिशेषुश्रयध्वं ॥ देवास्त्रिरेकादशास्त्रिस्त्रयस्त्रिशा: ॥ उत्तरेभवत ॥ उत्तरवर्त्मानउत्तरसत्वान: ॥ यत्कामइदंजुहोमि ॥ तन्मेसमृध्द्यतां ॥ वयस्यामपतयोरयीणां ॥ ॐ भूर्भव:सुव:स्वाहा ॥ ॐ नमोभगवतेरुद्रायसर्वक्लेशापहर्त्रेशतरुद्रियमित्यस्त्रायफट् ॥ एवंपंचांगंसकृज्जपेत् ॥ अष्टांगंप्रणम्य ॥ ॐ हिरण्यगर्भ:समवर्तताग्रेभूतस्यजात: पतिरेक आसीत् ॥ यईशेअस्यद्विपदश्चतुष्पद:कस्मैदेवायहविषाविधेम ॥ ॐ ब्रह्मजज्ञानंप्रथमंपुरस्ताद्विसीमत:सुरुचोवेनआव: ॥ सबुध्नियाउपमाअस्यविष्ठा:सतश्चयोनिमसतश्चविव: ॥ ॐ महीध्यौ:पृथिवीचनइमंयज्ञंमिमिक्षतां ॥ पिपृतांनोभरीमभि: ॥ ॐ उपश्वासयपृथिवीमुतध्यांपुरुत्रातेमनुतांवेष्ठितंजगत् ॥ सदुंदुभेसजूरिंद्रेणदेवैर्दूराद्दवीयोअपसेधशत्रून् ॥ ॐ अग्नेनयसुपथारायेअस्मान् विश्वानिदेववयुनानिविद्वान् ॥ युयोध्यस्मज्जुहुराणमेनोभूयिष्ठांतेनमउक्तिंविधेम ॥ ॐ यातेअग्नेयज्ञियातनूस्तयेह्यारोहात्मात्मानं ॥ अच्छावसूनिकृण्वन्नस्मेनर्यापुरुणि ॥ यज्ञोभूत्वायज्ञमासीदस्वांयोनि ॥ जातवेदोभुव आजायमान:सक्षयएहि ॥ ॐ यथाव:स्वाहाग्नयेदाशेमपरीळाभिर्घृतवभ्दिश्चहव्यै: ॥ तेभिर्नोअग्नेअमितैर्महोभि:शतंपूर्भिरायसीभिर्निपाहि ॥ इमंयमप्रस्तरमाहिसीदांगिरोभि:पितृभि:संविदान: ॥ आत्वामंत्रा:कविशस्तावहंत्वेनाराजन्ह विषामादयस्व ॥ उरसाशिरसादृष्टयामनसावचसातथा ॥ पभ्ध्यांकराभ्यांजानुभ्यांप्रणामोष्टांगउच्यते ॥ अनेनमहान्यासेनभगवान् श्रीपरमेश्वर:प्रीयतां ॥ इतिमहान्यास: ॥ N/A References : N/A Last Updated : July 23, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP