संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथउत्सर्जनप्रयोगः अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथउत्सर्जनप्रयोगः ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmarugvedsanskritॠग्वेदब्रह्मसंस्कृत अथउत्सर्जनप्रयोगः Translation - भाषांतर श्रीगणेशायनम: ॥ आचम्यपवित्रंधृत्वाप्राणानायम्यदेशकालौसंकीर्त्यश्रुतिस्मृतिपुराणोक्तफलप्राप्त्यर्थं ममाध्याप्यानांचाधीतानांछंदआदीनांयातयामतानिरासेनाप्यायनद्वाराश्रीपरमेश्वरप्रीत्यर्थं एभिर्ब्राह्मणै:सह अध्य (औपाकरणेऽन्हि) अंतरितमुत्सर्जनाख्यंकर्मकरिष्ये ।तत्रादौशरीरवाड्मन:शुध्दर्थंपंचगव्यप्राशनंनिर्विघ्नतासिध्दयर्थंमहागणपतिपूजनंचकरिष्ये ॥ प्रथमंसर्वेपंचगव्यंप्राश्नीयु: ॥ तत्रमंत्र: ॥ ॐ यत्त्वगस्थिगतंपापंदेहेतिष्ठतिमामके ।प्राशनंपंचगव्यस्यदहत्वग्निरिवेंधनं ॐ इतिप्राश्यआचामेत् एवंत्रि: । गणपतिंपूजयित्वा ॥ अध्येत्यादिउत्सर्जनहोमंकर्तुंस्थंडिलादिसकलंकर्मकरिष्ये ॥ तद्गोमयेनप्रदक्षिणमुपलिप्यदक्षिणेऽष्टौउदीच्यांद्वेप्रतीच्यांचतु:प्राच्यामर्धमित्यंगुलानित्यक्त्वा दक्षिणोपक्रमामुदक्संस्थांप्रादेशमात्रामेकांलेखांविलिख्यतस्यादक्षिणोत्तरयो:प्रागायतेप्रादेशसंमितेद्वेलेखेलिखित्वा तयोर्मध्येपरस्परमसंसृष्टा:प्रागायता:प्रादेशसंमितास्तिस्त्रइतिषड्लेखायज्ञियशकलमूलेदक्षिणहस्तेनोल्लिख्य लेखासुतच्छकलमुदगग्रंनिधायस्थंडिमभ्दिरभ्युक्ष्यशकलमाग्नेय्यांनिरस्यपाणिंप्रक्षाल्यवाग्यतोभवेत् ॥ अग्निमाहृत्य ॥ जुष्टोदमूनाआत्रेयोवसुश्रुतोग्निस्त्रिष्टुप् एह्यग्नेराहूगणोगोतमोग्निस्त्रिष्टुप् अग्न्यावाहनेविनियोग: ॥ ॐ जुष्टोदमूनाअतिथिर्दुरोणइमंनोयज्ञमुपयाहिविद्वान् ॥ विश्वाअग्रेअभियुजोविहत्याशत्रूयतामाभराभोजनानि ॥ एह्यग्नइहहोतानिषीदादब्ध:सुपुरएताभवान: । अवतांत्वारोदसीविश्वमिन्वेयजामहेसौमनसायदेवान् ॥ इत्यक्षतैरावाह्यआच्छादनंदूरीकृत्य समस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बहती अग्निप्रतिष्ठापनेविनियोग: ॥ ॐ भूर्भव:स्व: बलवर्धनामानमग्निंपतिष्ठापयामि ॥ प्रोक्षितेंधनादिनिक्षिप्य वेणुधमन्याप्रबोध्यध्यायेत् ॥ चत्वारिश्रृंगागोतमोवामदेवोग्निस्त्रिष्टुप् अग्निमूर्तिध्यानेविनियोग: ॥ ॐ चत्वारिश्रृंगात्रयोअस्यपादाद्वेशीर्षेसप्तहस्तासोअस्य ॥ त्रिधाबध्दोवृषभोरोरवीतिमहोदेवोमर्त्यांआविवेश ॥ सप्तहस्तश्चतु:श्रृंग:सप्तजिह्वोद्विशीर्षक: । त्रिपात्प्रसन्नवदन:सुखासीन:शुचिस्मित: ॥ स्वाहांतुदक्षिणेपार्श्वेदेवींवामेस्वधांतथा ॥ बिभ्रदृक्षिणहस्तैस्तुशक्तिमन्नंस्त्रुचंस्त्रुवं ॥ तोमरव्यंजनंवामैर्घृतपात्रंचधारयन् ॥ मेषारुढोजटाबध्दोगौरवर्णोमहौजस: ॥ धूम्रध्वजोलोहिताक्ष:सप्तार्चि:सर्वकामद: । आत्माभिमुखमासीनएवंरुपोहुताशन: ॥ अग्नेवैश्वानरशांडिल्यगोत्रमेषध्वजप्राड्मुखममसंमुखोवददोभव ॥ समिद्वयमादाय क्रियमाणेउत्सर्जन्होमेदेवतापरिग्रहार्थमन्वाधानंकरिष्ये ॥ अस्मिन्नन्वाहितेग्नौजातवेदसमग्निमिध्मेनप्रजापतिम्प्रजापतिंचाघारदेवतेआज्येनाग्नीषोमौचक्षुषीआज्येन ॥ अत्रप्रधानं-सावित्रीं ब्रह्माणं श्रध्दां मेधां प्रज्ञां धारणां सदसस्पतिं अनुमतिं छंदांस्यृषीन् एता:प्रधानदेवता: आज्यद्रव्येण ॥ पुनरत्रप्रधानं-अग्निं अप्तृणसूर्यान् अग्निं शकुंतं अग्निं मित्रावरुणौ अग्निं अप: अग्निं मरुत: अग्निं विश्वान्देवान् अग्निं इंद्रासोमौ इंद्रं अग्नामरुत: पवमानसोमं पवमानसोमं अग्निंसंज्ञानं एता:प्रधानदेवता: गृहसिध्दचरुद्रव्येण ॥ शेषेणस्विष्टकृतमग्निमिध्मसंनहनेनरुद्रमयासमग्निंदेवान् विष्णुमग्निंवायुंसूर्यंप्रजापतिंचैता:प्रायश्चित्तदेवताआज्येन ज्ञाताज्ञातदोषनिबर्हणार्थंत्रिवारमग्निंमरुतश्चाज्येनविश्वान्देवान्संस्त्रावेण अंगदेवता: प्रधानदेवता:सर्वा:सन्निहिता:संगुसांगोपांगेनकर्मणासध्योयक्ष्ये ॥ समस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती अन्वाधानसमिध्दोमेविनियोग: ॥ ॐ भूर्भवस्व:स्वाहा प्रजापतयइदंनमम ॥ इध्माबर्हिषोश्चसन्नहनं त्रि:परिसमूहनं परिस्तरणं ॥ तत्रप्राच्यांप्रतीच्यांचोदगग्रादर्भा: अवाच्यामुदीच्यांचप्रागग्रा: पूर्वपश्चात्परिस्तरणमूलयोरुपरिदक्षिणपरिस्तरणं उत्तरपरिस्तरणंतुतदग्रयोरधस्तात्तेचदर्भाअनियतसंख्या एकैकस्यांदिशिचत्वारश्चत्वारइत्येवंषोडशवा ॥ ततोऽग्नेर्दक्षिणतोब्रह्मासनार्थं उत्तरतश्चपात्रासादनार्थंकांश्चित्प्रागग्रान्दर्भानास्तृणीयात् ॥ (पर्युक्षणं ३ पवित्रकरणं पात्रासदनं) ॥ उत्तरास्तीर्णेषुदर्भेषुदक्षिणसव्यपाणिभ्यांक्रमेणचरुस्थालीप्रोक्षण्यौ दर्वीस्त्रुवौ प्रणीताऽऽज्यपात्रे इध्माबर्हिषीचेतिद्वेद्वेउदगपवर्गंप्राक्संस्थंन्युब्जान्यासादयेत् ॥ तत:प्रोक्षणीपात्रमुत्तानंकृत्वतत्रांनंतर्गर्भितसाग्रसमस्थूलप्रादेशमात्रेकुशद्वयरुपेपवित्रेनिधाय शुध्दाभिरभ्दिस्तत्पात्रंपूरयित्वागंधपुष्पाक्षतादिक्षिप्त्वा हस्तयोरंगुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यांपाणिभ्यामुदगग्रेपृथक् पवित्रेधृत्वा अपस्त्रिरुत्पूय पात्राण्युत्तानानिकृत्वाइध्मंचविस्त्रस्य सर्वाणिपात्राणित्रि:प्रोक्षेत् ॥ ताअप:किंचित्कमंडलौक्षिपेदित्येके ॥ प्रणीतापात्रमग्ने:प्रत्यड्गनिधायतत्रप्रागग्रेपवित्रेनिधाय उत्पूताभिरभ्दिस्तत्पात्रंपूरयित्वागंधपुष्पाक्षतान्निक्षिप्यमुखसमुध्दृत्य ॐ प्रणय अग्नेरुत्तरतोदर्भेषुनिधाय तेपवित्रेगृहीत्वाअन्यैर्दर्भैराच्छादयेत् ॥ तेपवित्रेआज्यपात्रेनिधाय तत्पात्रंपुरत:संस्थाप्य तस्मिन्नाज्यमासिच्य अग्नेरुत्तरत:स्थितांगारान् भस्मनासहाग्नेरुदक् परिस्तरणाब्दहिर्निरुह्य तेष्वाज्यपात्रमधिश्रित्य ज्वलतादर्भोल्मुकेनावज्वल्य अंगुष्ठपर्वमात्रंप्रक्षालितंदर्भाग्रद्वयमाज्येप्रक्षिप्य पुनर्ज्वलतातेनैवदर्भोमुल्केनचरुणासहाज्यंत्रि:पर्यग्निकृत्वातदुल्मुकंनिरस्य अप:स्पृष्ट्वा आज्यपात्रंभुवुकर्षन्निवोदगुद्वास्यअंगारानग्नौप्रास्य तत्रस्थमेवाज्यं सवितुष्ट्वाहिरण्यस्तूप:सवितापुरउष्णिक् ॥ आज्यस्योत्पवनेविनियोग: ॥ ॐ सवितुष्ट्वाप्रसवउत्पुनाम्यच्छिद्रेणपवित्रेणवसो:सूर्यस्यरश्मिभि: ॥ प्रागुत्पुनातिसकृन्मंत्रेणद्विस्तूणीं प्रोक्ष्यपवित्रंस्कंदायस्वाहा स्कंदायेदंनमम ॥ ततआत्मनोग्रतोभूमिंप्रोक्ष्य तत्रबर्हि:सन्नहनींरज्जुमुदगग्रांप्रसार्य तस्यांबर्हि:प्रागग्रमुदगपवर्गमविरलमास्तीर्यतस्मिन्नाज्यपात्रंनिधाय स्त्रुवादिसंमार्जयेत् ॥ दक्षिणहस्तेनस्त्रुक् स्त्रुवौगृहीत्वासव्येनकांश्चिदृर्भानादाय सहैवाग्नौप्रताप्यस्त्रुचंनिधायस्त्रुवंवामहस्तेगृहीत्वा दक्षिणहस्तेनस्त्रुवस्यबिलंदर्भाग्रै:प्रागादिप्रागपवर्गंत्रि:संमृज्य अधस्तादृर्भाग्रैरेवाभ्यात्मंबिलपृष्ठंत्रि:संमृज्य ततोदर्भाणांमूलैर्दडस्याधस्ताब्दिलपृष्ठादारभ्ययावदुपरिष्टाब्दिलंतावस्त्रि:संमृज्य प्रोक्ष्य प्रताप्य आज्यस्थाल्याउत्तरतोनिधाय तैरेवदर्भैर्जुहूंचैवमेवसंमृज्य प्रोक्ष्य प्रताप्य स्त्रुवादुत्तरतोनिधाय दर्भानभ्दि:क्षालयित्वाऽग्नावनुप्रहरेत् ॥ तत:सुश्रृतंचरुंस्त्रुवगृहीतेनाज्येनाभिघार्य उदगुद्वास्य अग्न्याज्ययोर्मध्येननीत्वाआज्यादृक्षिणतोबर्हिषिसांतरमासाध्य पुनरप्यभिघार्य नवाभिघार्य अग्न्यायतनादेकादशांगुलमितेदेशेऽग्निंसमंत्रभ्यर्चयेत् ॥ विश्वानिनइतिसृणांवसुश्रुतोग्निष्टुप् द्वयोरर्चनेऽन्त्यायाउपस्थानेविनियोग: ॥ ॐ विश्वानिनोदुर्गहाजातवेद: ॥ ॐ सिंधुंननावादुरितातिपर्षि ।ॐ अग्नेअत्रिवन्नमसागृणान: ॥ ॐ अस्माकंबोध्यवितातनूनां ॥ ॐ यस्त्वाहृदाकीरिणामन्यमान: । ॐ अमर्त्यंमर्त्योजोहवीमि । ॐ जातवेदोयशोअस्मासुधेहि ॥ ॐ प्रजाभिरग्नेअमृतत्वमश्यां ॥ ॐ यस्मैत्वंसुकृतेजातवेदउलोकमग्नेकृणव:स्योनं । अश्विनंसपुत्रिणंवीरवंतंगोमंतंरयिंनशतेस्वस्ति । आत्मानंचालंकृत्य हस्तंप्रक्षाल्यं इध्मबंधनरज्जुमिध्मस्थानेनिधायपाणिनेध्ममादाय मूलमध्याग्रेषुस्त्रुवेणत्रिरभिघार्य मूलमध्ययोर्मध्यभागेगृहीत्वा ॥ अयंतेवामदेवोजातवेदाअग्निस्त्रिष्टुप् इध्महवनेविनियोग: । ॐ अयंतइध्मआत्माजातवेदस्तेनेध्यस्ववर्धस्वचेध्दवर्धयचास्मान्प्रजायपशुभिर्ब्रह्मवर्चसेनान्नाध्येनसमेधयस्वाहा अग्नयेजातवेदसइदंनमम । आघारहोमेवायव्यकोणमारभ्याग्नेयकोणपर्यंतं प्रजापतिपदंमनसास्मरन् प्रजापतयेस्वाहा अग्नयइदंनमम। दक्षिणत:सोमायस्वाहा सोमायेदंनमम॥अथप्रधानाज्यहोम: ॥ ॐ सावित्र्यैस्वाहा सावित्र्याइदंनमम । ॐ ब्रह्मणेस्वाहा ब्रह्मणइदंनमम । ॐ श्रध्दायैस्वाहा श्रध्दायाइदंनमम । ॐ मेधायैस्वाहा मेधायाइदंनमम । ॐ प्रज्ञायैस्वाहा प्रज्ञायाइदंनमम । ॐ धारणायैस्वाहा धारणाया इदंनमम । ॐ सदसस्पतयेस्वाहा सदसस्पतयइदंनमम । ॐ अनुमतयेस्वाहा अनुमतयइदंनमम । ॐ छंदोभ्यऋषिभ्य:स्वाहाछंदोभ्यऋषिभ्यइदंनमम । (अथपंचावत्तीचेत्तिष्ठन् । ॐ प्रसूतोभक्षमकरंचरावपिस्तोमंचेमंप्रथम:सूरिरुन्मृजे । सुतेसातेनयध्यागमंवांप्रतिविश्वामित्रजमदग्नीदमे । इतिपठित्वोपविश्यएकमवदानमधिकंगृह्यतामित्याचार्यंप्रार्थयेत् ) ।तत:स्त्रुवेणस्त्रुच्याज्युमुपस्तीर्यचरुंद्विरवदायपात्रस्थमभिघार्यावत्तंचाभिघार्य (पंचावत्तीचेत्तदाचरुंत्रिवरदाय) ॥ अग्निमीळेवैश्वामित्रोमधुच्छंदाअग्निर्गायत्री उत्सर्जनप्रधानगृहसिध्दचरुहोमेविनियोग: ॥ ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं । होतारंरत्नधातमंस्वाहा ॥ अग्नयइदंनमम ॥१॥कुषुंभकस्तदगस्त्योप्तृणसूर्याअनुष्टुप् उत्सर्जनप्रधानगृह० ॥ ॐ कुषुंभकस्तदब्रवीद्गिरे:प्रवर्तमानक: । वृश्चिकस्यारसंविषमरसंवृश्चिकतेविषंस्वाहा । अप्तृणसूर्येब्यइदंनमम ॥२॥त्वमग्नेशौनकोगृत्समदोग्निर्जगती उत्सर्जन० ॥ ॐ त्वमग्नेध्युभिस्त्वमाशुशुक्षणिस्त्वमश्मस्परि । त्वंवनेभ्यस्त्वमोषधीभ्यस्त्वंनृणांनृपतेजायसेशुचि:स्वाहा ॥ अग्नय इदंनमम ॥३॥आवदन् गृत्समद:शकुंतोजगती उत्सर्जनप्रधान० ॥ ॐ आवदंस्त्वंशकुनेभद्रमावदतूष्णीमासीन:सुमतिंचिकिध्दिन: । यदुत्पतन्वदसिकर्करिर्यथाबृहद्वदेमविदथेसुवीरा:स्वाहा ॥ शकुंतायेदंनमम ॥४॥सोमस्यमागाथिनोविश्वामित्रोग्निस्त्रिष्टुप् उत्सर्जन० ॥ ॐ सोमस्यमातवसंवक्ष्यग्नेवन्हिंचकर्थविदथेयजध्यै ॥ देवाँअच्छादीध्यध्युंजेअद्रिंशमायेअग्नेतन्वंजुषस्वस्वाहा ॥ अग्नय इदंनमम ॥५॥गृणाभार्गवोजमदग्निर्मित्रावरुणौगायत्री उत्सर्जन० ॥ ॐ गृणानाजमदग्निनायोनावृतस्यसीदतं । पातंसोममृतावृधास्वाहा ॥ मित्रावरुणाभ्यामिदंनमम ॥६॥त्वांह्यग्नेगोतमोवामदेवोग्निरष्टि: उत्सर्जन० ॥ ॐ त्वांह्यग्नेसदमित्समन्यवोदेवासोदेवमरतिंन्योरिरइतिक्रत्वान्येरिरे । अमर्त्यंयजतमर्त्येष्वादेवमादेवंजनतप्रचेतसंविश्वमादेवंज नतप्रचेतस्वाहा ॥ अग्नयइदंनमम ॥७॥धामंतेगोतमोवामदेवाआपोजगती उत्सर्जन० ॥ ॐ धामंतेविश्वंभुवनमधिश्रितमंत:समुद्रेहृध्यं१तरायुषि ॥ अपामनीकेसमिथेय आभृतस्तमश्याममधुमंतंतऊर्मिस्वाहा ॥ अभ्ध्य इदंनमम ॥८॥अबोध्यात्रेयौबुधगविष्ठिरावग्निस्त्रिष्टुप् उत्सर्जन० ॥ ॐ अबोध्यग्नि:समिधाजनानांप्रतिधेनुमिवायतीमुषासं । यह्वाइवप्रवयामुज्जिहाना: प्रभानव:सिस्त्रतेनाकमच्छस्वाहा ॥ अग्नयइदंनमम ॥९॥गंतानआत्रेयएवयामरुन्मरुतोतिजगती उत्सर्जन० ॥ ॐ गंतानोयज्ञंयज्ञिया:सुशमिश्रोताहवमरक्षएवयामरुत् ॥ ज्येष्ठासोनपर्वतासोव्योमनियूयंतस्यप्रचेतस: स्यातदुर्धर्तवोनिद:स्वाहा: ॥ मरुभ्ध्य इदंनमम ॥१०॥त्वंह्यग्नेबार्हस्पत्योभारद्वाजोग्निस्त्रिष्टुप् उत्सर्जन० ॥ ॐ त्वह्यंग्नेप्रथमोमनोतास्याधियोअभवोदस्महोता ॥ त्वंसीवृषन्नकृणोर्दुष्टरीतुसहोविश्वस्मैसहसेसहध्यैस्वाहा ॥ अग्नय इदंनमम ॥११॥योन:स्व:पायुर्भारद्वाजोविश्वेदेवाअनुष्टुप् उत्सर्जन० ॥ ॐ योन:स्वोअरणोयश्चनिष्टयोजिघांसति ॥ देवास्तंसर्वेधूर्वंतुब्रह्मवर्मममांतरंस्वाहा ॥ विश्वेभ्योदेवेभ्य इदंनमम ॥१२॥अग्निनरोमैत्रावरुणिर्वसिष्ठग्निर्विराट् उत्सर्जन० ॥ ॐ अग्निंनरोदीधितिभिररण्योर्हस्तच्युतीजनयंतप्रशस्तं ॥ दूरेदृशंगृहपतिमथर्युंस्वाहा ॥ अग्नयइदंनमम ॥१३॥प्रतिचक्ष्वमैत्रावरुणिर्वसिष्ठइंद्रासोमावनुष्टुप् उत्सर्जन० ॥ ॐ प्रतिचक्ष्वविचक्ष्वेंद्रश्चसोमजागृतं ॥ रक्षोभ्योवधमस्यतमशनिंयातुमभ्ध्य:स्वाहा ॥ इंद्रासोमाभ्यामिदंनमम ॥१४॥माचित्काण्व:प्रगाथइंद्रोबृहती उत्सर्जन०॥ ॐ माचिदन्यद्विशंसतसखायोमारिषण्यत ।इंद्रमित्स्तोतावृषणंसचासुतेमुहुरुक्थाचशंसतस्वाहा ॥ इंद्रायेदंनमम ॥१५॥आग्नेयाहिकाण्व:सौभरिरग्रामरुतोनुष्टुप् उत्सर्जनप्रधान० ॥ ॐ आग्नेयाहिमरुत्सखारुद्रेभि:सोमपीतये। सोभर्याउपसुष्टुतिंमादयस्वस्वर्णरेस्वाहा ॥ अग्नामरुभ्ध्यइदंनमम ॥१६॥स्वादिष्ठयामधुच्छंदा:पवमान:सोमोगायत्री उत्सर्जनप्रधानगृह० ॥ ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेसुत:स्वाहा ॥ पवमानायसोमायेदंनमम ॥१७॥यत्तेराजन्मारीच:कश्यप:पवमान:सोम:पंक्ति: उत्सर्जनप्रधान० ॥ ॐ यत्तेराजन्च्छृतंहविस्तेनसोमाभिरक्षन: ॥ अरातीवामानस्तारीन्मोचन:किंचनाममदिंद्रायेंदोपरिस्त्रवस्वाहा ॥ पवमानायसोमायेदंनमम ॥१८॥अग्रेबृहन्नाप्त्यास्त्रितोग्निस्त्रिष्टुप् उत्सर्जनप्रधान० ॥ ॐ अग्रेबृहन्नुषसामूर्ध्वोअस्थान्निर्जगन्वान्तमसोज्योतिषागात् । अग्निर्भानुनारुशतास्वंग आजातोविश्वासद्मान्यप्रा:स्वाहा॥ अग्नयइदंनमम ॥१९॥समानीव:संवनन:संज्ञानमनुष्टुप् उत्सर्जनप्रधानगृहसिध्दचरुहोमेविनियोग: ॥ ॐ समानीवआकूति:समानाहृदयानिव: । समानमस्तुवोमनोयथाव:सुसहासतिस्वाहा ॥ संज्ञानायेदंनमम ॥२०॥स्विष्टकृतिंद्विरभिघारयति ॥ यदस्येतिहिरण्यगर्भोग्नि:स्विष्टकृदतिधृति: स्विष्टकृध्दोमेविनियोग: ॥ ॐ यदस्यकर्मणोत्यरीरिचंयद्वान्यूनमिहाकरं । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वंस्विष्टंसुहुतंकरोतुमे । अग्नयेस्विष्टकृतेसुहुतहुतेसर्वप्रायश्चित्ताहुतीनांकामानांसमर्धयित्रेसर्वान्न:कामान्त्समर्धयस्वाहा ॥ अग्नयेस्विष्टकृत इदंनमम ॥ त्रिसंनहनेनरुद्रंरुद्रायस्वाहा ॥ रुद्रायेदंनमम ॥ अपउपस्पृश्य ॥ सर्वै:सहप्राणानायम्य ॥ पृथ्वीतिमंत्रस्यमेरुपृष्ठऋषि:कूर्मोदेवता सुतलंछंद: आसनेविनियोग: । ॐ पृथ्वित्वयाधृतालोकादेवित्वंविष्णुनाधृता । त्वंचधारयमांदेविपवित्रंकुरुचासनं । अपसर्पंतुतेभूतायेभूताभूमिसंस्थिता: । येभूताविघ्नकर्तारस्तेगच्छंतुशिवायज्ञा ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशं । सर्वेषामवरोधेनब्रह्मकर्मसमारभे ॥ शरावेजलंदर्भाश्चादाय ॥ विध्युदसविध्यमेपाप्मानमृतात्सत्यमुपैमि इतितज्जलमुपस्पृश्यदर्भगर्भब्रह्मांजलिंकृत्वादक्षिणांकेनिधाय प्रणवादिस्वयंपठन्नन्यानप्युपविष्टान् वान् वाचयेत् ॥ प्रणवस्यपरब्रह्मऋषि:परमात्मादेवतादैवीगायत्रीछंद: समस्तव्याहृतीनांपरमेष्ठीप्रजापति:प्रजापतिर्बृहती गायत्र्याविश्वामित्र:सवितागायत्री अग्निमीळइत्यादीनांछंदसांमधुच्छंदादयऋषय: अग्न्यादयोदेवता: गायत्र्यादीनिछंदांसि सर्वेषामुत्सर्जनेविनियोग: ॥ ॐ भूर्भव:स्व:तत्सवितुर्वरेण्यं । भर्गोदेवस्यधीमहि । धियोयोन:प्रचोदयात् । ॐ भूर्भव:स्व: तत्सवितुर्वरेण्यं । भर्गोदेवस्यधीमहि । धियोयोन:प्रचोदयात् ।ॐ भूर्भव:स्व: तत्सवितुवरेण्यंभर्गोदेवस्यधीमहिधियोयोन:प्रचोदयात् ॥ ॐ अग्निमीळेपुरोहितं । यज्ञस्यदेवमृत्विजं । होतारंरत्नधातमं । अग्नि:पूर्वेभिऋषिभि: । ईड्योनूतनैरुत । ददेवाँएहवक्षति । अग्निनारयिमश्नवत् । पोषमेवादिवेदिवे । यशसंवीरवत्तमं । अग्नेयंयज्ञमध्वरं । विश्वत:परिभूरसि । सइद्देवेषुगच्छति । अग्निर्होताकविक्रतु: । सत्यश्चित्रश्रवस्तम: । देवोदेवेभिरागमत् ॥१॥यदंगदाशुषेत्वं । अग्नेभद्रंकरिष्यसि । तवेत्तत्सत्यमंगिर: । उपत्वाग्रेदिवेदिवे । दोषावस्तर्धियावयं । नमोभरंतएमसि । राजंतमध्वराणां । गोपामृतस्यदीदिविं । वर्धमानंस्वेदमे । सन:पितेवसूनवे । अग्नेसूपायनोभव । सचस्वान:स्वस्तये ॥२॥अग्निर्वैदेवानामवमोविष्णु:परम: । अथमहाव्रतं । एषपंथाएतत्कर्म । अथात:संहितायाउपनिषत् । विदामघन्विदा । महाव्रतस्यपंचविंशतिंसामिधेन्य: । इषेत्वोर्जेत्वा । अग्र आयाहिवीतये । शन्नोदेवीरभिष्टये । अथैतस्यसमाम्नायस्य । समाम्नाय:समाम्नात: । मयरसतजभनलगसंमितं । गौ: । ग्मा । पंचसंवत्सरमयं । अथशिक्षांप्रवक्ष्यामि । वृध्दिरादैच् । (यदिंद्रोदाशराज्ञेमानुषंव्यगाहथा: । इदंजनाउपश्रुत) । योगीश्वरंयाज्ञवल्क्यं । नारायणंनमस्कृत्य । अथातोधर्मव्याख्यास्याम: । अथातोधर्मजिज्ञासा । अथातोब्रह्मजिज्ञासा । तच्छंयोरावृणीमहेगातुंयज्ञायगातुंयज्ञायगातुंयज्ञपतये दैवी:स्वस्तिरस्तुन:स्वस्तिर्मानुषेभ्य: । ऊर्ध्वंविगातुभेषजं शंनोअस्तुद्विपपदेशंचतुष्पदे । नमोब्रह्मणेनमोअस्त्वग्नयेनम:पृथिव्यैनमओषधीभ्य: । नमोवाचेनमोवाचस्पतयेनमोविष्णवेमहतेकरोमि ॥ इतित्रि: ॥ ॐ शांति:शांति:शांति: । वृष्टिरसिवृश्चमेपाप्मानमृतात्सत्यमुपागाम् । सर्वे उत्सृष्टावैवेदा: इत्युक्त्वाजलंस्पृशेयु: ॥ तत:अयाश्चेतिविमदोऽयाअग्नि:पंक्ति: प्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ अयाश्चाग्नेस्यनभिशस्तीश्चसत्यमित्वमयाअसि । अयासावयसाकृतोयासन्हव्यमूहिषेयानोधेहिभेषजंस्वाहा । अयासेऽग्नयइदंनमम ॥ अतोदेवामेधातिथिर्देवागायत्री प्रायश्चित्ताज्यहोमेविनियोग: । ॐ अतोदेवाअवंतुनोयतोविष्णुर्विचक्रमे । पृथिव्या:सप्तधामभि:स्वाहा । देवेभ्यइदंनमम ॥ इदंविष्णुर्मेधातिथिर्विष्णुर्गायत्री प्रायश्चित्ताज्यहोमेविनियोग: । ॐ इदंविष्णुर्विचक्रमेत्रेधानिदधेपदं । समूह्वमस्यपांसुरेस्वाहा ॥ विष्णवइदंनमम ॥ॐ स्व:स्वाहा । सूर्यायेदंनमम ॥ ॐ भूर्भव:स्व:स्वाहा । प्रजापतय इदंनमम ॥ अनाज्ञातमितिमंत्रद्वयस्यहिरण्यगर्भोग्निरनुष्टुप् ज्ञाताज्ञातदोषनिबर्हणार्थंप्रायश्चित्ताज्यहोमेविनियोग: ॥ ॐ अनाज्ञातंयदाज्ञातंयज्ञस्यक्रियतेमिथु । अग्रेतदस्यकल्पयत्व हिवेत्थयथातथस्वाहा ॥ अग्नयइदंनमम ॥ ॐ पुरुषसंमितोयज्ञोयज्ञ:पुरुषसंमित: । अग्नेतदस्यकल्पयत्वहिवेत्थयथातथस्वाहा ॥ अग्नय इदंनमम ॥ यत्पाकत्रेत्याप्त्यस्त्रितोस्त्रिष्टुप् प्रायश्चित्ताज्यहोमेविनियोग: । ॐ यत्पाकत्रामनसादीनदक्षानयज्ञस्यमन्वतेमर्तास: । अग्निष्टध्दोतक्रतुविद्विजानन्याजिष्ठोदेवाँऋतुशोयजातिस्वाहा ॥अग्नय इदंनमम ॥ यद्वोदेवाअभितपामरुतस्त्रिष्टुप् प्रायश्चित्ताज्यहोमेविनियोग: । ॐयद्वोदेवाअतिपातयानिवाचाचप्रयुतीदेवहेळनं । अरायोअस्माँअभिदुच्छुनायतेन्यत्रास्मन्मरुतस्तन्निधेतनस्वाहा ॥ मरुभ्ध्य इदंनमम ॥ (यज्ञोपघातादौप्रायश्चित्तानि । अस्मिन्कर्मणिकृमिकीटपिपीलिकामक्षिकाध्युपघातदोषपरिहारार्थंद्वेमिंदाहुतीहोष्यामि । ॐ यन्म आत्मनोमिंदाभूदग्निस्तत्पुनराहार्जातवेदाविचर्षणिस्वाहा ॥ मिंदवतेग्नय इदंनमम ॥ ॐ पुनरग्निश्चक्षुरदात्पुननरिंद्रोब्रृहस्पति: । पुनर्मेअश्विनायुवंचक्षुराधत्तमक्ष्यो: स्वाहा ॥ मिंदवतेग्नय इदंनमम ॥ अस्मिन्कर्मणिस्वराक्षरपदवर्णभ्रेषजनितप्रत्यवायपरिहारार्थंअभिर्गीर्भिरत्येकामाज्याहुतिंहोष्यामि ॥ ॐ आभिगीर्भिर्यदतोनऊनमाप्याययहरिवोवर्धमान: । यदास्तोतृभ्योमहिगोत्रारुजासिभूविष्ठभाजोअधतेस्यामस्वाहा ॥ इंद्रायहरिवत इदंनमम ॥) सांगतासिध्दर्थंसर्वप्रायश्चित्तंकरिष्ये ॥ ॐ भूर्भव:स्वाहा ॥ प्रजापतय इदंनमम ॥संस्त्रावेण ॐ विश्वेभ्योदेवेभ्य: स्वाहा ॥ विश्वेभ्योदेवेभ्य:संस्त्रावभाग्भ्य इदंनमम ॥ हवि:शेषमुदगुद्वास्यबर्हिषिपूर्णपात्रंनिनयेत् ॥ पूर्णंमसिपूर्णंमेभूया:सुपूर्णमसिसुपूर्णंमेभूया:सदसिसन्मेभूया:सर्वमसिसर्वमेभूया: ॥ अक्षितिरसिमामेक्षेष्ठा: ॥ प्राच्यांदिशिदेवाऋत्विजोमार्जयंतां । दक्षिणस्यांदिशिमासा: पितरोर्माजयंतां । अपउपस्पृश्य । प्रतीच्यांदिशिग्रहा:पशवोमार्जयंतां । उदीच्यांदिशापओषधिवनस्पतयोमार्जयंतां । ऊर्ध्वायांदिशियज्ञ:संवत्सर:प्रजापतिर्मार्जयतां । प्रतीच्यांदिशिग्रहा:पशवोमार्जयंतां । उदीच्यांदिश्यापओषधिवनस्पतयोमार्जयंतां । ऊर्ध्वायांदिशियज्ञ:संवत्सर:प्रजापतिर्मार्जयतां । आपोअस्मानित्यस्यदेवश्रवाआपस्त्रिष्तुप् मार्जनेविनियोग: ॥ ॐ आपोअस्मान्मातर:शुंधयंतुघृतेनोघृतप्व:पुनंतु । विश्वंहिरिप्रंप्रवहंतिदेवीरुदिदाभ्य:शुचिरापूतएमि ॥ इदमाप:सिंधुद्वीपआपोनुष्टुप् मार्जनेविनियोग: ॥ ॐ इदमाप:प्रवहतयत्किंचदुरितंमयि । यद्वाहमभिदुद्रोहयद्वाशेप उतानृतं ।सुमित्र्यानआपओषधय:संतु । दुर्मित्र्यास्तस्मैसंतुयोस्मान्द्वेष्टि ॥ यंचवयंद्विष्मस्तंहन्मि । इतिनैऋत्यांदिशिकुशाग्रैरप:सिंचेत् ॥माहंप्रजापरासिचंयान:सयावरी:स्थन । समुद्रेवोनिनयास्वंपाथोअपीथ ॥ ताआप:समुद्रंगच्छेयुरितिचिन्तयन् गंगादिनदी:स्मरन् अंजलिस्थदर्भैरात्मानमन्यांश्चमार्जयेत् ॥ तत:अग्नेर्वायव्यदेशेतिष्ठन् ॥ अग्नेत्वंनइतिचतसृणांगौपायनालौपायनावाबंधु:सुबंधु:श्रुतबंधर्विप्रबंधुश्चैकैकचर्चाऋषय: अग्निर्देवता द्विपदाविराट्छंद: अग्न्युपस्थानेविनियोग: ॥ ॐ अग्नेत्वंनोअंतमउतत्राताशिवोभवावरुथ्य: । वसुरग्निर्वसुश्रवाअच्छानक्षिध्युमत्तमंरयिंदा: ॥ सनोबोधिश्रुधीहवमुरुष्याणोअघायत:समस्मात् ॥ तंत्वाशोचिष्ठदीदिव:सुम्नायनूनमीमहेसखिभ्य: ॥ उपविश्यपरिस्तरणान्युत्तरेविसृजेत् ॥ परिसमूहनपर्यक्षुणेकृत्वा विश्वानिनइत्यग्निंगंधादिभिश्चपूजयित्वा ॥ ॐ अग्निस्तुविश्रवस्तमंतुविब्रह्माणमुत्तमम् । अतूर्तश्रावयत्पतिंपुत्रंददातिदाशुषे ॥ अग्निर्ददातिसत्पतिंसासाहयोयुधानृभि: । अग्निरत्यंरघुष्यदंजेतारमपराजितं ॥ अग्नयेनम: मंत्रपुष्पंसमर्पयामि । मानस्तोकइत्यस्यकुत्सोरुद्रोजगती विभूतिग्रहणेविनियोग: ॥ ॐ मानस्तोकेतन्येमान आयौमानोगोषुमानोअश्वेषुरीरिष: । वीरान्मानोरुद्रभामितोवधीर्हविष्मंत:सदमित्त्वाहवामहे ॥ त्र्यायुषंजमदग्नेरिति ललाटे । कश्यपस्यस्त्र्यायुषं कंठे । अगस्त्यस्यत्र्यायुषं नाभौ । यद्देवानांत्र्यायुषं दक्षिणस्कंधे । तन्मेअस्तुत्र्यायुषंवामस्कंधे । सर्वमस्तुशतायुषं शिरसि । ओंचमेस्वरश्चमेयज्ञोपचतेनश्च । यत्तेन्यूनंतस्मैतउपत्तेतिरिक्तंतस्मैतेनम: । अग्नयेनम: । ॐ स्वस्ति । श्रध्दांमेधांयश:प्रज्ञांविध्यांबुध्दिंश्रियंबलं ॥ आयुष्यंतेजआरोग्यंदेहिमेहव्यवाहन ॥ देहिमेहव्यवाहनोन्नमइति ॥ प्रमादात्कुर्वतांकर्मप्रच्यवेताध्वरेषुयत् ॥ स्मरणादेवतद्विष्णो:संपूर्णंस्यादितिश्रुति: ॥ प्रायश्चित्तान्यशेषाणितप:कर्मात्मकानिवै ॥ यानितेषामशेषाणांकृष्णानुस्मरणंपरं ॥ यस्यस्मृत्याचनामोक्तयातपोयज्ञक्रियादिषु ॥ न्यूनंसंपूर्णतांयातिसध्योवंदेतमच्युतं ॥ अनेनउत्सर्जनहोमाख्येनकर्मणाभगवान् श्रीपरमेश्वर:प्रीयतांनमम ॥ ॐ तत्सद्ब्रह्मार्पणमस्तु ॥ N/A References : N/A Last Updated : July 25, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP