संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः|
अथोपाककर्मप्रयोग

ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथोपाककर्मप्रयोग

ऋग्वेदीयब्रह्मकर्मसमुच्चयः


श्री: ॥ आचम्यप्राणानायम्यदेशकालौसंकीर्त्य । ममाध्याप्यानांचाधीतामध्येष्णमाणानांच
छंदसांयातयामतानिरासेनाप्यायनद्वाराश्रीपरमेश्वरप्रीत्यर्थंएभिर्ब्राह्मणै:सहउपाकर्माख्यंकर्मकरिष्ये इति संकल्प्य । तदंगंगणपतिंपूजयित्वास्मृत्वास्मृत्वावातत: स्थंडिलादिसर्वं
कर्मकरिष्ये । स्थंडिलोपलेनाध्यानांतंकृत्वान्वादध्यात् । क्रियमाणेउपाकर्महोमेदेवतापरिग्र
हार्थमन्वाधानं करिष्ये । असिन्नन्वाहितेग्नावित्यादिचक्षुषीआज्येनेत्यंतमुक्त्वा अत्रप्रधा
नं सावित्रीं ब्रह्माणंश्रध्दां मेधां प्रज्ञां धारणा सदसस्पतिंअनुमतिं छंदांस्यृषीन् एता:प्रधानदेवता: आज्येन ॥
पुनरत्रप्रधानं अग्निं अप्तृणसूर्यान् अग्निं शकुंतं अग्निं मित्रावरुणौ अग्निं अप: अग्निं मरुत:अग्निं विश्वादेवान् अग्निं इंद्रासोमौ इंद्रं अग्नामरुत: पवमानसोमं पवमानसोमं अग्निं संज्ञानं एता: प्रधानदेवता: दधिसक्तुद्रव्येणशेषेणस्विष्टकृतमग्निमिध्मसन्नहनेन
रुद्रं यज्ञोपवीतेनपरमात्मानं अयासग्निंदेवान्विष्णुं० सध्योयक्ष्ये । पात्रासादनेदधिसक्तुस
स्थालीप्रोक्षण्यौइत्यादिदधिसक्तुनासहाज्यंत्रि:पर्यग्निकृत्वा चक्षुष्यंतेन्वाधानोक्तसावित्र्या
दिनवभिर्मंत्रैराज्यंहुत्वाअत्रपंचावत्तिनस्तिष्ठंत: ॐ प्रसूतोभक्षमकरंचरावपिस्तोमंचेमंप्रथम:
सूरिरुन्मृजे ॥
सुतेसातेनयध्यागमंवांप्रतिविश्वामित्रजमदग्नीदमे ॥ इतिमंत्रंपठेयु: ॥
पंचावत्तीतुदर्व्यामुपस्तीर्यमध्यात्पूर्वात्पश्चार्धाच्चत्रिर्हविषोवदायाभिघार्यजुहुयात् ॥
अग्निमीळेवैश्वामित्रोमधुच्छंदाअग्निर्गायत्री ॥ उपाकर्मप्रधानदधिसक्तुहोमेविनियोग: ॥
ॐ अग्निमीळेपुरोहितंयज्ञस्यदेवमृत्विजं ॥ होतारंरत्नधातमंस्वाहा ॥ अग्नयइदं० ॥
कुषुंभकस्तदगस्त्योप्तृणसूर्याअनुष्टुप् ॥ उपाकर्मप्र० ॥ ॐ कुषुंभकस्तदब्रवीद्गिरे:प्रवर्त
मानक: ॥ वृश्चिकस्यारसंविषमरसंवृश्चिकतेविषंस्वाहा ॥ अतृप्तणसूर्येभ्याइ० ॥
त्वमग्नेध्युभिरित्यस्यशौनकोगृत्समदोऽग्निर्जगती ॥ उपाकर्म० ॥ ॐ त्वमग्नेध्युभिस्त्व
माशुशुक्षणिस्त्वमभ्ध्यस्त्वमश्मनस्परि ॥ त्वंनेभ्यस्त्वमोषधीभ्यस्त्वंनृणांनृपतेजायसेशु
चि:स्वाहा ॥ अग्नयइ० ॥ आवदन्छौनकोगृत्समद:शकुंतोजगती ॥ उपाकर्म० ॥ ॐ आवदंस्त्वंशकुनेभद्रमावदतूष्णीमासीन:सुमतिंचिकिध्दिन: ॥ यदुत्पतन्वदसिकर्करिर्यथाबृह
द्वदेमविदथेसवीरा:स्वाहा ॥ शकुंतायेदं० ॥ सोमस्यमागाथिनोविश्वामित्रोग्निस्त्रिष्टुप् ॥
उपाकर्मप्रधान० ॥ ॐ सोमस्यमातवसंवक्ष्यग्रेवन्हिंचकर्थविदथेजयजध्यै ॥ देवाँअच्छादी
ध्यध्युंजेअद्रिंशमायेअग्नेतन्वंजुषस्वस्वाहा ॥ अग्नयइदं० ॥ गृणानाभार्गवोजमदग्निर्मित्रा
वरुणौगायत्री ॥ उपाकर्म० ॥ ॐ गृणानाजमदग्निनायोवृतस्यसीदतं ॥ पातंसोममृतावृधा
स्वाहा ॥ मित्रावरुणाभ्यामिदं० ॥ त्वांह्यग्नेगौतमोवामदेवोऽग्निरष्टि: ॥ उपाकर्म० ॥
ॐ त्वांह्यग्नेसदमित्समन्यवोदेवासोदेवमरतिंन्येरिरइतिक्रत्वान्येरिरे । अमर्त्यंयजमतम
र्त्येष्वादेवमादेवंजनतप्रचेतसंविश्वमादेवंजनतप्रचेतसंस्वाहा ॥ अग्नयइदं० ॥ धामंतेगौत
मोवामदेवआपोजगती ॥ उपाकर्म० ॥ ॐ धामंतेविश्वंभुवनमधिश्रितमंत:समुद्रेहृध्यं१तरा
युषि ॥ अपामनीकेसमिथेयआभृतस्तमश्याममधुमंतंतऊर्मिस्वाहा ॥ अभ्ध्यइदं० ॥ अबोध्यात्रेयौबुधगविष्ठिरावग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥ ॐ अबोध्यग्नि:समिधाजनानां
प्रतिधेनुमिवायतीमुषासं ॥ यव्हाइवप्रवयामुज्जिहाना:प्रभानव:सिस्त्रतेनाकमच्छस्वाहा ॥
अग्नयइदं० ॥ गंतानआत्रेयएवयामरुन्मरुतोतिजगती ॥ उपाकर्म० ॥ ॐ गंतानोयज्ञंज्ञि
या: सुशमिश्रोताहवमरक्षएवयामरुत् ॥ ज्येष्ठासोनपर्वतासोव्योमनियूयंतस्यप्रचेतस: स्यातदुर्धर्तवोनिद:स्वाहा ॥ मरुभ्ध्यइदं० ॥
त्वंह्यग्नेबार्हस्पत्योभारद्वाजोऽग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥ ॐ त्वंह्यग्नेप्रथमोमनोता
स्याधियोअभवोअभवोदस्महोता ॥ त्वंसींवृषन्नकृणोर्दुष्टरीतुसहोविश्वस्मैसहसेसहध्यैस्वा
हा ॥ अग्नयइदं० ॥
योन:स्व:पायुर्भारद्वाजोविश्वेदेवाअनुष्टुप् ॥ उपाकर्म० ॥ ॐ योन:स्वोअरणोयश्चनिष्टयो
जिघांसति ॥ देवास्तंसर्वेधूर्वंतुब्रह्मवर्मममांतरंस्वाहा ॥ विश्वेभ्योदेवेभ्यइ० ॥ अग्निंनरो
मैत्रावरुणिर्वसिष्ठोग्निर्विराट्‍ ॥ उपाकर्म० ॥ ॐ अग्निंनरोदीधितिभिरण्योर्हस्तच्युतीजन
यंतप्रशस्तं  ॥ दूरेदृशंगृपतिमथर्युंस्वाहा ॥ अग्नयइ० ॥ प्रतिचक्ष्वमैत्रावरूणिर्वसिष्ठइंद्रा
सोमावनुष्टुप् ॥ उपाक० ॥
ॐ प्रतिचक्ष्वविचक्ष्वेंद्रश्चसोमजागृतं ॥ रक्षोभ्योवधमस्त्यतमशनिंयातुभ्ध्य:स्वाहा ॥ इंद्रासोमाभ्यामिदं० ॥ माचित्काण्व:प्रगाथइंद्रोबृहती ॥ उपाकर्म० ॥ ॐ माचिदन्यद्विशं
सतसखायोमारिषण्यत ॥ इंद्रमित्स्तोतावृषणंसचासुतेमुहुरुक्थाचशंसतस्वाहा ॥ इंद्राये० ॥
आग्नेयाहिसौभरिरग्नामरुतोऽनुष्टुप् ॥ उपाक० ॥ ॐ आग्नेयाहिमरुत्सखारुद्रेभि:सोमपी
तये ॥ सोभर्याऽउपसुष्ठुतिंमादयस्वस्वर्णरेस्वाहा ॥ अग्नामरुभ्ध्यइदं० ॥ स्वादिष्ठयाम
धुच्छंदा:पवमान:सोमोगायत्री ॥ उपाकर्म० ॥
ॐ स्वादिष्ठयामदिष्ठयापवस्वसोमधारया ॥ इंद्रायपातवेस्तु:स्वाहा ॥ पवमानायसोमाये
दं० ॥ यत्तेराजन्मारीच:कश्यप:पवमान:सोम:पंक्ति: ॥ उपाकर्म० ॥ ॐ यत्तेराजन्छृतंहवि
स्तेनसोमाभिरक्षन: ॥ अरातीवामानस्तारीन्मोचन:किंचनामंमदिंद्रार्येदोपरिस्त्रवस्वाहा ॥
पवमानायसोमायेदं० ॥ अग्रेबृहन्नाप्त्यस्त्रितोऽग्निस्त्रिष्टुप् ॥ उपाकर्म० ॥
ॐ अग्रेबृहन्नुषसामूर्ध्वोअस्थान्निर्जगन्वान्तमसोज्योतिषागात् ॥ अग्निर्भानुनारुशतास्वं
गआजातोविश्वासब्ध्यान्यप्रा:स्वाहा ॥ अग्नयइदं० ॥
समानीवइत्यस्यांगिरस:संवनन:संज्ञानमनुष्टुप् ॥ उपाक० ॥ ॐ समानीवआकूति:समाना
हृदयानिव: ॥ समानमस्तुवोमनोयथाव:सुसहासतिस्वाहा ॥ संज्ञानायेदं० ॥ तत:स्विष्टकृ
तंहुत्वारज्जुंप्रहृत्य दधिसुक्तप्राश्नीयु: ॥ दधिक्राव्णोवामदेवोदधिक्रावानुष्टुप् दधिसक्तुप्रा
नेविनियोग: ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: । सुरभिनोमुखाकरत्प्रणा
आयुंषितारिषत्स्वाहा ॥ प्राश्यआचम्यमार्जयेत् ॥ उत्तरपरिस्तरणदर्भाणामध: अंजलिंकृत्वान्येनअपआसेचयतेतन्मार्जनम् ॥ यज्ञोपवीतमितिमंत्रस्यपरब्रह्मपरमात्मात्रि
ष्टुप् यज्ञोपवीतहवनेविनियोग: ॥ ॐ यज्ञोपवीतंपरमंपवित्रंप्रजापतेर्यत्सहजंपुरस्तात् ।
आयुष्यमग्र्यंप्रतिमुंचशुभ्रंयज्ञोपवीतंबलमस्तुतेज:स्वाहा । परमात्मान इदंनमम इतिहुत्वा ॥ तत:सदक्षिणानियज्ञोपवीतानियथाशक्तिब्राह्मणेभ्योदत्त्वास्वयंधारयेत् ॥
अन्येसर्वेपिस्वस्वधार्ययज्ञोपवीतानिपृथगभिमंत्र्यधारयेयु: ॥

N/A

References : N/A
Last Updated : July 27, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP