संस्कृत सूची|पूजा विधीः|अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः| अथदेवपूजाप्रारंभ: अथ ऋग्वेदीयब्रह्मकर्मसमुच्चयः रंगरंजितमंडलानि आन्हिकाचारप्रकरणम् अथसंस्कारप्रकरणम् व्रतोदयानादिमिश्रप्रकरणम् और्ध्वदेहिकादिप्रकरणम् ऋग्वेदीयब्रह्मकर्मसमुच्चयः अथग्रंथप्रशस्ति मंत्राणामकारादिवर्णक्रम: त्रुटी अथदेवपूजाप्रारंभ: अथपुरुषसूक्तम् अथदेवपूजाप्रारंभ: अथदिनद्वितीयतृतीयभागकृत्यम् अथमध्यान्हस्नानम् अथ मध्यान्हसंध्या अथब्रह्मयज्ञ: अथवैश्वदेवप्रयोग: अथभूतयज्ञ: अथपितृयज्ञ: अथमनुष्ययज्ञ: गोपूजनंब्राह्मणपूजनंच अथसायंसंध्याप्रारंभ: अथरात्रिकर्तव्यानि आसनविधिर्भूशुध्दि: अथभूतशुध्दि: अथप्राणप्रतिष्ठा अथांतर्मातृकान्यास: अथबहिर्मातृकान्यास: अथपवनपावनम् अथमहान्यास: अथलघुन्यासप्रारंभ: अथरुद्राध्याय: अथविष्णुसूक्तानि अथरुद्रसूक्तम् अथमन्युसूक्तम् अथगणपत्यथर्वशीर्षम् अथशिवाथर्वशीर्षम् अथसूर्याथर्वशीर्षम् अथदेव्यथर्वशीर्षम् अथसुवर्णघर्मानुवाक: अथइंद्रियवेतिखंडद्वयम् अथमहापुरुषविध्या अथदेवेप्रारंभ अथपवमानपंचसूक्तसर्वानुक्रम: अथपवमानप्रारंभ: नतमंहोनसूक्तम् इतिवाइतिसूक्तम् अस्यस्वामीयसूक्तम् अथपंचगव्यमेलनम् अथउत्सर्जनप्रयोगः अस्यस्वामीयसूक्तम् अथऋषिपूजनम् अथऋष्यादितर्पणम् अथोपाककर्मप्रयोग यज्ञोपवीताभिमंत्रणम् अथनूतनब्रह्मचारिश्रावणी अथसभादीपदानम् अथशांतिसूक्तानि अथपर्जन्यसूक्तानि ऋग्वेदीयब्रह्मकर्मसमुच्चयः - अथदेवपूजाप्रारंभ: ऋग्वेदीयब्रह्मकर्मसमुच्चयः Tags : brahmaRugvedsanskritॠग्वेदब्रह्मसंस्कृत अथदेवपूजाप्रारंभ: Translation - भाषांतर श्रीगणेशायनम: ॥ ॥ आचम्यप्राणायामंकृत्वा ॥ श्रीमहान्महागणधिपतयेनम: ॥ लक्ष्मीनारायणाभ्यांनम: ॥ उमामहेश्वराभ्यांनम: ॥ वाणीहिरण्यगर्भाभ्यांनम: ॥शचीपुरंदराभ्यांनम: ॥ मातापितृभ्यांनम: ॥ इष्टदेवताभ्योनम: ॥ कुलदेवताभ्योनम: ॥ग्रामदेवताभ्योनम: ॥ स्थानदेवताभ्योनम: ॥ वास्तुदेवताभ्योनम: ॥ आदित्यादिनवग्रहदेवताभ्योनम: ॥ सर्वेभ्योदेवेभ्योनम: ॥ सर्वेभ्योब्राह्मणेभ्योनमोनम: ॥ एतत्कर्मप्रधानदेवताभ्योनम: ॥ अविघ्नमस्तु ॥ सुमुखश्चैकदंतश्चकपिलोगजकर्णक: ॥ लंबोदरश्चविकटोविघ्ननाशोगणाधिप: ॥ धूम्रकेतुर्गणाध्यक्षोभालचंद्रोगजानन: ॥ द्वादशैतानानिनामानिय:पठेच्छृणुयादपि ॥ विदयारंभेविवाहेचप्रवेशेनिर्गमेतथा ॥ संग्रामेसंकटेचैवाविघ्नस्तस्यनजायते ॥ शुक्लांबरधरंदेवंशशिवर्णचतुर्भुजम् ॥ प्रसन्नवदनंध्यायेत्सर्वविघ्नोपशांतये ॥ सर्वमंगलमांगल्येशिवेसर्वार्थसाधिके ॥ शरण्येत्र्य़ंबकेगौरिनारायणिनमोऽस्तुस्ते ॥ सर्वदासर्वकार्येषुनास्तितेषाममंगलम् ॥ येषांहृदिस्थोभगवान्मंगलायतनंहरि: ॥ तदेवलग्नंसुदिनंतदेवताराबलंचंद्रबलंतदेव ॥ विदयाबलंदैववबलंतदेवलक्ष्मीपतेतेंऽघ्रियुगंस्मरामि ॥ लाभस्तेषांजयस्तेषांकुतस्तेषांपराजय: ॥ येषामिंदीवरश्यामोहृदयस्थोजनार्दन: ॥विनायकंगुरुंभानुंब्रह्मविष्णुमहेश्वरान् ॥ सरस्वतींप्रणौम्यादौसर्वकार्थसिध्दये ॥ अभीसिप्तार्थसिध्दयर्थंपूजितोय:सुरासुरै: ॥ सर्वविघ्नहरस्तस्मैगणाधिपतयेनम: ॥ सर्वेष्वारब्धकार्येषुयस्त्रिभुवनेश्वरा: ॥ देवादिशंतुन:सिध्दिंब्रह्मेशानजनार्दना: ॥ श्रीमद्भगवतोमहापुरुषस्यविष्णोराज्ञयाप्रवर्तमानस्यब्रह्मणोद्वितीयेपरार्धेविष्णुपदेश्रीश्वेतवाराहकल्पेवैवस्वतमन्वंतरेअष्टाविंशतितमेयुगचतुष्केकलियुगेप्रथमचरणेजंबुद्वीपेभरतवर्षेदक्षिणापथेरामक्षेत्रेबौध्दावतारेदंडकारण्येदेशेशालिवाहनशकेसंधौवर्तमानेगोदावर्या:दक्षिणेतीरे (वोत्तरेतीरे)वर्तमानव्यावहारिकेअमुकनामसंवत्सरेअमुकायनेअमुकर्तौअमुकमासेअमुकपक्षेअमुकतिथौअमुकवासरेअमुकदिवसनक्षत्रेयोगेकरणेअमुकस्थितेवर्तमानेचंद्रेअमुकस्थितेश्रीसूर्येअमुकस्थितेदेवगुरौ शेषेषुग्रहेषुयथायथंराशिस्थानस्थितेषुसत्सुशुभनामयोगेशुभकरणेएवंगुणविशेषेणविशिष्टायांशुभपुण्यतिथौममात्मन:श्रुतिस्मृतिपुराणोक्तफलप्रात्यर्थं अस्माकंसकुटुबांनांसपरिवाराणां (द्विपचतुष्पदसहितानां) क्षेमस्थैर्यायुरारोग्यैश्वर्याभिवृध्दयर्थंसमस्ताभ्युदयार्थंचश्रीअमुकदेवताप्रीत्यर्थंयथामीलितोपचारद्रव्यै: ध्यानावाहनादिषोडशोपचारपूजांकरिष्ये ॥ आसनादिविधिं शरीरशुध्द्यर्थंपुरुषसूक्तन्यासंपंचांगन्यासंकलशशंखघंटादिपूजनंचकरिष्ये ॥ आदौनिर्विघ्नता सिध्दयर्थंमहागणपतिस्मरणंचकरिष्ये ॥ गणानांत्वाशौनकोगृत्समदोगणपतिर्जगती ॥ गणपतिस्मरणेविनियोग: ॥ ॐ गणानांत्वागणपतिंहवामहेकविंकवीनामुपमश्रवस्तमं ॥ ज्येष्ठराजंब्रह्मणांब्रह्मणस्पतआन:शृण्वन्नूतिभि:सीदसादनं ॥ वक्रतुंडमहाकायसूर्यकोटिसमप्रभ ॥ निर्विघ्नंकुरुमेदेवसर्वकार्येषुसर्वदा ॥ ॐ महागणाधिपतयेनमोनम: ॥ आसनविधि: ॥ पृथ्वीतिमंत्रस्य । मेरुपृष्ठऋषि: । कूर्मोदेवता । सुतलंछंद: । आसनेविनियोग: ॥ ॐ पृथ्वित्वयाधृतालोकादेवित्वंविष्णुनाधृता ॥ त्वंचधारयमांदेविपवित्रंकुरुचासनम् ॥ अपसर्वंतुवामदेवोभूतान्यष्टुप् । भूतोत्सादनेविनियोग: ॥ ॐ अपसर्पंतुतेभूतायेभूताभूमिसंस्थिता: ॥ येभूताविघ्नकर्तारस्तेगच्छंतुशिवाज्ञया ॥ अपक्रामंतुभूतानिपिशाचा:सर्वतोदिशम् ॥ सर्वेषामवरोधेनपूजाकर्मसमारभे ॥ तीक्ष्णदंष्ट्रमहाकायकल्पांतदहनोपम ॥ भैरवायनमस्तुभ्यमनुज्ञांदातुमर्हसि ॥ इतिभैरवंनमस्कृत्य ॥ वामपादतलपार्श्वेनभूमिंत्रि:प्रहृत्य ॥ देवाआयांतु ॥ यातुधानाअपयांतु ॥ विष्णोदेवयजनंरक्षस्व ॥ भूमौप्रादेशंकुर्यात् ॥ येभ्योमातेत्यस्यगय:प्लातोविश्वेदेवाजगती ॥ मनुष्यगंधनिवारणेविनियोग: ॥ एवापित्रइत्यस्यवामदेवोबृहस्पतिर्विश्वेदेवास्त्रिष्टुप् ॥ मनुष्यगंधनिवारणेविनियोग: ॥ ॐ येभ्योमातामधुत्पितन्वतेपय:पीयूषंदयोरदितिरद्रिबर्हा: ॥ उक्थशुष्मान्वृषभरान्स्त्स्वप्नसस्ताँआदित्याँअनुमदास्वस्तये ॥ ॐ एवापित्रेविश्वदेवायवृष्णेयज्ञैर्विधेमनमसाहविर्भि: ॥ बृहस्पतेसुप्रजावीरवंतोवयंस्यामपतयोरयीणाम् ॥ सहस्त्रेशीर्षाषोळशनारायण:पुरुषोऽनुष्टुबंत्यात्रिष्टुप् ॥ स्वांगन्यासेविनियोग: ॥ ॐ सहस्त्रशीर्षापुरुष:सहस्त्राक्ष:सहस्त्रपात् ॥ सभूमिंविश्वतोवृत्वात्यतिष्ठदृशांगुलं ॥ वामकरायनम: ॥ ॐ पुरुषएवेदंसर्वंयद्भुतंयच्चभव्यं ॥ उतामृतत्वस्येशशानोयदन्नेनातिरोहति ॥ दक्षिणकरायनम: ॥ ॐ एतावानस्यमहिमातोज्यायांश्चपूरुष: ॥पादोस्यविश्वाभूतानित्रिपादस्यामृतंदिवि ॥ वामपादायनम: ॥ ॐ त्रिपादूर्ध्वऽउदैत्पुरुष:पादोस्येहाभवत्पुन: ॥ ततोविष्वड्व्यक्रामत्साशनानशनेअभि ॥ दक्षिणपादायनम: ॥ ॐतस्माद्विराळजायतविराजोऽअधिपूरुष: ॥ सजातोऽअत्यरिच्यतपश्चाभ्दूमिमथोपुर: ॥वामजानवेनम: ॥ ॐ यत्पुरुषेणहविषादेवायज्ञमतमन्वत ॥ वसंतोऽअस्यासीदाज्यंग्रीष्मइध्म:शरध्दवि: ॥ दक्षिणजानवेनम: ॥ ॐ तंयज्ञंबर्हिषिप्रौक्षन्पुरुषंजातमग्रत: ॥ तेनदेवाऽअयजंतसाध्याऋषयश्चये ॥ वामकटयैनम: ॥ ॐ तस्माध्यज्ञात्सर्वहुत:संभृतंपृषदाज्यं ॥ पशून्तांश्चक्रेवायव्यानारण्यान्ग्राम्याश्चये ॥ दक्षिणकटयैनम: ॥ ॐ तस्माध्यज्ञात्सर्वहु तऋच:सामानिजज्ञिरे ॥ छंदांसिजज्ञिरेतस्माध्यजुस्तस्मादजायत ॥ नाभ्यैनम: ॥ ॐतस्मादश्वाअजायंतयेकेचोभयादत: ॥ गावोहजज्ञिरेतस्मात्तस्माज्जाताऽअजावय: ॥ हृदयायनम: ॥ ॐ यत्पुरुषंव्यदधु:कतिधाव्यकल्पयन् ॥ मुखंकिमस्यकौबाहूकाऊरुपादाउच्येते ॥ कंठायनम: ॥ ॐ ब्राह्मणोस्यमुखमसीद्वाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य: पभ्ध्यांशूद्रोऽअजायत ॥ वामभुजायनम: ॥ ॐ चंद्रमामनसोजातश्चक्षो:सूर्योऽअजायत ॥ मुखादिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ दक्षिणभुजायनम: ॥ ॐ नाभ्याऽआसीदंतरिक्षंशीर्ष्णोध्यौ:समवर्तत ॥ पभ्ध्यांभूमिर्दिश:श्रोत्रात्तथालोकाँऽअकल्पयन् ॥ मुखायनम: ॥ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतन्वानाऽअब्रध्नन्पुरुषंपशुं ॥ नेत्राभ्यांनम: ॥ ॐ यज्ञेनयज्ञमयजंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतत्रपूर्वेसाध्या:संतिदेवा: ॥ मूर्ध्रेनम: ॥ पंचांगन्यास: ॥ ॐ ब्राह्मणोस्यमुखमासीब्दाहूराजन्य:कृत: ॥ ऊरुतदस्ययद्वैश्य:पभ्दयांशूद्रोऽअजायत ॥ हृदये ॥ ॐ चंद्रमामनसोजातश्चक्षो: सूर्योऽअजायत ॥ मुखदिंद्रश्चाग्निश्चप्राणाद्वायुरजायत ॥ शिरसि ॥ ॐ नाभ्याऽआसीदंतरिक्षंशीर्ष्णोदयौ:समवर्तत ॥ पभ्दयांभूमिर्दिश:श्रोत्रात्तथालोकाँऽअकल्पयन् ॥ शिखायां ॥ ॐ सप्तास्यासन्परिधयस्त्रि:सप्तसमिध:कृता: ॥ देवायध्यज्ञंतत्वानाऽअबध्नन्पुरुषंपशुं ॥ कवचायहुं ॥ ॐ यज्ञेनयज्ञमजयंतदेवास्तानिधर्माणिप्रथमान्यासन् ॥ तेहनाकंमहिमान:सचंतयत्रपूर्वेसाध्या:संतिदेवा: ॥ अस्त्रायफट् ॥ इतिदिग्बंध: ॥ कलशस्यमुखेविष्णु:कंठेरुद्र:समाश्रित: ॥ मूलेतत्रस्थितोब्रह्मामध्येमातृगणा:स्मृता: ॥ कुक्षौतुसागरा:सर्वेसप्तद्वीपावसुंधरा ॥ ऋग्वेदोऽथयजुर्वेद:सामवेदोह्यथर्वण: ॥ अंगैश्चसहिता:सर्वेकलशांबुसमाश्रिता: ॥ अत्रगायत्रीसावित्रीशांति:पुष्टिकरीतथा ॥ आयांतुदेवपूजार्थदुरितक्षयकारिका: ॥ गंगेचयमुनेचैवगोदावरिसरस्वति ॥ नर्मदेसिंधोकावेरिजलेऽस्मिन्सन्निधिंकुरु ॥ कलशेगंगादितीर्थान्यावाहयामि ॥ कलशदेवताभ्योनम:सर्वोपचारार्थेगंधाक्षतपुष्पंसमर्पयामि ॥ धेनुमुद्रांप्रदर्श्य ॥ प्रक्षालितंशंखंप्रणवेनापूर्य ॥ ॐ शंखादौचंद्रदैवत्यंकुक्षौवरुणदेवता ॥ पृष्ठेप्रजापतिंविदयादग्रेगंगासरस्वती ॥ त्रैलोक्येयानितीर्थानिवासुदेवस्यचाज्ञया ॥ शंखेतिष्ठंतिविप्रेंद्रतस्माच्छंखंप्रपूजयेत् ॥ त्वंपुरासागरोत्पन्नोविष्णुनाविधृत:करे ॥ नमित:सर्वदेवैश्चपांचजन्यनमोस्तुते ॥ ॐ पांचजन्यायविद्महेपावमानायधीमहि ॥ तन्न:शंखप्रचोदयात् ॥ शंखदेवताभ्योनम:सर्वोचपचारार्थेचंदनंपुष्पंसमर्पयामि ॥शंखमुद्रांप्रदर्श्य ॥ आगमार्थंतुदेवानांगमनार्थंतुरक्षसाम् ॥ कुर्वेघंटारवंतत्रदेवताह्वानलक्षणम् ॥ घंटायैनम:सर्वोपचारार्थेगंधाक्षतपुष्पंसमर्पयामि ॥ ॐ दिवेदिवेसदृशीरन्यमर्धकृष्णाअसेधपसद्मनोजा: ॥ अहंदासावृषभोवस्त्रययंतोदव्रजेवर्तिनंशंबरंच ॥ दीपदेवताभ्यो० गंधाक्षतपुष्पंसमर्पयामि ॥ कलशशंखोदकेन ॥ अपवित्र:पवित्रोवासर्वावस्थांगतोऽपिवा ॥य:स्मरेत्पुंडरीकाक्षंसबाह्याभ्यंतरंशुचि: ॥ इत्यात्मानंप्रोक्ष्यपूजाद्रव्याणिचसंप्रोक्षेत् अथध्यानम् ॥ अंजलौपुष्पंगृहीत्वा ॥ शाताकारंभुजगशयनंपद्मनाभंसुरेशंविश्वाधारंगगनसदृशंमेघवर्णंशुभांगम् ॥ लक्ष्मीकांतंकमलनयनंयोगिभिर्ध्यानगम्यंवंदेविष्णुंभवभयहरंसर्वलोकैनाथम् ॥१॥ध्यायेन्नित्यंमहेशंरजतगिरिनिभंचारुचंद्रावतंसंरत्नाकल्पोज्ज्वलांगंपरशुमृगवराभीतिहस्तंप्रसन्नम् ॥ पद्मासीनंसमंतात्स्तुतमरगणैर्व्याघ्रकृत्तिंवसानंविश्वाध्यंविश्ववंध्यंनिखिलभयहरंपंचवक्रंत्रिनेत्रम् ॥ गजवदनमचिंत्यंतीक्ष्णदंष्ट्रंत्रिनेत्रंबृहदुदरमशेषंभूतिराजंपुराणं ॥अमरवरसुपूज्यंरक्तवर्णंसुरेशंपशुपतिसुतमीशंविघ्नराजंनमामि ॥३॥सशंखचक्रंरविमंडलेस्थितंकुशेशयाक्रांतमनंतमच्युतं ॥ भजामिबुध्यातपनीयमूर्तिंसुरोत्तमंचित्रविभूषणोज्जवलम् ॥४॥विध्युद्दामसमप्रभांमृगपतिस्कंधस्थितांभीषणांकन्याभि:करवालखेटविलसध्दस्ताभिरासेविताम् ॥ हस्तैश्चक्रदरालिखेटविशिखांश्चापंगुणंतर्जनींबिभ्राणामनलात्मिकांशशिधरांदुर्गांत्रिनेत्रांभजे ॥५॥ध्यायामिइतितत्तद्देवताध्यानं ॥ ॐ सहस्त्रशीर्षा० आगच्छदेवदेवेशतेजोराशेजगत्पते ॥क्रियामाणांमयापूजांगृहाणसुरसत्तम् ॥ श्रीअमुकदेवताभ्योनम: ॥ आवाहनार्थेपुष्पांजलिंसमर्पयामि ॥ ॐ पुरुषएवेदं- नानारत्नसमायुक्तंकार्तस्वरविभूषितम् ॥ आसनंदेवदेवेशप्रीत्यर्थंप्रतिगृह्यताम् ॥ श्रीअ० आस० तुलसीपत्रंस० ॥ ॐ एतावानस्य० पादयंगृहाणदेवेशसर्वक्षेमसमर्थभो ॥ भक्त्यासमर्पितंदेवलोकनाथनमोऽस्तुते ॥ श्रीअ० आस० तुलसीपत्रंस० ॥ ॐ त्रिपादूर्ध्वौउदै० नमस्तेदेवदेवेशनमस्तेधरणीधर ॥ नमस्तेजगदाधारार्ध्यंन:प्रतिगृह्यताम् ॥ श्रीअ० अर्ध्यंस० ॥ ॐ तस्माद्विराळ० कर्पूरवासितंतोयंमंदाकिन्या:समाहृतम् ॥ आचम्यतांजगनाथमयदत्तंहिभक्तित: ॥ श्रीअ० आचमनीयंसम० ॐ यत्पुरुषेणहविषा० गंगासरस्वतीरेवापयोष्णीनर्मदाजलै: ॥ स्नापितोऽसिमयादेवतथाशांतिंकुरुष्वमे ॥ श्रीअ० स्नानीयंस० ॥ पंचामृतै:स्नपयिष्ये ॥ ॐ आप्यायस्वसमेतुतेविश्वतं:सोमवृष्ण्यं ॥ भावावाजस्यसंगथे ॥ कामधेनो:समुद्भूतंदेवर्षिपितृतृप्तिदम् ॥ पयोददामिदेवेशस्त्रानार्थंप्रतिगृह्यताम् ॥ श्रीअ० स्नानार्थेपय:स्नानंस० ॥ पय:स्नानानंतरंशुध्दोदकस्नानंस० शुध्दोदकस्नानानंतरमाचमनीयं समर्पयामि ॥ सकलपूजार्थेगंधाक्षतपुष्पाणिस० ॥ ॐ दधिक्राव्णोअकारिषंजिष्णोरश्वस्यवाजिन: ॥सुरभिनोमुखाकरत्प्रणाआयूंषितारिषत् ॥ चंद्रमंडलसंकाशंसर्वदेवप्रियंदधि ॥ स्नानार्थंतेमयादत्तंप्रीत्यर्थंप्रतिगृह्यताम् ॥ श्रीअ० दधिस्नानंस० दधि० स० गंधा० ॥ ॐ घृतमिमिक्षेघृतमस्ययोनिर्घृतेश्रितोघृतम्वस्यधाम ॥ अनुष्वधमावहमादयस्वस्वाहाकृतंवृषभवक्षिहव्यं ॥ आज्यंसुराणामाहाराआज्यंयज्ञेप्रतिष्ठितम् ॥ आज्यंपवित्रंपरमंस्नानार्थंप्रतिगृह्यताम् ॥ श्रीअ० घृत० स० गंधा० ॥ ॐ मधुवाताऋतायतेमधुक्षरंतिसंधव: ॥ माध्वीर्न:संत्वोषधी: ॥ मधुनक्तमुतोषसोमधुमत्पार्थिवंरज: ॥ मधुध्यौरस्तुन:पिता ॥ मधुमान्नोवनस्पतिर्मधुमाँअस्तुसूर्य:॥माध्मीर्गावोभवंतुन:॥ सर्वौषधिसमुत्पन्नंपीयूषसदृशंमधु ॥ स्नानार्थंतेप्रयच्छामिगृहाणपरमेश्वर ॥ श्रीअ० मधु० स० गंधा० ॥ ॐ स्वादु:पवस्वदिव्यायजन्मनेस्वादुरिंद्रायसुहवीतुनाम्ने ॥ स्वादुर्मित्रायवरुणायवायवेबृहस्पतयेमधुमाँअदाभ्य: ॥ इक्षुदंडसमुद्भूतदिव्यशर्करयाहरिम् ॥ स्नापयामिसदाभक्त्याप्रीतोभवसुरेश्वर ॥ श्रीअ०शर्करा० स० गंधा० ॥ ॐ गंधद्वारांदुराधर्षांनित्यपुष्टांकरीषिणीम् ॥ ईश्वरीसर्वभूतानांतामिहोपह्वयेश्रियम् ॥ कर्पूरैलासमायुक्तंसुगंधिद्रव्यसंयुतम् ॥ गंधोदकंमयादत्तंस्नानार्थंप्रतिगृह्यताम् ॥ श्रीअ० षष्ठंगंधोदकस्ना० स० ॥ आपोहिष्ठाइतितृचेनशुध्दोदकस्नानंस० ॥ अमुकदे० नम: ॥ विलेपनार्थेचंदनसमर्पयामि ॥ अमु० नम: ॥ नैवेद्यार्थेनानाविधखादयंशर्करांयत्किंचिदन्याद्वासमर्पयामि ॥ ॐ प्राणायस्वाहा ॥ ॐ अपानायस्वाहा ॥ ॐ व्यानायस्वाहा ॥ ॐ उदानायस्वाहा ॥ ॐ समानाय स्वाहा ॥ ॐ ब्रह्मणेस्वाहा ॥ नैवेद्यमध्येप्राशनार्थेपानीयंसमर्पयामि ॥ ॐ प्राणायस्वाहा० ॥ उत्तरापोशनंसमर्पयामि ॥ हस्त प्रक्षालनंसमर्पयामि ॥ मुखप्रक्षालनंसमर्पयामि ॥ करोद्वर्तनार्थेचंदनंसमर्पयामि ॥ मुखवासार्थेपूगीफलंतांबूलंसमर्पयामि ॥ सुवर्णपुष्पदक्षिणांसमर्ययामि ॥ अमुकदेवताभ्योनम: ॥ प्रदक्षिणांनमस्कारंचसमर्पयामि ॥ अनेनयथाज्ञानेन कृतपूर्वाराधनेनअमुकदेवताप्रीयतांनमम ॥ तत्सद्ब्रह्मार्पणमस्तु ॥ उत्तरदिशिनिर्माल्यंविसर्जयेत् ॥ पुरुषसूक्तेनाभिषेकंकुर्यात् ॥ N/A References : N/A Last Updated : July 06, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP