संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ५६ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ५६ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ५६ Translation - भाषांतर अगस्त्य उवाच ।अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् ।येन सद्यो भवेद् धन्य अधन्योऽपि हि यो भवेत् ॥१॥मार्गशीर्षे सिते पक्षे प्रतिपद् या तिथिर्भवेत् ।तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥२॥वैश्वानराय पादौ तु अग्नयेत्युदरं तथा ।हविर्भुंजाय च उरो द्रविणोदेति वै भुजो ॥३॥संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः ।अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥४॥तस्यैव पुरतः कुण्डं कारयित्वा विघानतः ।होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥५॥ततः संयावकं चान्नं भुञ्जीयाद् घृतसंयुतम् ।कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥६॥चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः ।श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥७॥समाप्ते तु व्रते वह्निं काञ्चनं कारयेद् बुधः ।रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥८॥कुङ्कुमेन तथा लिप्य ब्राह्मणं देवदेव च ।सर्वावयवसंपूर्णं ब्राह्मणं प्रियदर्शनम् ॥९॥पूजयित्वा विधानेन रक्तवस्त्रयुगेन च ।पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥१०॥धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् ।धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥११॥एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः ।सद्यो धन्यत्वमाप्नोति योऽपि स्याद् भाग्यवर्जितः ॥१२॥इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् ।अनेन कृतमात्रेण जायते नात्र संशयः ॥१३॥प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह ।दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥१४॥योऽपीदं श्रृणुयान्नित्यं यश्च भक्त्या पठेद् द्विजः ।उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥१५॥श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना ।धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥१६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP