संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७० वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७० 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७० Translation - भाषांतर भद्राश्व उवाच ।भगवन् किं कृतं लोकं त्वया तमनुपश्यता ।व्रतं तपो वा धर्मो वा प्राप्त्यर्थं तस्य वै मुने ॥१॥अनाराध्य हरिं भक्त्या को लोकान् कामयेद् बुधः ।आराधिते हरौ लोकाः सर्वे करतलेऽभवन् ॥२॥एवं संचिन्त्य राजेन्द्र मया विष्णुः सनातनः ।आराधितो वर्षशतं क्रतुभिर्भूरिदक्षिणैः ॥३॥ततः कदाचिद् बहुना कालेन नृपनन्दन ।यजतो मम देवेशं यज्ञमूर्तिं जनार्दनम् ।आहूता आगता देवाः सममेव सवासवाः ॥४॥स्वे स्वे स्थाने स्थिता आसन् यावद् देवाः सवासवाः ।तावत् तत्रैव भगवानागतो वृषभध्वजः ॥५॥महादेवो विरूपाक्षस्त्र्यम्बको नीललोहितः ।सोऽपि रौद्रे स्थितः स्थाने बभूव परमेश्वरः ॥६॥तान् सर्वानागतान् दृष्ट्वा देवानृषिमहोरगान् ।सनत्कुमारो भगवानाजगामाब्जसंभवः ॥७॥त्रसरेणुप्रमाणेन विमाने सूर्यसन्निभे ।अवस्थितो महायोगी भूतभव्यभविष्यवित् ॥८॥आगम्य शिरसा रुद्रं स ववन्दे महामुनिः ।मया प्रणमितस्तस्थौ समीपे शूलपाणिनः ॥९॥तानहं संस्थितान् देवान् नारदादीनृषींस्तथा ।सनत्कुमाररुद्रौ च दृष्ट्वा मे मनसि स्थितम् ॥१०॥क एषां भवते याज्यो वरिष्ठश्च नृपोत्तम ।केन तुष्टेन तुष्टाः स्युः सर्व एते सरुद्रकाः ॥११॥एवं कृत्वा स्थिते राजन् रुद्रः पृष्टो मयाऽनघ ।एवमर्थं क इज्योऽत्र युष्माकं सुरसत्तमाः ॥१२॥एवमुक्ते तदोवाच रुद्रो मां सुरसन्निधौ ॥१३॥रुद्र उवाच ।श्रृण्वन्तु बिबुधाः सर्वे तथा देवर्षयोऽमलाः ।ब्रह्मर्षयश्च विख्याता सर्वे श्रृण्वन्तु मे वचः ।त्वं चागस्त्य महाबुद्धे श्रृणु मे गदतो वचः ॥१४॥यो यज्ञैरीड्यते देवो यस्मात् सर्वमिदं जगत् ।उत्पन्नं सर्वदा यस्मिंल्लीनं भवति सामरम् ॥१५॥नारायणः परो देवः सत्त्वरूपो जनार्दनः ।त्रिधात्मानं स भगवान् ससर्ज परमेश्वरः ॥१६॥रजस्तमोभ्यां युक्तोऽभूद् रजः सत्त्वाधिकं विभुः ।ससर्ज नाभिकमले ब्रह्माणं कमलासनम् ॥१७॥रजसा तमसा युक्तः सोऽपि मां त्वसृजत् प्रभुः ।यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् ॥१८॥ये सत्त्वरजसी सोऽपि ब्रह्मा कमलसंभवः ।यो ब्रह्मा सैव देवस्तु यो देवः सः चतुर्मुखः ।यद्रजस्तमसोपेतं सोऽहं नास्त्यत्र संशयः ॥१९॥सत्त्वं रजस्तमश्चैव त्रितयं चैतदुच्यते ।सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ॥२०॥रजसा सत्त्वयुक्तेन भवेत् सृष्टी रजोऽधिका ।तच्च पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते ॥२१॥यद्वेदबाह्यं कर्म स्याच्छास्त्रमुद्दिश्य सेव्यते ।तद्रौद्रमिति विख्यातं कनिष्ठं गदितं नृणाम् ॥२२॥यद्धीनं रजसा कर्म केवलं तामसं तु यत् ।तद् दुर्गतिपरं नॄणामिह लोके परत्र च ॥२३॥सत्त्वेन मुच्यते जन्तुः सत्त्वं नारायणात्मकम् ।नारायणश्च भगवान् यज्ञरूपी विभाव्यते ॥२४॥कृते नारायणः शुद्धः सूक्ष्ममूर्तिरुपास्यते ।त्रेतायां यज्ञरूपेण पञ्चरात्रैस्तु द्वापरे ॥२५॥कलौ मत्कृतमार्गेण बहुरूपेण तामसैः ।इज्यते द्वेषबुद्ध्या स परमात्मा जनार्दनः ॥२६॥न तस्मात् परतो देवो भविता न भविष्यति ।यो विष्णुः स स्वयं ब्रह्मा यो ब्रह्मा सोऽहमेव च ॥२७॥वेदत्रयेऽपि यज्ञेऽस्मिन् याज्यं वेदेषु निश्चयः ।यो भेदं कुरुतेऽस्माकं त्रयाणां द्विजसत्तम ।स पापकारी दुष्टात्मा दुर्गतिं गतिमाप्नुयात् ॥२८॥इदं च श्रृणु मेऽगस्त्य गदतः प्राक्तनं तथा ।यथा कलौ हरेर्भक्तिं न कुर्वन्तीह मानवाः ॥२९॥भूर्लोकवासिनः सर्वे पुरा यष्ट्वा जनार्दनम् ।भुवर्लोकं प्रपद्यन्ते तत्रस्था अपि केशवम् ।आराध्य स्वर्गतिं यान्ति क्रमान्मुक्तिं व्रजन्ति च ॥३०॥एवं मुक्तिपदे व्याप्ते सर्वलोकैस्तथैव च ।मुक्तिभाजस्ततो देवास्तं दध्युः प्रयता हरिम् ॥३१॥सोऽपि सर्वगतत्वाच्च प्रादुर्भूतः सनातनः ।उवाच ब्रूत किं कार्यं सर्वयोगिवराः सुराः ॥३२॥ते तं प्रणम्य देवेशमूचुश्च परमेश्वरम् ।देवदेव जनः सर्वो मुक्तिमार्गे व्यवस्थितः ।कथं सृष्टिः प्रभविता नरकेषु च को वसेत् ॥३३॥एवमुक्तस्ततो देवैस्तानुवाच जनार्दनः ।युगानि त्रीणि बहवो मामुपेष्यन्ति मानवाः ॥३४॥अन्त्ये युगे प्रविरला भविष्यन्ति मदाश्रयाः ।एष मोहं सृजाम्याशु यो जनं मोहयिष्यति ॥३५॥त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ।अल्पायासं दर्शयित्वा फलं दीर्घं प्रदर्शय ॥३६॥कुहकं चेन्द्रजालानि विरुद्धाचरणानि च ।दर्शयित्वा जनं सर्वं मोहयाशु महेश्वर ॥३७॥एवमुक्त्वा तदा तेन देवेन परमेष्ठिना ।आत्मा तु गोपितः सद्यः प्रकाश्योऽहं कृतस्तदा ॥३८॥तस्मादारभ्य कालं तु मत्प्रणीतेषु सत्तम ।शास्त्रेष्वभिरतो लोको बाहुल्येन भवेदतः ॥३९॥वेदानुवर्त्तिनं मार्गं देवं नारायणं तथा ।एकीभावेन पश्यन्तो मुक्तिभाजो भवन्ति ते ॥४०॥मां विष्णोर्व्यतिरिक्तं ये ब्रह्माणं च द्विजोत्तम ।भजन्ते पापकर्माणस्ते यान्ति नरकं नराः ॥४१॥ये वेदमार्गनिर्मुक्तास्तेषां मोहार्थमेव च ।नयसिद्धान्तसंज्ञाभिर्मया शास्त्रं तु दर्शितम् ॥४२॥पाशोऽयं पशुभावस्तु स यदा पतितो भवेत् ।तदा पाशुपतं शास्त्रं जायते वेदसंज्ञितम् ॥४३॥वेदमूर्तिरहं विप्र नान्यशास्त्रार्थवादिभिः ।ज्ञायते मत्स्वरूपं तु मुक्त्वा वेदमनादिमत् ।वेदवेद्योऽस्मि विप्रर्षे ब्राह्मणैश्च विशेषतः ॥४४॥युगानि त्रीण्यहं विप्र ब्रह्मा विष्णुस्तथैव च ।त्रयोऽपि सत्त्वादिगुणास्त्रयो वेदास्त्रयोऽग्नयः ॥४५॥त्रयो लोकास्त्रयः संध्यास्त्रयो वर्णास्तथैव च ।सवनानि तु तावन्ति त्रिधा बद्धमिदं जगत् ॥४६॥य एवं वेत्ति विप्रर्षे परं नारायणं तथा ।अपरं पद्मयोनिं तु ब्रह्माणं त्वपरं तु माम् ।गुणतो मुख्यतस्त्वेक एवाहं मोह इत्युत ॥४७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP