संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३९ Translation - भाषांतर सत्यतपा उवाच ।भगवन् द्वे शरीरे तु इति यत्परिकीर्त्तितम् ।तन्मे कथय भेदं वै के ते ब्रह्मविदां वर ॥१॥दुर्वासा उवाच ।न द्वे त्रीणि शरीराणि वाच्यं तद्विपरीतकम् ।विभोगायतनं चैव त्रिशरीराणि प्राणिनाम् ॥२॥प्रागवस्थमधर्माख्यं परिज्ञानविवर्जितम् ।अपरं सव्रतं तद्धि ज्ञेयमत्यन्तधार्मिकम् ॥३॥धर्माधर्मोपभोगाय यत् तृतीयमतीन्द्रियम् ।तत्त्रिभेदं विनिर्दिष्टं ब्रह्मविद्भिर्विचक्षणैः ।यातना धर्मभोगश्च भुक्तिश्चेति त्रिभेदकम् ॥४॥यस्तु भावः पुरा ह्यासीत् प्राणिनो निघ्नतः स वै ।तत्पापाख्यं शरीरं ते पापसंज्ञं तदुच्यते ॥५॥इदानीं शुभवृत्तिं तु कुर्वतस्तप आर्जवम् ।अपरं धर्मरूपं तु शरीरं ते व्यवस्थितम् ।तेन वेदपुराणानि ज्ञातुमर्हस्यसंशयम् ॥६॥यदाष्टाकं संपरिवर्त्तते पुमां-स्तदा त्र्यवस्थः परिकीर्त्यते तु वै ।गताष्टवर्गस्त्रिगतः सदा शुभःस्थिरो भवेदात्मनि निश्चयात्मवान् ॥७॥यदा पञ्च पुनः पञ्च पञ्च पञ्चापि संत्यजेत् ।एकमार्गस्तदा ब्रह्म शाश्वतं लभते नरः ॥८॥सत्यतपा उवाच ।भगवन् यदि विज्ञानं शरीरं नोपजायते ।तदा केन प्रकारेण परं ब्रह्मोपलभ्यते ॥९॥दुर्वासा उवाच ।कर्मकाण्डं ज्ञानमूलं ज्ञानं कर्मादिकं तथा ।एतयोरन्तरं नास्ति यथाऽश्ममृदयोर्मुने ॥१०॥कर्मकाण्डं चतुर्भेदं ब्राह्मणादिषु कीर्तितम् ।तत्र वेदोक्तकर्माणि त्रयः कुर्वन्ति नित्यशः ।त्रिशुश्रूषामथैकस्तु एषा वेदोदिता क्रिया ॥११॥एतान् धर्मानवस्थाय ब्रह्मणोपास्तिं रोचते ।तस्य मुक्तिर्भवेन्नूनं वेदवादरतस्य च ॥१२॥सत्यतपा उवाच ।यदेतत् परमं ब्रह्म त्वया प्रोक्तं महामुने ।तस्य रूपं न जानन्ति योगिनोऽपि महात्मनः ॥१३॥अनाममसगोत्रं च अमूर्त्तं मूर्त्तिवर्जितम् ।कथं स ज्ञायते ब्रह्म संज्ञानामविवर्जितम् ।तस्य संज्ञां कथय मे वेदमार्गव्यवस्थिताम् ॥१४॥दुर्वासा उवाच ।यदेतत् परमं ब्रह्म वेदव्यासेषु पठ्यते ।स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥१५॥स यज्ञैर्विविधैरिष्टैर्दानैर्दत्तैश्च सत्तम ।प्राप्यते परमो देवः स्वयं नारायणो हरिः ॥१६॥सत्यतपा उवाच ।भगवन् बहुवित्तेन ऋत्विग्भिर्वेदपारगैः ।प्राप्यते पुण्यकृद्भिर्हि क्वचिद् यज्ञः कथंचन ।तेन प्राप्तेन भगवान् लभ्यते दुःखतो हरिः ॥१७॥वित्तेन च विना दानं दातुं विप्र न शक्यते ।विद्यमानेऽपि न मतिः कुटुम्बासक्तचेतसः ।तस्य मोक्षः कथं ब्रह्मन् सर्वथा दुर्लभो हरिः ॥१८॥अल्पायासेन लभ्येत येन देवः सनातनः ।तन्मे सामान्यतो ब्रूहि सर्ववर्णेषु यद् भवेत् ॥१९॥दुर्वासा उवाच ।कथयामि परं गुह्यं रहस्यं देवनिर्मितम् ।धरण्या यत्कृतं पूर्वं मज्जन्त्या तु रसातले ॥२०॥पृथिव्याः पार्थिवो भावः सलिले नातिरेचितः ।तस्मिन् सलिलमग्ने तु पृथ्वी प्रायाद् रसातलम् ॥२१॥सा भूतधारिणी देवी रसातलगता शुभा ।आराधयामास विभुं देवं नारायणं परम् ।उपवासव्रतैर्देवी नियमैश्च पृथग्विधैः ॥२२॥कालेन महता तस्याः प्रसन्नो गरुडध्वजः ।उज्जहार स्थितौ चेमां स्थापयामास सोऽव्ययः ॥२३॥सत्यतपा उवाच ।कोऽसौ धरण्या संचीर्ण उपवासो महामुने ।कानि व्रतानि च तथा एतन्मे वक्तुमर्हसि ॥२४॥दुर्वासा उवाच ।यदा मार्गशिरे मासि दशम्यां नियतात्मवान् ।कृत्वा देवार्चनं धीमानग्निकार्यं यथाविधि ॥२५॥शुचिवासाः प्रसन्नात्मा हव्यमन्नं सुसंस्कृतम् ।भुक्त्वा पञ्चपदं गत्वा पुनः शौचं तु पादयोः ॥२६॥कृत्वाऽष्टाङ्गुलमात्रं तु क्षीरवृक्षसमुद्भवम् ।भक्षयेद् दन्तकाष्ठं तु तत आचम्य यत्नतः ॥२७॥स्पृष्ट्वा द्वाराणि सर्वाणि चिरं ध्यात्वा जनार्दनम् ।शङ्खचक्रगदापाणिं किरीटिं पीतवाससम् ॥२८॥प्रसन्नवदनं देवं सर्वलक्षणलक्षितम् ।ध्यात्वा पुनर्जलं हस्ते गृह्य भानुं जनार्दनम् ॥२९॥ध्यात्वाऽर्ध्यं दापयेत् तस्य करतोयेन मानवः ।एवमुच्चारयेद् वाचं तस्मिन् काले महामुने ॥३०॥एकादश्यां निराहारः स्थित्वाऽहमपरेऽहनि ।भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥३१॥एवमुक्त्वा ततो रात्रौ देवदेवस्य सन्निधौ ।जपन्नारायणायेति स्वपेत् तत्र विधानतः ॥३२॥ततः प्रभाते विमले नदीं गत्वा समुद्रगाम् ।इतरां वा तडागं वा गृहे वा नियतात्मवान् ॥३३॥आनीय मृत्तिकां शुद्धां मन्त्रेणानेन मानवः ।धारणं पोषणं त्वत्तो भूतानां देवि सर्वदा ।तेन सत्येन मे पापं यावन्मोचय सुव्रते ॥३४॥ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि देव ते ।तेनेमां मृत्तिकां स्पृष्ट्वा मा लभामि त्वयोदिताम् ॥३५॥त्वयि सर्वे रसा नित्याः स्थिता वरुण सर्वदा ।तेनेमां मृत्तिकां प्लाव्य पूतां कुरु ममाचिरम् ॥३६॥एवं मृदं तथा तोयं प्रसाद्यात्मानमालभेत् ।त्रिः कृत्वा शेषमृदया कुण्डमालिख्य वै जले ॥३७॥ततस्तत्र नरः सम्यक् चक्रवर्त्युपचारतः ।स्नात्वा चावश्यकं कृत्वा पुनर्देवगृहं व्रजेत् ॥३८॥तत्राराध्य महायोगिं देवं नारायणं प्रभुम् ।केशवाय नमः पादौ कटिं दामोदराय च ॥३९॥ऊरुयुग्मं नृसिंहाय उरः श्रीवत्सधारिणे ।कण्ठं कौस्तुभनाथाय वक्षः श्रीपतये तथा ॥४०॥त्रैलोक्यविजयायेति बाहू सर्वात्मने शिरः ।रथाङ्गधारिणे चक्रं शंकरायेति वारिजम् ॥४१॥गम्भीरायेति च गदामम्भोजं शान्तिमूर्त्तये ।एवमभ्यर्च्य देवेशं देवं नारायणं प्रभुम् ॥४२॥पुनस्तस्याग्रतः कुम्भान् चतुरः स्थापयेद् बुधः ।जलपूर्णान् समाल्यांश्च सितचन्दनलेपितान् ॥४३॥चूतपल्लवसग्रीवान् सितवस्त्रावगुण्ठितान् ।स्थगितान् ताम्रपात्रैश्च तिलपूर्णैः सकाञ्चनैः ॥४४॥चत्वारस्ते समुद्रास्तु कलशाः परिकीर्तिताः ।तेषां मध्ये शुभं पीठं स्थापयेद् वस्त्रगर्भितम् ॥४५॥तस्मिन् सौवर्णरौप्यं वा ताम्रं वा दारवं तथा ।अलाभे सर्वपात्राणां पालाशं पात्रमिष्यते ॥४६॥तोयपूर्णं तु तत्कृत्वा तस्मिन् पात्रे ततो न्यसेत् ।सौवर्णं मत्स्य्रूपेण कृत्वा देवं जनार्दम् ।वेदवेदाङ्गसंयुक्तं श्रुतिस्मृतिविभूषितम् ॥४७॥तत्रानेकविधैर्भक्षैः फलैः पुष्पैश्च शोभितम् ।गन्धधूपैश्च वस्त्रैश्च अर्चयित्वा यथाविधि ॥४८॥रसातलगता वेदा यथा देव त्वयाहृताः ।मत्स्यरूपेण तद्वन्मां भवानुद्धर केशव ।एवमुच्चार्य तस्याग्रे जागरं तत्र कारयेत् ॥४९॥यथाविभवसारेण प्रभाते विमले तथा ।चतुर्णां ब्राह्मणानां च चतुरो दापयेद् घटान् ॥५०॥पूर्वं तु बह्वृचे दद्याच्छन्दोगे दक्षिणं तथा ।यजुःशाखान्विते दद्यात् पश्चिमं घटमुत्तमम् ।उत्तरं कामतो तद्यादेष एव विधिः स्मृतः ॥५१॥ऋग्वेदः प्रीयतां पूर्वे सामवेदस्तु दक्षिणे ।यजुर्वेदः पश्चिमतो अथर्वश्चोत्तरेण तु ॥५२॥अनेन क्रमयोगेन प्रीयतामिति वाचयेत् ।मत्स्यरूपं च सौवर्णमाचार्याय निवेदयेत् ॥५३॥गन्धधूपादिवस्त्रैश्च संपूज्य विधिवत् क्रमात् ।यस्त्विमं सरहस्यं च मन्त्रं चैवोपपादयेत् ।विधानं तस्य वै दत्त्वा फलं कोटिगुणोत्तरम् ॥५४॥प्रतिपद्य गुरुं यस्तु मोहाद् विप्रतिपद्यते ।स जन्मकोटि नरके पच्यते पुरुषाधमः ।विधानस्य प्रदाता यो गुरुरित्युच्यते बुधैः ॥५५॥एवं दत्त्वा विधानेन द्वादश्यां विष्णुमर्च्य च ।विप्राणां भोजनं कुर्याद् यथाशक्त्या सदक्षिणम् ॥५६॥ताम्रपात्रैश्च सतिलैः स्थगितान् कारयेद् घटान् ।तत्र सज्जलपात्रस्थं ब्राह्मणाय कुटुम्बिने ॥५७॥देवं दद्यान्महाभागस्ततो विप्रांश्च भोजयेत् ।भूरिणा परमान्नेन ततः पश्चात् स्वयं नरः ।भुञ्जीत सहितो बालैर्वाग्यतः संयतेन्द्रियः ॥५८॥अनेन विधिना यस्तु धरणीव्रतकृन्नरः ।तस्य पुण्यफलं चाग्र्यं श्रृणु बुद्धिमतां वर ॥५९॥यदि वक्त्रसहस्त्राणि भवन्ति मम सुव्रत ।आयुश्च ब्रह्मणस्तुल्यं भवेद् यदि महाव्रत ॥६०॥तदानीमस्य धर्मस्य फलं कथयितुं भवेत् ।तथाप्युद्देशतो ब्रह्मन् कथयामि श्रृणुष्व तत् ॥६१॥दश सप्त दश द्वे च अष्टौ चत्वार एव च ।लक्षायुतानि चत्वारि एकस्थं स्याच्चतुर्युगम् ॥६२॥तैरेकसप्ततियुगं भवेन्मन्वन्तरं मुने ।चतुर्दशाहो ब्राह्मस्तु तावती रात्रिरिष्यते ॥६३॥एवं त्रिंशद्दिनो मासस्ते द्वादश समा स्मृता ।तेषां शतं ब्रह्मणस्तु आयुर्नास्त्यत्र संशयः ॥६४॥यः सकृद् द्वादशीमेतामनेन विधिना क्षिपेत् ।स ब्रह्मलोकमाप्नोति तत्कालं चैव तिष्ठति ॥६५॥ततो ब्रह्मोपसंहारे तल्लयं तिष्ठते चिरम् ।पुनः सृष्टौ भवेद् देवो वैराजानां महातपाः ॥६६॥ब्रह्महत्यादिपापानि इह लोककृतान्यपि ।अकामे कामतो वापि तानि नश्यन्ति तत्क्षणात् ॥६७॥इह लोके दरिद्रो यो भ्रष्टराज्योऽथ वा नृपः ।उपोष्य तां विधानेन स राजा जायते ध्रुवम् ॥६८॥वन्ध्या नारी भवेद् या तु अनेन विधिना शुभा ।उपोष्यति भवेत् तस्याः पुत्रः परमधार्मिकः ॥६९॥अगम्यागमनं येन कृतं जानाति मानवः ।स इमं विधिमासाद्य तस्मात् पापाद् विमुच्यते ॥७०॥ब्रह्मक्रियाया लोपेन बहुवर्षकृतेन च ।उपोष्येमां सकृद् भक्त्या वेदसंस्कारमाप्नुयात् ॥७१॥किमत्र बहुनोक्तेन न तदस्ति महामुने ।अप्राप्यं प्राप्यते नैव पापं वा यन्न नश्यति ॥७२॥अनेन विधिना ब्रह्मन् स्वयमेव ह्युपोषिता ।धरण्या मग्नया तात नात्र कार्या विचारणा ॥७३॥अदीक्षिताय नो देयं विधानं नास्तिकाय च ।देवब्रह्मद्विषे वाऽपि न श्राव्यं तु कदाचन ।गुरुभक्ताय दातव्यं सद्यः पापप्रणाशनम् ॥७४॥इह जन्मनि सौभाग्यं धनं धान्यं वरस्त्रियः ।भवन्ति विविधा यस्तु उपोष्य विधिना ततः ॥७५॥य इमं श्रावयेद् भक्त्या द्वादशीकल्पमुत्तमम् ।श्रृणोति वा स पापैस्तु सर्वैरेव प्रमुच्यते ॥७६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे ऊनचत्वारिंशोऽध्यायः ॥३९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP