संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७१ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७१ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७१ Translation - भाषांतर अगस्त्य उवाच ।एवमुक्तस्ततो देवा ऋषयश्च पिनाकिना ।अहं च नृपते तस्य देवस्य प्रणतोऽभवम् ॥१॥प्रणम्य शिरसा देवं यावत् पश्यामहे नृप ।तावत् तस्यैव रुद्रस्य देहस्थं कमलासनम् ॥२॥नारायणं च हृदये त्रसरेणुसुसूक्ष्मकम् ।ज्वलद्भास्करवर्णाभं पश्याम भवदेहतः ॥३॥तं दृष्ट्वा विस्मिताः सर्वे याजका ऋषयो मम ।जयशब्दरवांश्चक्रुः सामऋग्यजुषां स्वनम् ॥४॥कृत्वोचुस्ते तदा देवं किमिदं परमेश्वर ।एकस्यामेव मूर्तौ ते लक्ष्यन्ते च त्रिमूर्त्तयः ॥५॥रुद्र उवाच ।यज्ञेऽस्मिन् यद्धुतं हव्यं मामुद्दिश्य महर्षयः ।ते त्रयोऽपि वयं भागं गृह्णीमः कविसत्तमाः ॥६॥नास्माकं विविधो भावो वर्तते मुनिसत्तमाः ।सम्यग्दृशः प्रपश्यन्ति विपरीतेष्वनेकशः ॥७॥एवमुक्ते तु रुद्रेण सर्वे ते मुनयो नृप ।पप्रच्छुः शंकरं देवं मोहशास्त्रप्रयोजनम् ॥८॥ऋषय ऊचुः ।मोहनार्थं तु लोकानां त्वया शास्त्रं पृथक् कृतम् ।तत् त्वया हेतुना केन कृतं देव वदस्व नः ॥९॥रुद्र उवाच ।अस्ति भारतवर्षेण वनं दण्डकसंज्ञितम् ।तत्र तीव्रं तपो घोरं गौतमो नाम वै द्विजः ॥१०॥चकार तस्य ब्रह्मा तु परितोषं गतः प्रभुः ।उवाच तं मुनिं ब्रह्मा वरं ब्रूहि तपोधन ॥११॥एवमुक्तस्तदा तेन ब्रह्मणा लोककर्तृणा ।उवाच सद्यः पङ्क्तिं मे धान्यानां देहि पद्मज ॥१२॥एवमुक्तो ददौ तस्य तमेवार्थं पितामहः ।लब्ध्वा तु तं वरं विप्रः शतश्रृङ्गे महाश्रमम् ॥१३॥चकार तस्योषसि च पाकान्ते शालयो द्विजाः ।लूयन्ते तेन मुनिना मध्याह्ने पच्यते तथा ।सर्वातिथ्यमसौ विप्रो ब्राह्मणेभ्यो ददात्यलम् ॥१४॥कस्यचित् त्वथ कालस्य महति द्वादशाब्दिका ।अनावृष्टिर्द्विजवरा अभवल्लोमहर्षिणी ॥१५॥तां दृष्ट्वा मुनयः सर्वे अनावृष्टिं वनेचराः ।क्षुधया पीड्यमामास्तु प्रययुर्गौतमं तदा ॥१६॥अथ तानागतान् दृष्ट्वा गौतमः शिरसा नतः ।उवाच स्थीयतां मह्यं गृहे मुनिवरात्मजाः ॥१७॥एवमुक्तास्तु ते तेन तस्थुर्विविधभोजनम् ।भुञ्जमाना अनावृष्टिर्यावत् सा निवृताऽभवत् ॥१८॥निवृत्तायां तु वै तस्यामनावृष्ट्यां तु ते द्विजाः ।तीर्थयात्रानिमित्तं तु प्रयातुं मनसोऽभवन् ॥१९॥तत्र शाण्डिल्यनामानं तापसं मुनिसत्तमम् ।प्रत्युवाचेति संचिन्त्य मीरीचः परमो मुनिः ॥२०॥मारीच उवाच ।शाण्डिल्य शोभनं वक्ष्ये पिता ते गौतमो मुनिः ।तमनुक्त्वा न गच्छामस्तपश्चर्तुं तपोवनम् ॥२१॥एवमुक्तेऽथ जहसुः सर्वे ते मुनयस्तदा ।किमस्माभिः स्वको देहो विक्रीतोऽस्यान्नभक्षणात् ॥२२॥एवमुक्त्वा पुनश्चोचुः सोपाधिगमनं प्रति ।कृत्वा मायामयीं गां तु तच्छालौ ते व्यसर्जयन् ॥२३॥तां चरन्तीं ततो दृष्ट्वा शालौ गां गौतमो मुनिः ।गृहीत्वा सलिलं पाणौ याहि रुद्रेत्यभाषत ।ततो मायामयी सा गौः पपात जलबिन्दुभिः ॥२४॥निहतां तां ततो दृष्ट्वा मुनीन् जिगमिषूंस्तथा ।उवाच गौतमो धीमांस्तान् मुनीन् प्रणतः स्थितः ॥२५॥किमर्थं गम्यते विप्राः साधु शंसत माचिरम् ।मां विहाय सदा भक्तं प्रणतं च विशेषतः ॥२६॥ऋषय ऊचुः ।गोवध्येयमिह ब्रह्मन् यावत् तव शरीरगा ।तावदन्नं न भुञ्जामो भवतोऽन्नं महामुने ॥२७॥एवमुक्तो गौतमोऽथ तान् मुनीन् प्राह धर्मवित् ।प्रायश्चित्तं गोवध्याया दीयतां मे तपोधनाः ॥२८॥इयं गौरमृता ब्रह्मन् मूर्च्छितेव व्यवस्थिता ।गङ्गाजलप्लुता चेयमुत्थास्यति न संशयः ॥२९॥प्रायश्चित्तं मृतायाः स्यादमृतायाः कृतं त्विदम् ।व्रतं वा मा कृथाः कोपमित्युक्त्वा प्रययुस्तु ते ॥३०॥गतैस्तैर्गौतमो धीमान् हिमवन्तं महागिरिम् ।मामाराधयिषुः प्रायात् तप्तुं चाशु महत् तपः ॥३१॥शतमेकं तु वर्षाणामहमाराधितोऽभवम् ।तुष्टेन च मया प्रोक्तो वरं वरय सुव्रत ॥३२॥सोऽब्रवीन्मां जकटासंस्थां देहि गङ्गां तपस्विनीम् ।मया सार्धं प्रयात्वेषा पुण्या भागीरथी नदी ॥३३॥एवमुक्ते जटाखण्डमेकं स प्रददौ शिवः ।तां गृह्य गतवान् सोऽपि यत्रास्ते सा तु गौर्मृता ॥३४॥तज्जलप्लाविता सा गौर्गता चोत्थाय भामिनी ।नदी च महती जाता पुण्यतोया शुचिह्रदा ॥३५॥तं दृष्ट्वा महदाश्चर्यं तत्र सप्तर्षयोऽमलाः ।आजग्मुः खे विमानस्थाः साधुः साध्विति वादिनः ॥३६॥साधु गौतम साधूनां कोन्योऽस्ति सदृशस्तव ।यदेवं जाह्नवीं देवीं दण्डके चावतारयत् ॥३७॥एवमुक्तस्तदा तैस्तु गौतमः किमिदं त्विति ।गोवध्याकारणं मह्यं तावत् पश्यति गौतमः ॥३८॥ऋषीणां मायया सर्वमिदं जातं विचिन्त्य वै ।शशाप तान् जटाभस्ममिथ्याव्रतधरास्तथा ।भविष्यथ त्रयीबाह्या वेदकर्मबहिष्कृताः ॥३९॥तच्छ्रुत्वा क्रूरवचनं गौतमस्य महामुनेः ।ऊचुः सप्तर्षयो मैवं सर्वकालं द्विजोत्तमाः ।भवन्तु किं तु ते वाक्यं मोघं नास्त्यत्र संशयः ॥४०॥यदि नाम कलौ सर्वे भविष्यन्ति द्विजोत्तमाः ।उपकारिणि ये ते हि अपकर्तार एव हि ।इत्थंभूता अपि कलौ भक्तिभाजो भवन्तु ते ॥४१॥त्वद्वाक्यवह्निनिर्दग्धाः सदा कलियुगे द्विजाः ।भविष्यन्ति क्रियाहीना वेदकर्मबहिष्कृताः ॥४२॥अस्याश्च गौणं नामेह नदी गोदावरीति च ।गौर्दत्ता वरदानाच्च भवेद् गोदावरी नदी ॥४३॥एतां प्राप्य कलौ ब्रह्मन् गां ददन्ति जनाश्च ये ।यथाशक्त्या तु दानानि मोदन्ते त्रिदशैः सह ॥४४॥सिंहस्थे च गुरौ तत्र यो गच्छति समाहितः ।स्नात्वा च विधिना तत्र पितॄं स्तर्पयते तथा ॥४५॥स्वर्गं गच्छन्ति पितरो निरये पतिता अपि ।स्वर्गस्थाः पितरस्तस्य मुक्तिभाजो न संशयः ॥४६॥त्वं ख्यातिं महतीं प्राप्य मुक्तिं यास्यसि शाश्वतीम् ।एवमुक्त्वाऽथ मुनयो ययुः कैलासपर्वतम् ।यत्राहमुमया सार्धं सदा तिष्ठामि सत्तमाः ॥४७॥ऊचुर्मां ते च मुनयो भवितारो द्विजोत्तमाः ।कलौ त्वद्रूपिणः सर्वे जटामुकुटधारिणः ।स्वेच्छया प्रेतवेषाश्च मिथ्यालिङ्गधराः प्रभो ॥४८॥तेषामनुग्रहार्थाय किंचिच्छास्त्रं प्रदीयताम् ।येनास्मद्वंशजाः सर्वे वर्तेयुः कलिपीडिताः ॥४९॥एवमभ्यर्थितस्तैस्तु पुराऽहं द्विजसत्तमाः ।वेदक्रियासमायुक्तां कृतवानस्मि संहिताम् ॥५०॥निःश्वासाख्यां ततस्तस्यां लीना बाभ्रव्यशाण्डिलाः ।अल्पापराधाच्छ्रुत्वैव गता बैडालिका भवन् ॥५१॥मयैव मोहितास्ते हि भविष्यं जानता द्विजाः ।लौल्यार्थिनस्तु शास्त्राणि करिष्यन्ति कलौ नराः ॥५२॥निःश्वाससंहितायां हि लक्षमात्रं प्रमाणतः ।सैव पाशुपती दीक्षा योगः पाशुपतस्त्विह ॥५३॥एतस्माद् वेदमार्गाद्धि यदन्यदिह जायते ।तत् क्षुद्रकर्म विज्ञेयं रौद्रं शौचविवर्जितम् ॥५४॥ये रुद्रमुपजीवन्ति कलौ वैडालिका नराः ।लौल्यार्थिनः स्वशास्त्राणि करिष्यन्ति कलौ नराः ।उच्छुष्मरुद्रास्ते ज्ञेया नाहं तेषु व्यवस्थितः ॥५५॥भैरवेण स्वरूपेण देवकार्ये यदा पुरा ।नर्तितं तु मया सोऽयं संबन्धः क्रूरकर्मणाम् ॥५६॥क्षयं निनीषता दैत्यानट्टहासो मया कृतः ।यः पुरा तत्र ये मह्यं पतिता अश्रुबिन्दवः ।असंख्यातास्तु ते रौद्रा भवितारो महीतले ॥५७॥उच्छुष्मनिरता रौद्राः सुरामांसप्रियाः सदा ।स्त्रीलोलाः पापकर्माणः संभूता भूतलेषु ते ॥५८॥तेषां गौतमशापाद्धि भविष्यन्त्यन्वये द्विजाः ।तेषां मध्ये सदाचारा ये ते मच्छासने रताः ॥५९॥स्वर्गं चैवापवर्गं च इति वै संशयात् पुरा ।वैडालिकाऽधो यास्यन्ति मम संततिदूषकाः ॥६०॥प्राग् गौतमाग्निना दग्धाः पुनर्मद्वचनाद् द्विजाः ।नरकं तु गमिष्यन्ति नात्र कार्या विचारणा ॥६१॥रुद्र उवाच ।एवं मया ब्रह्मसुताः प्रोक्ता जग्मुर्यथागतम् ।गौतमोऽपि स्वकं गेहं जगामाशु परंतपः ॥६२॥एतद् वः कथितं विप्रा मया धर्मस्य लक्षणम् ।एतस्माद् विपरीतो यः स पाषण्डरतो भवेत् ॥६३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकसप्ततितमोऽध्यायः ॥७१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP