संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ९१ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ९१ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ९१ Translation - भाषांतर श्रीवराह उवाच ।या मन्दरगता देवी तपस्तप्तुं तु वैष्णवी ।राजसी परमा शक्तिः कौमारव्रतधारिणी ॥१॥सैकाकिनी तपस्तेपे विशालायां तु शोभने ।तस्यास्तपन्त्याः कालेन महता क्षुभितं मनः ॥२॥तस्मात् क्षोभात् समुत्तस्थुः कुमार्यः सौम्यलोचनाः ।नीलकुञ्चितकेशान्ता बिम्बोष्ठायतलोचनाः ।नितम्बरशनोद्दामा नूपुराढ्याः सुवर्चसः ॥३॥एवंविधाः स्त्रियो देव्या क्षोभिते मनसि द्रुतम् ।उत्तस्थुः शतसाहस्त्राः कोटिशो विविधाननाः ॥४॥दृष्ट्वा कुमार्यः सा देवी तस्मिन्नेव गिरौ शुभा ।तपसा निर्ममे देवी पुरं हर्म्यशताकुलम् ॥५॥विशालरथ्यं सौवर्णप्रासादैरुपशोभितम् ।अन्तर्जलानि वेश्मानि मणिसोपानवन्ति च ।रत्नजालगवाक्षाणि आसन्नोपवनानि च ॥६॥असंख्यातानि हर्म्याणि तथा कन्या धराधरे ।प्राधान्येन प्रवक्ष्यामि कन्यानामानि शोभने ॥७॥विद्युत्प्रभा चन्द्रकान्तिः सूर्यकान्तिस्तथाऽपरा ।गम्भीरा चारुकेशी च सुजाता मुञ्जकेशिनी ॥८॥घृताची चोर्वशी चान्या शशिनी शीलमण्डिता ।चारुकन्या विशालाक्षी धन्या पीनपयोधरा ॥९॥चन्द्रप्रभा गिरिसुता तथा सूर्यप्रभाऽमृता ।स्वयंप्रभा चारुमुखी शिवदूती विभावरी ॥१०॥जया च विजया चैव जयन्ती चापराजिता ।एताश्चान्याश्च शतशः कन्यास्तस्मिन् पुरोत्तमे ॥११॥देव्या अनुचराः सर्वाः पाशाङ्कुशधराः शुभाः ।ताभिः परिवृता देवी सिंहासनगता शुभा ॥१२॥सुसितैश्चामरैः स्त्रीभिर्वीज्यमाना विलासिनी ।कौमारं व्रतमास्थाय तपः कर्तुं समुद्यता ॥१३॥यौवनस्था महाभागा पीनवृत्तपयोधरा ।चम्पकाशोकपुन्नागनागकेसरदामभिः ॥१४॥सर्वाङ्गेष्वर्चिता देवी ऋषिदेवनमस्कृता ।पूज्यमाना वरस्त्रीभिः कुमारीभिः समन्ततः ॥१५॥सर्वाङ्गभोगिनी देवी यावदास्ते तपोऽन्विता ।तावदागतवांस्तत्र नारदो ब्रह्मणः सुतः ॥१६॥तं दृष्ट्वा सहसा देवी ब्रह्मपुत्रं तपोधनम् ।विद्युत्प्रभामुवाचेदमासनं दीयतामिति ।पाद्यमाचमनीयं च क्षिप्रमस्मै प्रदीयताम् ॥१७॥एवमुक्ता तदा देव्या कन्या विद्युप्रभा शुभा ।आसनं पाद्यमर्घ्यं च नारदाय न्यवेदयत् ॥१८॥ततः कृतासनं दृष्ट्वा प्रणतं नारदं मुनिम् ।उवाच वचनं देवी हर्षेण महताऽन्विता ॥१९॥स्वागतं भो मुनिश्रेष्ठ कस्माल्लोकादिहागतः ।किं कार्यं वद ते कृत्यं मा ते कालात्ययो भवेत् ॥२०॥एवमुक्तस्तदा देव्या नारदः प्राह लोकवित् ।ब्रह्मलोकादिन्द्रलोकं तस्माद् रौद्रमथाचलम् ॥२१॥ततस्त्वामिह देवेशि द्रष्टुमभ्यागतः शुभे ।एवमुक्त्वा मुनिः श्रीमांस्तां देवीमन्ववेक्षत ॥२२॥दृष्ट्वा मुहूर्तं देवेशि विस्मितो नारदोऽभवत् ।अहो रूपमहो कान्तिरहो धैर्यमहो वयः ॥२३॥अहो निष्कामता देव्या इति खेदमुपाययौ ।देवगन्धर्वसिद्धानां यक्षकिन्नररक्षसाम् ॥२४॥न रूपमीदृशं क्वापि स्त्रीष्वन्यासु प्रदृश्यते ।एवं संचिन्त्य मनसा नारदो विस्मयान्वितः ॥२५॥प्रणम्य देवीं वरदामुत्पपात नभस्तलम् ।गतश्च त्त्वरया युक्तः पुरीं दैत्येन्द्रपालिताम् ॥२६॥महिषाख्येन भूतेशि समुद्रान्तःस्थितां पुरीम् ।तत्राससाद भगवानसुरं महिषाकृतिम् ॥२७॥दृष्ट्वा लब्धवरं वीरं देवसैन्यान्तकं महत् ।स तेन पूजितो भक्त्या तदा लोकचरो मुनिः ॥२८॥प्रीतात्मा नारदस्तस्मै देव्या रूपमनुत्तमम् ।आचचक्षे यथान्यायं यद् दृष्टं देवतापुरे ॥२९॥नारद उवाच ।असुरेन्द्र श्रृणुष्वेकं कन्यारत्नं समाहितः ।येन लब्धं तु त्रैलोक्यं वरदानाच्चराचरम् ॥३०॥ब्रह्मलोकादहं दैत्य मन्दराद्रिमुपागतः ।तत्र देवीपुरं दृष्टं कुमारीशतसङ्कुलम् ॥३१॥तत्र प्रधाना या कन्या तापसी व्रतधारिणी ।सा देवदैत्ययक्षाणां मध्ये काचिन्न दृश्यते ॥३२॥यादृशी सा शुभा दैत्य तादृश्येकाण्डमध्यतः ।भ्रमता तादृशी दृष्ट्वा न कदाचिन्मया सती ॥३३॥तस्याश्च देवगन्धर्वा ऋषयः सिद्धचारणाः ।उपासांचक्रिरे सर्वे येऽप्यन्ये दैत्यनायकाः ॥३४॥तां दृष्ट्वा वरदां देवीमहं तूर्णमिहागतः ।अजित्वा देवगन्धर्वान् न तां जयति कश्चन ॥३५॥एवमुक्त्वा क्षणं स्थित्वा तमनुज्ञाप्य नारदः ।यथागतं ययौ धीमानन्तर्धानेन तत्क्षणात् ॥३६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकनवतितमोऽध्यायः ॥९१॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP