संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३४ Translation - भाषांतर महातपा उवाच ।पितॄणां संभवं राजन् कथ्यमानं निबोध मे ।पूर्वं प्रजापतिर्ब्रह्मा सिसृक्षुर्विविधाः प्रजाः ॥१॥एकाग्रमनसा सर्वास्तन्मात्रा मनसा बहिः ।कृत्वा परमकं ब्रह्म ध्यायन् सर्गेप्सुरुच्चकैः ॥२॥तस्यात्मनि तदा योगं गतस्य परमेष्ठिनः ।तन्मात्रा निर्ययुर्देहाद् धूमवर्णाकृतित्विषः ॥३॥पिबाम इति भाषन्तः सुरान् सोम इति स्म ह ।ऊर्ध्वं जिगमिषन्तो वै वियत्संस्थास्तपस्विनः ॥४॥तान् दृष्ट्वा सहसा ब्रह्मा तिर्यक्संस्थान उन्मुखान् ।भवन्तः पितरः सन्तु सर्वेषां गृहमेधिनाम् ॥५॥ऊर्ध्ववक्त्रास्तु ये तत्र ते नान्दीमुखसंज्ञिताः ।वृद्धिश्राद्धेषु सतत पूज्या श्रुतिविधानतः ॥६॥अग्निं पुरस्कृतो यैस्तु ते द्विजा अग्निहोत्रिणः ।नित्यैर्नैमित्तिकैः काम्यैः पार्वणैस्तर्पयन्तु तान् ॥७॥बहिःप्रवरणा ये च क्षत्रियास्तर्पयन्तु तान् ।आज्यं पिबन्ति ये चात्र तानर्चयन्तु विशः सदा ॥८॥ब्राह्मणैरभ्यनुज्ञाताः शूद्राः स्वपितृनामतः ।तानेवार्चयतां सम्यग्विधिमन्त्रबहिष्कृताः ॥९॥अनाहिताग्नयो ये च ब्रह्मक्षत्रविशो नराः ।स्वकालिनस्तेऽर्चयन्तु लोकाग्निपुरतः सदा ॥१०॥इत्येवं पूजिता यूयमिष्टान् कामान् प्रयच्छत ।आयुः कीर्तिं धनं पुत्रान् विद्यामभिजनं स्मृतिम् ॥११॥इत्युक्त्वा तु तदा ब्रह्मा तेषां पन्थानमाकरोत् ।दक्षिणायनसंज्ञं तु पितॄणां च पितामहः ॥१२॥तूष्णीं ससर्ज भूतानि तमूचुः पितरस्ततः ।वृत्तिं नो देहि भगवन् यया विन्दामहे सुखम् ॥१३॥ब्रह्मा उवाच ।अमावास्यादिनं वोऽस्तु तस्यां कुशतिलोदकैः ।तर्पिता मानुषैस्तृप्तिं परां गच्छथ नान्यथा ॥१४॥तिला देयास्तथैतस्यामुपोष्य पितृभक्तितः ।परमं तस्य संतुष्टा वरं यच्छत मा चिरम् ॥१५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP