संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|वराहपुराणम्| अध्यायः ९४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ९४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ९४ Translation - भाषांतर श्रीवराह उवाच ।अथ विद्युत्प्रभो दैत्यस्तथा दूतो विसर्जितः ।देव्याः सकाशं गत्वाऽसौ तामुवाच सुमध्यमाम् ॥१॥प्रणम्य प्रयतो भूत्वा कुमारीशतसंकुलाम् ।आस्थाने विनयापन्नस्ततो वचनमब्रवीत् ॥२॥विद्युत्प्रभ उवाच ।देवि पूर्वमृषिस्त्वासीदादिसर्गे कसंभवः ।सखा सारस्वतो जातः सुपार्श्वो नाम वै विभुः ॥३॥तस्याभवन्महातेजाः सिन्धुद्वीपः प्रतापवान् ।स हि तीव्रं तपस्तेपे माहिष्मत्यां पुरोत्तमे ॥४॥कुर्वतस्तु तपो घोरं निराहारस्य शोभने ।आद्या तु विप्रचित्तेस्तु सुता सुरसुतोपमा ।माहिष्मतीति विख्याता रूपेणासदृशी भुवि ॥५॥सा सखीभिः परिवृता विहरन्ती यदृच्छया ।आगता मन्दरद्रोणीं तत्रापश्यत् तपोवनम् ।मुनेरम्बरसंज्ञस्य विविधद्रुममालिनम् ॥६॥लतागृहैस्तु विविधैर्वकुलैर्लकुचैस्तथा ।चन्दनैः स्पन्दनैः शालैः सरलैरुपशोभितम् ।विचित्रवनखण्डैश्च भूषितं तु महात्मनः ॥७॥दृष्ट्वाश्रमपदं रम्यं सासुरी कन्यका शुभम् ।माहिष्मती वरारोहा चिन्तयामास भामिनी ॥८॥भीषयित्वाहमेनं तु तापसं त्वाश्रमे स्वयम् ।तिष्ठामि क्रीडती सार्धं सखीभिः परमार्चिता ॥९॥एवं संचिन्त्य सा देवी महिषी संबभूव ह ।सखीभिः सह विश्वेशि तीक्ष्णश्रृङ्गाग्रधारिणी ॥१०॥तमृषिं भीषितुं ताभिः सह गत्वा वरानना ।असौ बिभीषितस्ताभिस्तां ज्ञात्वा ज्ञानचक्षुषा ।आसुरीं क्रोधसंपन्नः शशाप शुभलोचनाम् ॥११॥यस्माद् भीषयसे मां त्वं महिषीरूपधारिणी ।अतो भव महिष्येव पापकर्मे शतं समाः ॥१२॥एवमुक्ता ततः सा तु सखीभिः सह वेपती ।पादयोर्न्यपतत् तस्य शापान्तं कुरु जल्पती ॥१३॥तस्यास्तद् वचनं श्रुत्वा स मुनिः करुणान्वितः ।शापान्तमकरोत् तस्या वाक्यं चेदमुवाच ह ॥१४॥अनेनैव स्वरूपेण पुत्रमेकं प्रसूय वै ।शापान्तो भविता भद्रे मद्वाक्यं न मृषा भवेत् ॥१५॥एवमुक्ता गता सा तु नर्मदातीरमुत्तमम् ।यत्र तेपे तपो घोरं सिन्धुद्वीपो महातपाः ॥१६॥तत्र चेन्दुमती नाम दैत्यकन्याऽतिरूपिणी ।सा दृष्टा तेन मुनिना विवस्त्रा मज्जती जले ॥१७॥चस्कन्द स मुनिः शुक्रं शिलाद्रोण्यां महातपाः ।तच्च माहिष्मती दृष्ट्वा दिव्यगन्धि सुगन्धि च ।ततः सखीरुवाचेदं पिबामीदं जलं शुभम् ॥१८॥एवमुक्त्वा तु सा पीत्वा तच्छुक्रं मुनिसंभवम् ।प्राप्ता गर्भं मुनेर्बीजात् सुषाव च तदा सतो ॥१९॥तस्याः पुत्रोऽभवद् धीमान् महाबलपराक्रमः ।महिषेति स्मृतो नाम्ना ब्रह्मवंशविवर्धनः ।स त्वां वरयते देवि देवसैन्यविमर्दनः ॥२०॥स सुरानपि जित्वाऽऽजौ त्रैलोक्यं च तवानघे ।दास्यते देवि सुप्रोतस्तव सर्वं महासुरः ।तस्यात्मोपप्रदानेन कुरु देवि महत् कृतम् ॥२१॥एवमुक्ता तदा देवी तेन दूतेन शोभना ।जहास परमा देवी वाक्यं नोवाच किञ्चन ॥२२॥तस्या हसन्त्या दूतोऽसौ त्रैलोक्यं सचराचरम् ।ददर्श कुक्षौ संभ्रान्तस्तत्क्षणात् समपद्यत ॥२३॥ततो देव्याः प्रतीहारी जया नामातितेजना ।देव्या हृदि स्थितं वाक्यमुवाच तनुमध्यमा ॥२४॥जया उवाच ।कन्यार्थी वदते यद्धि तत्त्वया समुदीरितम् ।यदि नाम व्रतं चास्याः कौमारं सार्वकालिकम् ।अपि चान्याः कुमार्योऽत्र सन्ति देव्याः पदानुगाः ॥२५॥तासामेकाऽपि नो लभ्या किमु देवी स्वयं शुभा ।याहि दूत त्वरन् मा ते किञ्चिदन्यद् भविष्यति ॥२६॥एवमुक्तो गतो दूतस्तावद् व्योम्नि महामुनिः ।आयातो नारदस्तूर्णं नृत्यन्नुच्चैर्महातपाः ॥२७॥दिष्ट्या दिष्ट्येति वदतस्तां देवीं शुभलोचनाम् ।उपविष्टो जगादाथ आसने परमेऽर्चितः ॥२८॥प्रणम्य देवीं सर्वेशीमुवाच च महातपाः ।देवि देवैरहं प्रीतैः प्रेषितोऽस्मि तवान्तिकम् ॥२९॥विजिता देवि दैत्येन महिषाख्येन निर्जराः ।त्वां गृहीतुं प्रयत्नं स कृतवान् देवि दैत्यराट् ॥३०॥एवमुक्तोऽस्मि देवैस्त्वां बोधयामि वरानने ।स्थिरीभूता महादेवि तं दैत्यं प्रतिघातय ॥३१॥उक्त्वैवान्तर्हितः सद्यो नारदः स्वेच्छया ययौ ।देवी च कन्यास्ताः सर्वाः सन्नह्यन्तामुवाच ह ॥३२॥ततः कन्या महाभागाः सर्वास्ता देविशासनात् ।बभूवुर्घोररूपिण्यः खङ्गचर्मधनुर्धराः ।संग्रामहेतोः संतस्थुर्दैत्यविध्वंसनाय ताः ॥३३॥तावद् दैत्यबलं सर्वं मुक्त्वा देवचमूं द्रुतम् ।आययौ यत्र तद् देव्याः संनद्धं स्त्रीबलं महत् ॥३४॥ततस्ता युयुधुः कन्या दानवैः सह दर्पिताः ।क्षणेन तद् बलं ताभिश्चतुरङ्गं निपातितम् ॥३५॥शिरांसि तत्र केषांचिच्छिन्नानि पतितानि च ।अपरेषां विदार्योरः क्रव्यादाः पान्ति शोणितम् ॥३६॥अन्ये कबन्धभूतास्तु ननृतुर्दैत्यनायकाः ।एवं क्षणेन ते सर्वे विध्वस्ताः पापचेतसः ।अपरे विद्रुताः सर्वे यत्रासौ महिषासुरः ॥३७॥ततो हाहाकृतं सर्वं यथा दैत्यबलं महत् ।एवं तदाकुलं दृष्ट्वा महिषो वाक्यमब्रवीत् ।सेनापते किमेतद्धि बलं भग्नं ममाग्रतः ॥३८॥ततो यज्ञहनुर्नामा दैत्यो हस्तिस्वरूपवान् ।उवाच भग्नमेतद्धि कुमारीभिः समन्ततः ॥३९॥ततो दुद्राव महिषस्ताः कन्याः शुभलोचनाः ।गदामादाय तरसा कन्या दुद्राव वेगवान् ॥४०॥यत्र तिष्ठति सा देवी देवगन्धर्वपूजिता ।तत्रैव सोऽसुरः प्रायाद् यत्र देवी व्यवस्थिता ।सा च दृष्ट्वा तमायान्तं विंशद्धस्ता बभूव ह ॥४१॥धनुः खङ्गं तथा शक्तिं शरान् शूलं गदां तथा ।परशुं डमरुं चैव तथा घण्टां विशालिनीम् ।शतघ्नीं मुद्गरं घोरं भुशुण्डीं कुन्तमेव च ॥४२॥मुसलं च तथा चक्रं भिन्दिपालं तथैव च ।दण्डं पाशं ध्वजं चैव पद्मं चेति च विंशतिः ॥४३॥भूत्वा विंशभुजा देवी सिंहमास्थाय दंशिता ।सस्मार रुद्रं देवेशं रौद्रं संहारकारणम् ॥४४॥ततो वृषध्वजः साक्षाद् रुद्रस्तत्रैव आययौ ।तया प्रणम्य विज्ञप्तः सर्वान् दैत्यान् जयाम्यहम् ॥४५॥त्वयि सन्निधिमात्रे तु देवदेव सनातन ।एवमुक्त्वाऽसुरान् सर्वान् जिगाय परमेश्वरी ॥४६॥मुक्तवा तमेकं महिषं शेषं हत्वा तमभ्ययात् ।यावद् देवी ततः साऽपि तां दृष्ट्वा सोऽपि दुद्रुवे ॥४७॥क्वचिद् युध्यति दैत्येन्द्रः क्वचिच्चैव पलायति ।क्वचित् पुनर्मृधं चक्रे क्वचित् पुनरुपारमत् ॥४८॥एवं वर्षहस्त्राणि दश तस्य तया सह ।दिव्यानि विगतानि स्युर्युध्यतस्तस्य शोभने ।बभ्राम सकलं त्वाजौ ब्रह्माण्डं भीतमानसम् ॥४९॥ततः कालेन महता शतश्रृङ्गे महागिरौ ।पद्भ्यामाक्रम्य शूलेन निहतो दैत्यसत्तमः ॥५०॥शिरश्चिच्छेद खङ्गेन तत्र चान्तःस्थितः पुमान् ।निर्गत्य विगतः स्वर्गं देव्याः शस्त्रनिपातनात् ॥५१॥ततो देवगणाः सर्वे महिषं वीक्ष्य निर्जितम् ।सब्रह्मका स्तुतिं चक्रुर्देव्यास्तुष्टेन चेतसा ॥५२॥देवा ऊचुः ।नमो देवि महाभागे गम्भीरे भीमदर्शने ।जयस्थे स्थितिसिद्धान्ते त्रिनेत्रे विश्वतोमुखि ॥५३॥विद्याविद्ये जये याज्ये महिषासुरमर्दिनि ।सर्वगे सर्वदेवेशि विश्वरूपिणि वैष्णवि ॥५४॥वीतशोके ध्रुवे देवि पद्मपत्रशुभेक्षणे ।शुद्धसत्त्वव्रतस्थे च चण्डरूपे विभावरि ॥५५॥ऋद्धिसिद्धिप्रदे देवि विद्येऽविद्येऽमृते शिवे ।शांकरी वैष्णवी ब्राह्मी सर्वदेवनमस्कृते ॥५६॥घण्टाहस्ते त्रिशूलास्त्रे महामहिषमर्दिनि ।उग्ररूपे विरूपाक्षि महामायेऽमृतस्त्रवे ॥५७॥सर्वसत्त्वहिते देवि सर्वसत्त्वमये ध्रुवे ।विद्यापुराणशिल्पानां जननी भूतधारिणी ॥५८॥सर्वदेवरहस्यानां सर्वसत्त्ववतां शुभे ।त्वमेव शरणं देवि विद्येऽविद्ये श्रियेऽम्बिके ।विरूपाक्षि तथा क्षान्ति क्षोभितान्तर्जलेऽविले ॥५९॥नमोऽस्तु ते महादेवि नमोऽस्तु परमेश्वरि ।नमस्ते सर्वदेवानां भावनित्येऽक्षयेऽव्यये ॥६०॥शरणं त्वां प्रपद्यन्ते ये देवि परमेश्वरि ।न तेषां जायते किञ्चिदशुभं रणसङ्कटे ॥६१॥यश्च व्याघ्रभये घोरे चौरराजभये तथा ।स्तबवमेनं सदा देवि पठिष्यति यतात्मवान् ॥६२॥निगडस्थोऽपि यो देवि त्वां स्मरिष्यति मानवः ।सोऽपि बन्धैर्विमुक्तस्ते सुसुखं वसते सुखी ॥६३॥श्रीवराह उवाच ।एवं स्तुता तदा देवी देवैः प्रणतिपूर्वकम् ।उवाच देवान् सुश्रोणी वृणुध्वं वरमुत्तमम् ॥६४॥देवा ऊचुः ।देवि स्तोत्रमिदं ये हि पठिष्यन्ति तवानघे ।सर्वकामसमापन्नान् कुरु देवि स नो वरः ॥६५॥एवमस्त्विति तान् देवानुक्त्वा देवी पराऽपरा ।विससर्ज ततो देवान् स्वयं तत्रैव संस्थिता ॥६६॥एतद् द्वितीयं यो जन्म वेद देव्या धराधरे ।स वीतशोको विरजाः पदं गच्छत्यनामयम् ॥६७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुर्नवतितमोऽध्यायः ॥९४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP