संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३२ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३२ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३२ Translation - भाषांतर पूर्वं ब्रह्माऽव्ययः शुद्धः परादपरसंज्ञितः ।स सिसृक्षुः प्रजास्त्वादौ पालनं च विचिन्तयत् ॥२॥तस्य चिन्तयतस्त्वङ्गाद् दक्षिणाच्छ्वेतकुण्डलः ।प्रादुर्बभूव पुरुषः श्वेतमाल्यानुलेपनः ॥३॥तं दृष्ट्वोवाच भगवांश्चतुष्पादं वृषाकृतिम् ।पालयेमाः प्रजाः साधो त्वं ज्येष्ठो जगतो भव ॥४॥इत्युक्तः समवस्थोऽसौ चतुःपद्भ्यां कृते युगे ।त्रेतायां स समस्तृभ्यां द्वे चैव द्वापरेऽभवत् ।कलावेकेन पादेन प्रजाः पालयते प्रभुः ॥५॥षड्भेदो ब्राह्मणानां स त्रिधा क्षत्रे व्यवस्थितः ।द्विधा वैश्येकधा शूद्रे स्थितः सर्वगतः प्रभुः ।रसातलेषु सर्वेषु द्वीपवर्षे स्वयं प्रभुः ॥६॥द्रव्यगुणक्रियाजातिचतुःपादः प्रकीर्तितः ।संहितापदक्रमश्चैव त्रिश्रृङ्गोऽसौ स्मृतो बुधैः ॥७॥तथा आद्यन्त ओङ्कार द्विशिराः सप्तहस्तवान् ।त्रिबद्धबद्धो विप्राणां मुख्यः पालयते जगत् ॥८॥स धर्मः पीडितः पूर्वं सोमेनाद्भुतकर्मण ।तारां जिघृक्षता पत्नीं भ्रातुराङ्गिरसस्य ह ॥९॥सोऽपायाद् भीषितस्तेन बलिना क्रूरकर्मणा ।अरण्यं गहनं घोरमाविवेश तदा प्रभुः ॥१०॥तस्मिन् गते सुराः सर्वे असुराणां तु पत्नयः ।जिघृक्षन्तस्तदौकांसि बभ्रमुर्धर्मवञ्चिताः ।असुरा अपि तद्वच्च सुरवेश्मनि बभ्रमुः ॥११॥निर्मर्यादे तथा जाते धर्मनाशे च पार्थिव ।देवासुरा युयुधिरे सोमदोषेण कोपिताः ।स्त्रीहेतोश्च महाभाग विविधायुधपाणयः ॥१२॥तान् दृष्ट्वा युध्यतो देवानसुरैः सह कोपितान् ।नारदः प्राह संगम्य पित्रे ब्रह्मणि हर्षितः ॥१३॥स हंसयानमारुह्य सर्वलोकपितामहः ।निवारयामास तदा कस्यार्थे युद्धमब्रवीत् ॥१४॥सर्वे शशंसुः सोमं तु स तु बुद्ध्वा स्वकं सुतम् ।पीडनादपयातं तु गहनं वनमाश्रितम् ॥१५॥ततो ब्रह्मा ययौ तत्र देवासुरयुतस्त्वरन् ।ददर्श च सुरैः सार्द्धं चतुष्पादं वृषाकृतिम् ।चरन्तं शशिसङ्काशं दृष्ट्वा देवानुवाच ह ॥१६॥ब्रह्मा उवाच ।अयं मे प्रथमः पुत्रः पीडितः शशिना भृशम् ।पत्नीं जिघृक्षता भ्रातुर्द्धर्मसंज्ञो महामुनिः ॥१७॥इदानीं तोषयध्वं वै सर्व एव सुरासुराः ।येन स्थितिर्वो भवति समं देवासुरा इति ॥१८॥ततः सर्वे स्तुतिं चक्रुस्तस्य देवस्य हर्षिताः ।विदित्वा ब्रह्मणो वाक्यात् संपूर्णशशिसन्निभम् ॥१९॥देवा ऊचुः ।नमोऽस्तु शशिसङ्काश नमस्ते जगतः पते ।नमोऽस्तु देवरूपाय स्वर्गमार्गप्रदर्शक ।कर्ममार्गस्वरूपाय सर्वगाय नमो नमः ॥२०॥त्वयेयं पाल्यते पृथ्वी त्रैलोक्यं च त्वयैव हि ।जनस्तपस्तथा सत्यं त्वया सर्वं तु पाल्यते ॥२१॥न त्वया रहितं किंचिज्जगत्स्थावरजङ्गमम् ।विद्यते त्वद्विहीनं तु सद्यो नश्यति वै जगत् ॥२२॥त्वमात्मा सर्वभूतानां सतां सत्त्वस्वरूपवान् ।राजसानां रजस्त्वं च तामसानां तम एव च ॥२३॥चतुष्पादो भवान् देव चतुश्श्रृङ्गस्त्रिलोचनः ।सप्तहस्तस्त्रिबन्धश्च वृषरूप नमोऽस्तु ते ॥२४॥त्वया हीना वयं देव सर्व उन्मार्गवर्त्तिनः ।तन्मार्गं यच्छ मूढानां त्वं हि नः परमा गतिः ॥२५॥एवं स्तुतस्तदा देवैर्वृषरूपी प्रजापतिः ।तुष्टः प्रसन्नमनसा शान्तचक्षुरपश्यत ॥२६॥दृष्टमात्रास्तु ते देवाः स्वयं धर्मेण चक्षुषा ।क्षणेन गतसंमोहाः सम्यक्सद्धर्मसंहिताः ॥२७॥असुरा अपि तद्वच्च ततो ब्रह्मा उवाच तम् ।अद्यप्रभृति ते धर्म तिथिरस्तु त्रयोदशी ॥२८॥यस्तामुपोष्य पुरुषो भवन्तं समुपार्जयेत् ।कृत्वा पापसमाहारं तस्मान्मुञ्चति मानवः ॥२९॥यच्चारण्यमिदं धर्म्म त्वया व्याप्तं चिरं प्रभो ।ततो नाम्ना भविष्ये तद्धर्मारण्यमिति प्रभो ॥३०॥चतुस्त्रिपाद् द्व्येकपाच्च प्रभो त्वंकृतादिभिर्ल्लक्ष्यसे येन लोकैः ।तथा तथा कर्मभूमौ नभश्चप्रायोयुक्तः स्वगृहं पाहि विश्वम् ॥३१॥इत्युक्तमात्रः प्रपितामहोऽधुनासुरासुराणामथ पश्यतां नृप ।अदृश्यतामगमत् स्वालयांश्चजग्मुः सुराः सवृषा वीतशोकाः ॥३२॥धर्मोत्पत्तिं य इमां श्रावयीततदा श्राद्धे तर्पयेत पितॄंश्च ।त्रयोदश्यां पायसेन स्वशक्त्यास स्वर्गगामी तु सुरानुपेयात् ॥३३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP