संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ६९ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ६९ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ६९ Translation - भाषांतर भद्राश्व उवाच ।भगवन् त्वच्छरीरे तु यद् वृत्तं द्विजसत्तम ।चिरजीवी भवांस्तन्मे वक्तुमर्हसि सत्तम ॥१॥अगस्त्य उवाच ।मच्छरीरमिदं राजन् बहुकौतूहलान्वितम् ।अनेककल्पसंस्थायि वेदविद्याविशोधितम् ॥२॥अटन् महीमहं सर्वां गतवानस्मि पार्थिव ।इलावृतं महावर्षं मेरोः पार्श्वे व्यवस्थितम् ॥३॥तत्र रम्यं सरो दृष्टं तस्य तीरे महाकुटी ।तत्रोपवासशिथिलं दृष्टवानस्मि तापसम् ।अस्थिचर्मावशेषं तु चीरवल्कलधारिणम् ॥४॥तं दृष्टृवाऽहं नृपश्रेष्ठ क एष नृपसत्तम ।विश्वास्य प्रतिपत्त्यर्थं विधेयं मे नरोत्तम ॥५॥एवं चित्तयतो मह्यं स मां प्राह महामुनिः ।स्थीयतां स्थीयतां ब्रह्मन्नातिथ्यं करवाणि ते ॥६॥एतच्छ्रुत्वा वचस्तस्य प्रविष्टोऽहं कुटीं तु ताम् ।तावत् पश्याम्यहं विप्रं ज्वलन्तमिव तेजसा ॥७॥भूमौ स्थितं तु मां दृष्ट्वा हुङ्कारमकरोद् द्विजः ।तद्धुङ्कारात् तु पातालं भित्त्वा पञ्च हि कन्यकाः ॥८॥निर्ययुः काञ्चनं पीठमेका तासां प्रगृह्य वै ।सा मां प्रादात् तदाऽन्याऽदात् सलिलं करसंस्थितम् ॥९॥गृहीत्वाऽन्या तु मे पादौ क्षालितुं चोपचक्रमे ।अन्ये द्वे व्यजने गृह्य मत्पक्षाभ्यां व्यवस्थिते ॥१०॥ततो हुङ्कारमकरोत् पुनरेव महातपाः ।तच्छब्दादन्तरं हैमद्रोणीं योजनविस्तृताम् ।गृह्याजगाम मकरोत्प्लवं सरसि पार्थिव ॥११॥तस्यां तु कन्याः शतशो हेमकुम्भकराः शुभाः ।आययुस्तमथो दृष्ट्वा स मुनिः प्राह मां नृप ॥१२॥स्नानार्थं कल्पितं ब्रह्मन्निदं ते सर्वमेव तु ।द्रोणीं प्रविश्य चेमां त्वं स्नातुमर्हसि सत्तम ॥१३॥ततोऽहं तस्य वचनात् तस्यां द्रोण्यां नराधिप ।विशामि तावत् सरसि सा द्रोणी प्रत्यमज्जत ॥१४॥द्रोण्यां जले निमग्नोऽहम् इति मत्वा नरेश्वर ।उन्मग्नोऽहं ततो लोकमपूर्वं दृष्टवांस्ततः ॥१५॥सुहर्म्यकक्ष्यायतनं विशालंरथ्यापथं शुद्धजनानुकीर्णम् ।नीत्युत्तमैः सेवितमात्मविद्भि -र्नृभिः पुराणैर्नयमार्गसंस्थैः ॥१६॥संसारचर्यापरिघाभिरुग्रंगम्भीरपातालतलस्थमाद्यम् ।सितैर्नृभिः पाशवराग्रहस्तैःद्विपाश्वसंघैर्विविधैरुपेतम् ॥१७॥विचित्रपद्मोत्पलसंवृतानिसरांसि नानाविहगाकुलानि ।अम्भोजपत्रस्थितभृङ्गनादै-रुद्गीतवन्तीव लयैरनैकैः ।कैलासश्रृङ्गप्रतिमानि तीरे -ष्वनेकरत्नोत्पलसंचितानि ।गृहाणि धन्याध्युषितानि नीचै -रुपासितानि द्विजदेवविप्रैः ॥१८॥कैलासश्रृङ्गप्रतिमानि तीरे -ष्वनेकरत्नोत्पलसंचितानि ।गृहाणि धन्याध्युषितानि नीचै -रुपासितानि द्विजदेवविप्रैः ॥१९॥पद्मानि भृङ्गावनतानि चेलु -स्तेषां पुनर्गुरुभारादजस्त्रम् ।जलेषु येषां सुस्वरास्यो द्विजाति-र्वेदोदितानाह विचित्रमन्त्रान् ॥२०॥सिताब्जमालार्चितगात्रवन्तिवासोत्तरीयाणि खगप्रवारैः ।सरांस्यनेकानि तथा द्विजास्तुपठन्ति यज्ञार्थविधिं पुराणम् ॥२१॥भ्रमन्नहं तेषु सरःस्वपश्यंवृन्दान्यनेकानि सुराङ्गनानाम् ।विद्याधराणां च तथैव कन्याःस्नानाय तं देशमुपागताश्च ॥२२॥ततः कदाचिद् भ्रमता नृपोत्तमप्रदृष्टमन्यत्सुसरः सुतोयम् ।प्राग् दृष्टमेकं तु तथैव तीरेकुटीं प्रपश्यामि यथा पुराऽहम् ॥२३॥यावत् कुटीं तां प्रविशामि राजन्तपस्विनं तं स्थितमेकदेशे ।दृष्ट्वाभिगम्याभिवदामि यावत्स्मयन्नुवाचाप्रतिमप्रभावः ॥२४॥तापस उवाच ।किं मां विप्र न जानीषे प्राग्दृष्टमपि सत्तम ।येन त्वं मूढवल्लोकमिममप्यनुपश्यसि ॥२५॥दृष्टं मत्कमिदं देवैर्भुवनं यन्न दृश्यते ।त्वत्प्रियार्थं मया लोको दर्शितः स द्विजोत्तम ॥२६॥संपदं पश्य लोकस्य मदीयस्य महामुने ।दधिक्षीरवहा नद्यस्तथा सर्पिर्मयान् ह्रदान् ॥२७॥गृहाणां हेमरत्नानां स्तम्भान् हेममयान् गृहे ।रत्नोत्पलचितां भूमिं पद्मरागसमप्रभाम् ।पारिजातप्रसूनाढ्यां सेवितां यक्षकिन्नरैः ॥२८॥एवमुक्तस्तदा तेन तापसेन नराधिप ।विस्मयापन्नहृदयस्तमेवाहं तु पृष्टवान् ॥२९॥भगवंस्तव लोकोऽयं सर्वलोकवरोत्तमः ।सर्वलोका मया दृष्टा ब्रह्मशक्रादिसंस्थिताः ॥३०॥अयं त्वपूर्वो लोको मे प्रतिभाति तपोधन ।संपदैश्वर्यतेजोभिर्हर्म्यरत्नचयैस्तथा ॥३१॥सरोभिः सूदकैः पुण्यैर्जलजैश्च विशेषतः ।अत्यद्भुतमिदं लोकं दृष्टवानस्मि ते मुने ॥३२॥इत्थंभूतं कथं लोको भवांश्चेत्थं व्यवस्थितः ।कथयस्वैतस्य हेतुं मे कश्च त्वं मुनिपुंगव ॥३३॥कथमिलावृते वर्षे सरस्तीरे महामुने ।दृष्टवानस्मि सोऽहं त्वं सरस्तत् सा कुटी मुने ।हेमहर्म्याकुले लोके किं वा स्थानं तु ते कुटिः ॥३४॥एवमुक्तः स भगवात् मयाऽसौ मुनिपुंगवः ।प्राह मह्यं यथावृत्तं यत् तु राजेन्द्र तच्छृणु ॥३५॥तापस उवाच ।अहं नारायणो देवो जलरूपी सनातनः ।येन व्याप्तमिदं विश्वं त्रैलोक्यं सचराचरम् ॥३६॥या सा त्वाप्याकृतिस्तस्य देवस्य परमेष्ठिनः ।सोऽहं वरुण इत्युक्तः स्वयं नारायणः परः ॥३७॥त्वया च सप्त जन्मानि अहमाराधितः पुरा ।तेन त्रैलोक्यनाशेऽपि त्वमेकस्त्वभिलक्षितः ॥३८॥एवमुक्तस्तदा तेन निद्रामीलितलोचनः ।पतितोऽहं धरापृष्ठे तत्क्षणात् पुनरुत्थितः ॥३९॥यावत्पश्याम्यहं राजन् तमृषिं तच्च वै पुरम् ।तावन्मेरुगिरेर्मूर्ध्निं पश्याम्यात्मानमात्मना ॥४०॥समुद्रान् सप्त पश्यामि तथैव कुलपर्वतान् ।सप्तद्वीपवतीं पृथ्वीं दृष्टवानस्मि पार्थिव ॥४१॥अद्यापि तं लोकवरं ध्यायंस्तिष्ठामि सुव्रत ।कदा प्राप्स्येऽथ तं लोकमिति चिन्तापरोऽभवम् ॥४२॥एवं ते कौतुकं राजन् कथितं परमेष्ठिनः ।यद् वृत्तं मम देहे तु किमन्यच्छ्रोतुमिच्छसि ॥४३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकोनसप्ततितमोऽध्यायः ॥६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP