संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७४ Translation - भाषांतर श्रीवराह उवाच ।पुनस्ते ऋषयः सर्वे तं पप्रच्छुः सनातनम् ।रुद्रं पुराणपुरुषं शाश्वतं ध्रुवमव्ययम् ।विश्वरूपमजं शंभुं त्रिनेत्रं शूलपाणिनम् ॥१॥ऋषय ऊचुः ।त्वं परः सर्वदेवानामस्माकं च सुरेश्वर ।पृच्छाम तेन त्वां प्रश्नमेकं तद् वक्तुमर्हसि ॥२॥भूमिप्रमाणसंस्थानं पर्वतानां च विस्तरम् ।समुद्राणां नदीनां च ब्रह्माण्डस्य च विस्तरम् ।अस्माकं ब्रूहि कृपया देवदेव उमापते ॥३॥रुद्र उवाच ।सर्वेष्वेव पुराणेषु भूर्लोकः परिकीर्त्यते ।ब्रह्मविष्णुभवादीनां वायव्ये च सविस्तरम् ॥४॥इदानीं च प्रवक्ष्यामि समासाद् वः क्षमान्तरम् ।तन्निबोधत धर्मज्ञा गदतो मम सत्तमाः ॥५॥योऽसौ सकलविद्यावबोधितपरमात्मरूपी विगतकल्मषःपरमाणुरचिन्त्त्यात्मा नारायणः सकललोकालोकव्यापीपीताम्बरोरुवक्षः क्षितिधरो गुणतोमुख्यतस्तु -अणुमहद्दीर्घह्रस्वमकृशमलोहितमित्येवमाद्योपलक्षित -विज्ञानमात्ररूपम् । स भगवांस्त्रिप्रकारः सत्त्व -{५}रजस्तमोद्रिक्तः सलिलं ससर्ज । तच्च सृष्ट्वा -नादिपुरुषः परमेश्वरो नारायणः सकलजगन्मयःसर्वमयो देवमयो यज्ञमय आपोमय आपोमूर्त्तिर्योगनिद्रयासुप्तस्य तस्य नाभौ सदब्जं निःससार । तस्मिन्सकल -वेदनिधिरचिन्त्यात्मा परमेश्वरो ब्रह्मा प्रजापतिर -{१०}भवत् स च सनकसनन्दनसनत्कुमारादीन् ज्ञानधर्मिणःपूर्वमुत्पाद्य पश्चान्मनुं स्वायंभुवं मरीच्यादीन्दक्षान्तान् ससर्ज । यः स्वयंभुवो मनुर्भगवतासृष्टस्तस्मादारभ्य भुवनस्यातिविस्तरो वर्ण्यते ।तस्य च मनोर्द्वौ पुत्रौ बभूवतुः प्रियव्रतोत्तानपादौ । {१५}प्रियव्रतस्य दश पुत्रा बभूवुः । आग्नीघ्रोऽग्निबाहु -र्मेधो मेधातिथिर्ध्रुवो ज्योतिष्मान् द्युतिमान्हव्यवपुष्मत्सवनान्ताः ।स च प्रियव्रतः सप्तद्वीपेषु सप्त पुत्रान् स्थापयामास ।तत्र चाग्नीध्रं जम्बूद्वीपेश्वरं चक्रे। {२०}शाकद्वीपेश्वरं मेधातिथिं कुशे ज्योतिष्मन्तंक्रौञ्चे द्युतिमन्तं शाल्मले वपुष्मन्तंगोमेदस्येश्वरं हव्यं पुष्कराधिपतिं सवनमिति ।पुष्करेशस्यापि सवनस्य द्वौ पुत्रौमहावीतधातकी भवेताम् ॥{२५}तयोर्देशौ गोमेदश्च नाम्ना व्यवस्थितौ ।धातकेर्धातकीखण्डं कुमुदस्य च कौमुदम् ।शाल्मलाधिपतेरपि वपुष्मन्तस्य त्रयः पुत्राःसकुशवैद्युतजीमूतनामानः ।सकुशस्य सकुशनामा देशः वैद्युतस्य वैद्युतः {३०}जीमूतस्य जीमूत इति एते शाल्मलेर्देशा इतितथा च द्युतिमतः सप्त पुत्रकाः कुशलो मनुगोष्ठौष्णःपीवरोद्यान्धकारकमुनिदुन्दुभिश्चेति । तन्नाम्नाक्रौञ्चे सप्त महादेशनामानि । कुशद्वीपेश्वरस्यापिज्योतिष्मतः सप्तैव पुत्रास्तद्यथा उद्भिदो वेणुमां - {३५}श्चैव रथोपलम्बनो धृतिः प्रभाकरः - कपिलइति। तन्नामान्येव वर्षाणि द्रष्टव्यानिशाकाधिपस्यापि सप्त पुत्रा मेधातिथेस्तद्यथाशान्तभयशिशिरसुखोदयंनन्दशिवक्षेमकध्रुवा इतिएते सप्त पुत्राः एतन्नामान्येव वर्षाणि । {४०}अथ जम्बूद्वीपेश्वरस्यापि आग्नीध्रस्य नव पुत्रा बभूवुः ।तद्यथा नाभिः किंपुरुषो हरिवर्ष इलावृतो रम्यकोहिरण्मयः कुरुर्भद्राश्वः केतुमालश्चेति । एतन्नामान्येववर्षाणि । नाभेर्हेमवन्तं हेमकूटं किंपुरुषं नैषधं हरिवर्षंमेरुमध्यमिलावृत्तं नीलं रम्यकं श्वेतं हिरण्मयं {४५}उत्तरं च श्रृङ्गवतः कुरवो माल्यवन्तं भद्राश्वंगन्धमादनं केतुमालमिति । एवं स्वायंभुवेऽन्तरे भुवन-प्रतिष्ठा । कल्पे कल्पे चैवमेव सप्त सप्त पार्थिवैःक्रियते भूमेः पालनं व्यवस्था च ।एष स्वभावः कल्पस्य सदा भवतीति । {५०}अत्र नाभेः सर्गं कथयामि । नाभिर्मेरुदेव्यां पुत्रमजनयद्ऋषभनामानं तस्य भरतो जज्ञे पुत्रश्च तावदग्रजः ।तस्य भरतस्य पिता ऋषभो हिमाद्रेर्दक्षिणंवर्षमदाद् भारतं नाम । भरतस्यापि पुत्रः सुमतिर्नामा ।तस्य राज्यं दत्त्वा भरतोऽपि वनं ययौ । {५५}सुमतेस्तेजस्तत्पुत्रः सत्सुर्नामा । तस्यापीन्द्रद्युम्नो नाम ।तस्यापि परमेष्ठी तस्यापि प्रतिहर्त्ता तस्य निखातःनिखातस्य उन्नेता उन्नेतुरप्यभावस्तस्योद्गाता तस्यप्रस्तोता प्रस्तोतुश्च विभुः विभोः पृथुः पृथोरनन्तःअनन्तस्यापि गयः गयस्य नयस्तस्य विराटः {६०}तस्यापि महावीर्यस्ततः सुधीमान् धीमतो महान्महतो भौमनो भौमनस्य त्वष्टा त्वष्टुर्विरजाःतस्य राजो राजस्य शतजित् । {६३}तस्य पुत्रशतं जज्ञे तेनेमा वर्द्धिताः प्रजाः ।तैरिदं भारतं वर्षं सप्तद्वीपं समाङ्कितम् ॥६॥तेषां वंशप्रसूत्या तु भुक्तेयं भारती प्रजा ।कृतत्रेतादियुक्त्या तु युगाख्या ह्येकसप्ततिः ॥७॥भुवनस्य प्रसङ्गेन मन्वन्तरमिदं शुभम् ।स्वायंभुवं च कथितं मनोर्द्वीपान्निबोधत ॥८॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःसप्ततितमोऽध्यायः ॥७४ । N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP