संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३३ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३३ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३३ Translation - भाषांतर श्रीवराह उवाच ।अथापरां रुद्रसंभूतिमाद्यांश्रृणुष्व राजन्निति सोऽभ्युवाच ।महातपाः प्रीतितो धर्म्मदक्षःक्षमास्त्रधारी ऋषिरुग्रतेजाः ॥१॥जातः प्रजानां पतिरुग्रतेजा ।ज्ञानं परं तत्त्वभावं विदित्वा ।सृष्टिं सिसृक्षुः क्षुभितोऽतिकोपाद-वृद्धिकाले जगतः प्रकामम् ॥२॥तपस्यतोऽतः स्थिरकीर्तिः पुराणोरजस्तमोध्वस्तगतिर्बभूव ।वरो वरेण्यो वरदः प्रतापीकृष्णारुणः पुरुषः पिङ्गनेत्रः ॥३॥रुदन्नुक्तो ब्रह्मणा मा रुद त्वंरुद्रस्ततोऽसावभवत् पुराणः ।नयस्व सृष्टिं विततस्वरूपांभवान् समर्थोऽसि महानुभाव ॥४॥इत्युक्तमात्रः सलिले ममज्जमग्ने ससर्जात्मभवाय दक्षः ।कस्थे तदा देववरे वितेनुःसृष्टिं तु ते मानसा ब्रह्मजाताः ॥५॥तस्यां ततायां तु सुराधिपे तुपैतामहं यज्ञवरं प्रकामम् ।मग्नः पुरा यत्सलिले स रुद्रःउत्सृज्य विश्वं तु सुरान् सिसृक्षुः ॥६॥सुस्त्राव यज्ञं सुरसिद्धयक्षा-नुपागतान् क्रोधवशं जगाम ।मन्युं प्रदीप्तं परिभाव्य केनसृष्टं जगन्मां व्यतिरिच्य मोहात् ॥७॥हा हेति चोक्ते ज्वलनार्चिषस्तुतत्राभवन् क्षुद्रपिशाचसङ्घावेतालभूतानि च योगिसङ्घाः ॥८॥घनं यदा तैर्विततं वियच्चभूमिश्च सर्वाश्च दिशश्च लोकाः ।तदा स सर्वज्ञतया चकारधनुश्चतुर्विंशतिहस्तमात्रम् ॥९॥गुणं त्रिवृत्तं च चकार रोषा-दादत्त दिव्ये च धनुर्गुणं च ।ततश्च पूष्णो दशनानविध्यद्भगस्य नेत्रे वृषणौ क्रतोश्च ॥१०॥स विद्धबीजो व्यपयात्क्रतुश्चमार्गं वायुर्धारधन् यज्ञवाटात् ।देवाश्च सर्वे पशुपतिमुपेयु-र्जग्मुश्च सर्वे प्रणतिं भवस्य ॥११॥आगम्य तत्रैव पितामहस्तुभवं प्रतीतः संपरिष्वज्य देवान् ।भक्त्योपेतान् वीक्षयद् देवदेवान्विज्ञानमन्तः कुरु वीरबाहो ॥१२॥रुद्र उवाच ।सृष्टः पूर्वं भवताऽहं न चेमेकस्मान्न भागं परिकल्पयन्ति ।यज्ञोद्भवं तेन रुषा मयेमेहृतज्ञाना विकृता देवदेव ॥१३॥ब्रह्मा उवाच ।देवाः शंभुं स्तुतिभिर्ज्ञानहेतोर्यजध्वमुच्चैरसुराश्च सर्वे ।येन रुद्रो भगवांस्तोषमेतिसर्वज्ञता तोषमात्रस्य च स्यात् ॥१४॥इत्युक्तास्तेन ते देवाः स्तुतिं चक्रुर्महात्मनः ॥१५॥देवा ऊचुः ।नमो देवातिदेवाय त्रिनेत्राय महात्मने ।रक्तपिङ्गलनेत्राय जटामुकुटधारिणे ॥१६॥भूतवेतालजुष्टाय महाभोगोपवीतिने ।भीमाट्टहासवक्त्राय कपर्दिन् स्थाणवे नमः ॥१७॥पूष्णो दन्तविनाशाय भगनेत्रहने नमः ।भविष्यवृषचिह्नाय महाभूतपते नमः ॥१८॥भविष्यत्रिपुरान्ताय तथान्धकविनाशिने ।कैलासवरवासाय करिकृत्तिनिवासिने ॥१९॥विकरालोद्र्ध्वकेशाय भैरवाय नमो नमः ।अग्निज्वालाकरालाय शशिमौलिकृते नमः ॥२०॥भविष्यकृतकापालिव्रताय परमेष्ठिने ।तथा दारुवनध्वंसकारिणे तिग्मशूलिने ॥२१॥कृतकङ्कणभोगीन्द्र नीलकण्ठ त्रिशूलिने ।प्रचण्डदण्डहस्ताय वडवाग्निमुखाय च ॥२२॥वेदान्तवेद्याय नमो यज्ञमूर्ते नमो नमः ।दक्षयज्ञविनाशाय जगद्भयकराय च ॥२३॥विश्वेश्वराय देवाय शिवशंभुभवाय च ।कपर्दिने करालाय महादेवाय ते नमः ॥२४॥एवं देवैः स्तुतः शंभुरुग्रधन्वा सनातनः ।उवाच देवदेवोऽहं यत्करोमि तदुच्यताम् ॥२५॥देवा ऊचुः ।वेदशास्त्राणि विज्ञानं देहि नो भव माचिरम् ।यज्ञं सरहस्यं नो यदि तुष्टोऽसि नः प्रभो ॥२६॥महादेव उवाच ।भवन्तः पशवः सर्वे भवन्तु सहिता इति ।अहं पतिर्वो भवतां ततो मोक्षमवाप्स्यथ ।तथेति देवास्तं प्राहुस्ततः पशुपतिर्भवत् ॥२७॥ब्रह्मा पशुपतिं प्राह प्रसन्नेनान्तरात्मना ।चतुर्द्दशी ते देवेश तिथिरस्तु न संशयः ॥२८॥तस्यां तिथौ भवन्तं ये यजन्ते श्रद्धयान्विताः ।उपोष्य पश्चाद्भुञ्जीयाद्गोधूमान्नेन वै द्विजान्॥तस्य त्वं तुष्टिमापन्नो नय स्थानमनुत्तमम् ॥२९॥एवमक्तस्तदा रुद्रो ब्रह्मणाऽव्यक्तजन्मना ।दन्तान् नेत्रे फले प्रादाद्भगपूष्णोः क्रतोरपि ।परिज्ञानं च सकलं स प्रादाच्च सुरेष्वपि ॥३०॥एवं रुद्रस्य संभूतिः संभूता ब्रह्मणः पुरा ।अनेनैव प्रयोगेन देवानां पतिरुच्यते ॥३१॥यश्चैनं श्रृणुयान्नित्यं प्रातरुत्थाय मानवः ।सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात् ॥३२॥॥ इति श्रीवराहरपुराणे भगवच्छास्त्रे त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP