संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ७७ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ७७ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ७७ Translation - भाषांतर रुद्र उवाच ।यदेतत् कर्णिकामूलं मेरोर्मध्यं प्रकीर्तितम् ।तद् योजनसहस्त्राणि संख्यया मानतः स्मृतम् ॥१॥चत्वारिंशत् तथा चाष्टौ सहस्त्राणि तु मण्डलैः ।शैलराजस्य तत्तत्र मेरुमूलमिति स्मृतम् ॥२॥तेषां गिरिसहस्त्राणामनेकानां महोच्छ्रयः ।दिगष्टौ च पुनस्तस्य मर्यादापर्वताः शुभाः ॥३॥जठरो देवकूटश्च पूर्वस्यां दिशि पर्वतौ ।पूर्वपश्चायतावेतावर्णवान्तर्व्यवस्थितौ ।मर्यादापर्वतानेतानष्टानाहुर्मनीषिणः ॥४॥योऽसौ मेरुर्द्विजश्रेष्ठाः प्रोक्तः कनकपर्वतः ।विष्कम्भांस्तस्य वक्ष्यामि श्रृणुध्वं गदतस्तु तान् ॥५॥महापादास्तु चत्वारो मेरोरथ चतुर्दिशम् ।यैर्न चचाल विष्टब्धा सप्तद्वीपवती मही ॥६॥दशयोजनसाहस्त्रं व्यायामस्तेषु शङ्क्यते ।तिर्यगूर्ध्वं च रचिता हरितालतटैर्वृताः ॥७॥मनःशिलादरीभिश्च सुवर्णमणिचित्रिताः ।ऽअनेकसिद्धभवनैः क्रीडास्थानैश्च सुप्रभाः ॥८॥पूर्वेण मन्दरस्तस्य दक्षिणे गन्धमादनः ।विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः ॥९॥तेषां श्रृङ्गेषु चत्वारो महावृक्षाः प्रतिष्ठिताः ।देवदैत्याप्सरोभिश्च सेविता गुणसंचयैः ॥१०॥मन्दरस्य गिरेः श्रृङ्गे कदम्बो नाम पादपः ।प्रलम्बशाखाशिखरः कदम्बश्चैत्यपादपः ॥११॥महाकुम्भप्रमाणेश्च पुष्पैर्विकचकेसरैः ।महागन्धबनोज्ञैश्च शोभितः सर्वकालजैः ॥१२॥समासेन परिवृतो भुवनैर्भूतभावनैः ।सहस्त्रमधिकं सोऽथ गन्धेनापूरयन् दिशः ॥१३॥भद्राश्वो नाम वृक्षोऽयं वर्षाद्रेः केतुसंभवः ।कीर्तिमान् रूपवाञ्छ्रीमान् महापादपपादपः ।यत्र साक्षाद्धृषीकेशः सिद्धसङ्घैर्निषेव्यते ॥१४॥तस्य भद्रकदम्बस्य तथाश्ववदनो हरिः ।प्राप्तवांश्चामरश्रेष्ठः स हि सानुं पुनः पुनः ॥१५॥तेन चालोकितं वर्षं सर्वद्विपदनायकाः ।यस्य नाम्ना समाख्यातो भद्राश्वेति न संशयः ॥१६॥दक्षिणस्यापि शैलस्य शिखरे देवसेविते ।जम्बूः सद्यः पुष्पफला महाशाखोपशोभिता ॥१७॥तस्या ह्यतिप्रमाणानि स्वादूनि च मृदूनि च ।फलान्यमृतकल्पानि पतन्ति गिरिमूर्धनि ॥१८॥तस्माद् गिरिवरश्रेष्ठात् फलप्रस्यन्दवाहिनी ।दिव्या जाम्बूनदी नाम प्रवृत्ता मधुवाहिनी ॥१९॥तत्र जाम्बूनदं नाम सुवर्णमनलप्रभम् ।देवालङ्कारमतुलमुत्पन्नं पापनाशनम् ॥२०॥देवदानवगन्धर्वयक्षराक्षसगुह्यकाः ।पपुस्तदमृतप्रख्यं मधु जम्बूफलस्त्रवम् ॥२१॥सा केतुर्दक्षिणे वर्षे जम्बूर्लोकेषु विश्रुता ।यस्या नाम्ना समाख्याता जम्बूद्वीपेति मानवैः ॥२२॥विपुलस्य च शैलस्य दक्षिणेन महात्मनः ।जातः श्रृङ्गेति सुमहानश्वत्थश्चेति पादपः ॥२३॥महोच्छ्रायो महास्कन्धो नैकसत्त्वगुणालयः ।कुम्भप्रमाणै रुचिरैः फलैः सर्वर्त्तुकैः शुभैः ॥२४॥स केतुः केतुमालानां देवगन्धर्वसेवितः ।केतुमालेति विख्यातो नाम्ना तत्र प्रकीर्तितः ।तन्निबोधत विप्रेन्द्रा निरुक्तं नामकर्मणः ॥२५॥क्षीरोदमथने वृत्ते माला स्कन्धे निवेशिताः ।इन्द्रेण चैत्यकेतोस्तु केतुमालस्ततः स्मृतः ।तेन तच्चिह्नितं वर्षं केतुमालेति विश्रुतम् ॥२६॥सुपार्श्वस्योत्तरे श्रृङ्गे वटो नाम महाद्रुमः ।न्यग्रोधो विपुलस्कन्धो यस्त्रियोजनमण्डलः ॥२७॥माल्यदामकलापैश्च विविधैस्तु समन्ततः ।शाखाभिर्लम्बमानाभिः शोभितः सिद्धसेवितः ॥२८॥प्रलम्बकुम्भसदृशैर्हेमवर्णैः फलैः सदा ।स ह्युत्तरकुरूणां तु केतुवृक्षः प्रकाशते ॥२९॥सनत्कुमारावरजा मानसा ब्रह्मणः सुताः ।सप्त तत्र महाभागाः कुरवो नाम विश्रुताः ॥३०॥तत्र स्थिरगतैर्ज्ञानैर्विरजस्कैर्महात्मभिः ।अक्षयः क्षयपर्यन्तो लोकः प्रोक्तः सनातनः ॥३१॥तेषां नामाङ्कितं वर्षं सप्तानां वै महात्मनाम् ।दिवि चेह च विख्याता उत्तराः कुरवः सदा ॥३२॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तसप्ततितमोऽध्यायः ॥७७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP