संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ४८ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ४८ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ४८ Translation - भाषांतर दुर्वासा उवाच ।तद्वद् भाद्रपदे मासि शुक्लपक्षे तु द्वादशीम् ।संकल्प्य विधिना देवमर्च्चयेत् परमेश्वरम् ॥१॥नमोऽस्तु कल्किने पादौ हृषीकेशाय वै कटिम् ।म्लेच्छविध्वंसनायेति जगन्मूर्त्ते तथोदरम् ॥२॥शितिकण्ठाय कण्ठं तु खड्गपाणेति वै भुजौ ।चतुर्भुजायेति हस्तौ विश्वमूर्त्ते तथा शिरः ॥३॥एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।विन्यसेत् कल्किनं देवं सौवर्णं तत्र कारयेत् ॥४॥सितवस्त्रयुगच्छन्नं गन्धपुष्पोपशोभितम् ।कृत्वा प्रभाते विप्राय प्रदेयं शास्त्रवित्तमे ।एवं कृते भवेद् यस्तु तन्निबोध महामुने ॥५॥पूर्वं राजा विशालोऽभूत् काश्यां पुर्यां महाबलः ।गोत्रजैर्हृतराज्योऽसौ गन्धमादनमाविशत् ॥६॥तस्य द्रोण्यां महाराज बदरीं प्राप्य शोभनाम् ।हृतराज्यो विशेषेण गतश्रीको नरोत्तमः ॥७॥कदाचिदागतौ तत्र पुराणावृषिसत्तमौ ।नरनारायणौ देवौ सर्वदेवनमस्कृतौ ॥८॥तौ दृष्ट्वा तत्र राजानं पूर्वागतमरिंदमौ ।ध्यायन्तं परमं ब्रह्म विष्ण्वाख्यं परमं पदम् ॥९॥तौ प्रीतावूचतुस्तं तु राजानं क्षीणकल्मषम् ।वरं वृणीष्व राजेन्द्र वरदौ स्वस्तवागतौ ॥१०॥राजोवाच ।भवन्तौ कौ न जानामि कस्य गृह्णाम्यहं वरम् ।आराधयामि यत् तस्माद् वरमिच्छामि शोभनम् ॥११॥एवमुक्तौ तु तौ राज्ञा कमाराधयसे प्रभो ।कं वा वरं वृणुष्व त्वं कथयस्व कुतूहलात् ॥१२॥एवमुक्तस्ततो राजा विष्णुमाराधयाम्यहम् ।कथयित्वा स्थितस्तूष्णीं ततस्तावूचतुः पुनः ॥१३॥राजन् तस्यैव देवस्य प्रसादादावयोर्वरः ।दातव्यस्ते वरं ब्रूहि कस्ते मनसि वर्त्तते ॥१४॥राजोवाच ।यथा यज्ञेश्वरं देवं यज्ञैर्विविधदक्षिणैः ।यष्टुं समर्थता मे स्यात् तथा मे ददतं वरम् ॥१५॥नर उवाच ।स्वयं नारायणो देवो लोकमार्गप्रदर्शकः ।मया सह तपः कुर्याद् बदर्यां लोकभावनः ॥१६॥अयं मत्स्योऽभवत् पूर्वं पुनः कूर्म्मस्वरूपवान् ।वराहश्चाभवद् देवो नरसिंहस्ततोऽभवत् ॥१७॥वामनस्तु ततो जातो जामदग्न्यो महाबलः ।पुनर्दाशरथिर्भूत्वा वासुदेवः पुनर्बभौ ॥१८॥बुद्धो भूत्वा जनं ह्येष मोहयामास पार्थिव ।सपत्नान् दस्यवो म्लेच्छान् पुनर्हत्वा महीमिमाम् ।प्रकृतिस्थां चकारायं स एष भगवान् हरिः ॥१९॥पूज्यते मत्स्यरूपेण सर्वज्ञत्वमभीप्सुभिः ।स्ववंशोद्धरणार्थाय कूर्मरूपी तु पूज्यते ॥२०॥भवोदधिनिमग्नेन वाराहः पूज्यते हरिः ।नारसिंहेण रूपेण तद्वत् पापभयान्नरैः ॥२१॥वामनं मोहनाशाय वित्तार्थे जगदग्निजम् ।क्रूरशत्रुविनाशाय यजेद् दाशरथिं बुधः ॥२२॥बलकृष्णौ यजेद् धीमान् पुत्रकामो न संशयः ।रूपकामो यजेद् बुद्धं कल्किनं शत्रुघातने ॥२३॥एवमुक्त्वा नरस्तस्य इमामेवाब्रवीन्मुनिः ।द्वादशीं कृतवान् सोऽपि चक्रवर्ती बभूव ह ।तस्यैव नाम्ना बदरी विशालाख्याऽभवन्मुने ॥२४॥इह जन्मनि राजाऽसौ राज्यं कृत्वा इयाद् वनम् ।यज्ञैश्च विविधैरिष्ट्वा परं निर्वाणमाप्तवान् ॥२५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP