संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २२ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २२ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २२ Translation - भाषांतर महातपा उवाच ।तस्मिन् निवसतस्तस्य रुद्रस्य परमेष्ठिनः ।चुकोप गौरी देवस्य पितुर्वैरमनुस्मरन् ॥१॥चिन्तयामास दक्षस्य अनेनापकृतं पुरा ।यज्ञो विध्वंसितो यस्मात् तस्माच्चान्यां तनूमहम् ॥२॥आराध्य तपसा तस्य गृहे भूत्वा व्रजाम्यहम् ।कथं गच्छामि पितरं दक्षं क्षपितबान्धवम् ॥३॥भवपत्नी च दुहिता एवं संचिन्त्य सुन्दरी ।जगाम तपसे शैलं हिमवन्तं महागिरिम् ॥४॥तत्र कालेन महता क्षपयन्ती कलेवरम् ।स्वशरीराग्निना दग्धा ततः शैलसुताऽभवत् ॥५॥उमा नामेति महती कृष्णा चेत्यभिधानतः ।लब्ध्वा तु शोभनां मूर्तिं हिमवन्तगृहे शुभा ॥६॥पुनस्तपश्चकारोग्रं देवं स्मृत्वा त्रिलोचनम् ।असावेव पतिर्मह्यमित्युक्त्वा तपसि स्थिता ॥७॥कुर्वन्त्या तत् तपश्चोग्रं हिमवन्ते महागिरौ ।कालेन महता देवस्तपसाराधितस्तया ॥८॥आजगामाश्रमं तस्या विप्रो भूत्वा महेश्वरः ।वृद्धः शिथिलसर्वाङ्गः स्खलंश्चैव पदे पदे ॥९॥कृच्छ्रात् तस्याः समीपं तु आगत्य द्विजसत्तमः ।बुभुक्षितोऽस्मि मे देहि भद्रे भोज्यं द्विजस्य तु ॥१०॥एवमुक्ता तदा कन्या उमा शैलसुता शुभा ।उवाच ब्राह्मणं भोज्यं दद्मि विप्र फलादिकम् ।कुरु स्नानं द्रुतं विप्र भुञ्जस्वान्नं यदृच्छया ॥११॥एवमुक्तस्तदा विप्रस्तस्य पार्श्वे महानदीम् ।गङ्गां जगाम स्नानार्थी स्नानं कर्त्तुमवातरत् ॥१२॥स्नानं तु कुर्वता तेन रुद्रेण द्विजरूपिणा ।भूत्वा मायामयं भीमं मकरं भयदर्शनम् ।ग्राहितस्तु तदा विप्रस्तेन दुष्टेन मद्गुना ॥१३॥दृष्ट्वा धृतमथात्मानं मकरेण बलीयसा ।वृद्धमात्मानमन्यं तां दर्शयन् वाक्यमब्रवीत् ॥१४॥अब्रह्मण्यं गतं कन्ये धावस्वानय मां रुषः ।यावन्नायाति विकृतिं तावन्मां त्रातुमर्हसि ॥१५॥एवमुक्ता तदा कन्या चिन्तयामास पार्वती ।पितृभावेन शैलेन्द्रं भर्तृभावेन शंकरम् ।स्पृशामि तपसा पूता कथं विप्रं स्पृशाम्यहम् ॥१६॥यद्येनं नापकर्षामि मकरेण जले धृतम् ।तदानीं ब्रह्मवध्या मे भवतीति न संशयः ॥१७॥अन्यव्यतिक्रमे धर्ममपनेतुं च शक्यते ।ब्रह्मवध्या पुनर्नैवमेवमुक्तवा गता त्वरम् ॥१८॥सा गत्वा त्वरितं भीरुर्गृहीत्वा पाणिना द्विजम् ।चकर्षान्तर्जलात् तावत् स्वयं भूतपतिर्हरः ॥१९॥यमाराध्य तपश्चर्त्तुमारब्धं शैलपुत्राया ।स एव भगवान् रुद्रस्तस्याः पाणौ विलम्बत ॥२०॥तं दृष्ट्वा लज्जिता देवी पूर्वत्यागमनुस्मरन् ।न किंचिदुत्तरं सुभ्रूर्वदति स्म सुलज्जिता ॥२१॥तूष्णींभूतां तु तां दृष्ट्वा गौरीं रुद्रो हसन्निव ।पाणौ गृहीत्वा मां भद्रे कथं त्यक्तुमिहार्हसि ॥२२॥मत्पाणिग्रहणं भद्रे वृथा यदि करिष्यसि ।तदानीं ब्रह्मणः पुत्र्यामाहारार्थं ब्रवीम्यहम् ॥२३॥न भवेत् परिहासोऽयमुक्ता देवी परापरा ।लज्जमाना तदा वाक्यं वदति स्मितपूर्वकम् ॥२४॥देवदेव त्रिलोकेश त्वदर्थोऽयं समुद्यमः ।प्राग्जन्माराधितो भर्त्ता भवान् देवो महेश्वरः ॥२५॥इदानीं मे भवान् देवः पतिर्नान्यो भविष्यति ।किन्तु स्वामी पिता मह्यं शैलेन्द्रो मे व्रजामि तम् ।अनुज्ञाप्य विधानेन ततः पाणिं गृहीष्यसि ॥२६॥एवमुक्त्वा तदा देवी पितरं प्रति भामिनी ।कृताञ्जलिपुटा भूत्वा हिमवन्तमुवाच ह ॥२७॥अतोऽन्यजन्मभर्त्ता मे रुद्रो दक्षमखान्तकः ।इदानीं तपसा सैव ध्यातोऽभूद् गतिभावनः ॥२८॥स च विश्वपतिर्भूत्वा ब्राह्मणो मे तपोवनम् ।आगत्य भोजनार्थाय याचयामास शंकरः ।मया स्नातुं व्रजस्वेति चोदितो जाह्नवीं गतः ॥२९॥तत्रासौ वृद्धकायेन द्विजरूपेण शंकरः ।मकरेण धृतस्तूर्णं अब्रहह्मण्यमुवाच ह ॥३०॥ब्रह्महत्याभयात् तात मया पाणौ धृतस्ततः ।धृतमात्रः स्वकं देहं दर्शयामास शंकरः ॥३१॥ततो मामब्रवीद् देवः पाणिग्रहणमागताम् ।भवती देवि मा किंचिद् विचारय तपोधने ॥३२॥एवमुक्ता त्वहं तेन शंकरेण महात्मना ।तदनुज्ञाप्य देवेशं भवन्तं प्रष्टुमागता ।इदानीं यत् क्षमं कार्यं तच्छीघ्रं संविधीयताम् ॥३३॥एवं श्रुत्वा तदा वाक्यं शैलराजो मुदा युतः ।उवाच दुहितां धन्यां तस्मिन् काले वराननाम् ॥३४॥पुत्रि धन्योऽस्म्यहं लोके यस्य रुद्रः स्वयं हरः ।जामाता भविता देवि त्वयाऽपत्यवतामहम् ।स्थापितो मूर्ध्नि देवानामपि पुत्रि त्वया ह्यहम् ॥३५॥स्थीयतां क्षणमेकं तु यावदागमनं मम ।एवमुक्त्वा गतो राजा शैलानां ब्रह्मणोऽन्तिकम् ॥३६॥तत्र दृष्ट्वा महात्मानं सर्वदेवपितामहम् ।उवाच प्रणतो भूत्वा ब्रह्माणं शैलराट् ततः ॥३७॥देवोमा दुहिता मह्यं तां रुद्राय ददाम्यहम् ।त्वया देव अनुज्ञातस्तत्करोमि प्रशाधि माम् ॥३८॥ततो ब्रह्मा प्रीतमना याहि रुद्राय तां शुभाम् ।प्रयच्छोवाच देवानां तदा लोकपितामहः ॥३९॥एवमुक्तः शैलराजः स्ववेश्मागम्य सत्वरम् ।देवानृषीन् सिद्धसंघान् चामन्त्रयत सत्वरम् ॥४०॥तुम्बुरुं नारदं चैव हाहाहूहूं तथैव च ।स गत्वा किन्नरांश्चैव असुरान् राक्षसानपि ॥४१॥पर्वताः सरितः शैला वृक्षा ओषधयस्तथा ।आगता मूर्त्तिमन्तो वै पर्वताः सङ्गमोपलाः ।हिमवद्दुहितुर्द्रष्टुं विवाहं शंकरेण ह ॥४२॥तत्र वेदिः क्षितिश्चासीत् कलशाः सप्त सागराः ।सूर्यो दीपस्तथा सोमः सरितो ववहुर्जलम् ॥४३॥एवं विवाहसामग्रीं कृत्वा शैलवराधिपः ।प्रेषयामास रुद्राय समीपं मन्दरं गिरिम् ॥४४॥स तदा मन्दरोक्तस्तु शंकरो द्रुतमाययौ ।विधिना सोमया पाणिं जग्राह परमेश्वरः ॥४५॥तत्रोत्सवे पर्वतनारदौ द्वौजगुश्च सिद्धा ननृतुर्वनस्पतीः ।पुष्पाण्यनेकानि विचिक्षिपुः शुभाःननर्तुरुच्चैः सुरयोषितो भृशम् ॥४६॥तस्मिन् विवाहे सलिलप्रवाहेचतुर्मुखो लोकपरः स्वसंस्थः ।उवाच कन्यां भव पुत्रि लोकेनारी प्रभर्त्ता तव चान्यपुंसाम् ।इत्येवमुक्त्वा स उमां सरुद्रांपितामहः स्वं पुरमाजगाम ॥४७॥जामातरं पर्वतराट् सुपूज्यविसर्जयामास विभुं स सोमम् ।देवांश्च दैत्यान् विविधानृषींश्चसंपूज्य सर्वान् विविधैस्तु वस्तुभिः ।विभूषणैर्वस्त्रवरान्नदानै -र्विसर्जयामास तदाद्रिमुख्यान्॥२२.४८॥स वीतशोको विरजो विशुद्धःशुभाननां देववराय दत्त्वा ।उमां महात्मा हिमवानद्रिराजःपैतामहे लोक इवाध्वरे भात् ॥४९॥इतीरितेयं तव राजसत्तमप्रसूतिरेषा न विदुर्यां सुरासुराः ।स्वयंभुदक्षादिराजः त्रिजन्मभि-र्गौरीविवाहोऽपि मया सुकीर्तितः ॥५०॥श्रीवराह उवाच ।एवं सा गौरिनाम्ना तु कारणान्मूर्त्तिमागता ।संबभूव यथा प्रोक्तं प्रजापालाय पृच्छते ।ऋषिणा महता पूर्वं तपसा भावितात्मना ॥५१॥गौर्या उत्पत्तिरेषा वै कथिता परमर्षिणा ।विवाहश्च यथा वृत्तस्तत्सर्वं कथितं तव ॥५२॥एतत्सर्वं तु गौर्या वै संपन्नं तु तृतीयया ।तस्यां तिथौ तृतीयायां लवणं वर्जयेन्नरः ।यश्चोपोष्यति नारी वा सा सौभाग्यं तु विन्दति ॥५३॥दुर्भगा या तु नारी स्यात् पुरुषश्चातिदुर्भगः ।एतच्छ्रुत्वा तृतीयायां लवणं तु विवर्जयेत् ॥५४॥सर्वकामानवाप्नोति सौभाग्यं द्रव्यसम्पदम् ।आरोग्यं च सदा लोके कान्तिं पुष्टिं च विन्दति ॥५५॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्वाविंशोऽध्यायः ॥२२॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP