संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ४४ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ४४ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ४४ Translation - भाषांतर दुर्वास उवाच ।वैशाखेऽप्येवमेवं तु संकल्प्य विधिना नरः ।तद्वत् स्नानादिकं कृत्वा ततो देवालयं व्रजेत् ॥१॥तत्राराध्य हरिं भक्त्या एभिर्मन्त्रैर्विचक्षणः ।जामदग्न्याय पादौ तु उदरं सर्वधारिणे ।मधुसूदनायेति कटिमुरः श्रीवत्सधारिणे ॥२॥क्षत्रान्तकाय च भुजौ मणिकण्ठाय कण्ठकम् ।स्वनाम्ना शङ्खचक्रौ तु शिरो ब्रह्माण्डधारिणे ॥३॥एवमभ्यर्च्य मेधावी प्राग्वत् तस्याग्रतो घटम् ।विन्यस्य स्थगितं तद्वद् वस्त्रयुग्मेन वेष्टितम् ॥४॥वैणवेन तु पात्रेण तस्मिन् संस्थापयेद्धरिम् ।जामदग्न्येति विख्यातं नाम्ना क्लेशविनाशनम् ॥५॥दक्षिणे परशुं हस्ते तस्य देवस्य कारयेत् ।सर्वगन्धैश्च संपूज्य पुष्पैर्नानाविधैः शुभैः ॥६॥ततस्तस्याग्रतः कुर्याज्जागरं भक्तिमान्नरः ।प्रभाते विमले सूर्ये ब्राह्मणाय निवेदयेत् ।एवं नियमयुक्तस्य यत्फलं तन्निबोध मे ॥७॥आसीद् राजा महाभागो वीरसेनो महाबलः ।अपुत्रः स पुरा तीव्रं तपस्तेपे महौजसा ॥८॥चरतस्तत्तपो घोरं याज्ञवल्क्यो महामुनिः ।आजगाम महायोगी तं दृष्ट्वा नातिदूरतः ॥९॥तमायान्तमथो दृष्ट्वा ऋषिं परमवर्चसम् ।कृताञ्जलिपुटो भूत्वा राजाभ्युत्थानमाकरोत् ॥१०॥स पूजितो मुनिः प्राह किमर्थं तप्यते तपः ।राजन् कथय धर्मज्ञ किं ते कार्यं विवक्षितम् ॥११॥राजोवाच ।अपुत्रोऽहं महाभाग नास्ति मे पुत्रसंततिः ।तेन मे तप आंस्थाय कृष्यते स्वतनुर्द्विज ॥१२॥याज्ञवल्क्य उवाच ।अलं ते तपसाऽनेन महाक्लेशेन पार्थिव ।अल्पायासेन ते पुत्रो भविष्यति न संशयः ॥१३॥राजोवाच ।कथं मे भविता पुत्रो अल्पायासेन वै द्विज ।एतन्मे कथय प्रीतो भगवन् प्रणतस्य ह ॥१४॥दुर्वासा उवाच ।एवमुक्तो मुनिस्तेन पार्थिवेन यशस्विना ।आचख्यौ द्वादशीं चेमां वैशाखे सितपक्षजाम् ॥१५॥स हि राजा विधानेन पुत्रकामो विशेषतः ।उपोष्य लब्धवान् पुत्रं नलं परमधार्मिकम् ।योऽद्यापि कीर्त्यते लोके पुण्यश्लोको नरोत्तमः ॥१६॥प्रासङ्गिकं फलं ह्येतद् गतस्यास्य महामुने ।सुपुत्रो जायते वित्तविद्यावान् कान्तिरुत्तमा ॥१७॥इह जन्मनि किं चित्रं परलोके श्रृणुष्व मे ।कल्पमेकं ब्रह्मलोके वसित्वाऽप्सरसां गणैः ॥१८॥क्रीडत्यन्ते पुनः सृष्टौ चक्रवर्ती भवेद् ध्रुवम् ।त्रिंशत्यब्दसहस्त्राणि जीवते नात्र संशयः ॥१९॥॥ इति श्रीवराहपुराणे भवगच्छास्त्रे चतुश्चत्वारिंशोऽध्यायः ॥४४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP