संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्|
अध्यायः ८३

वराहपुराणम् - अध्यायः ८३

'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे.


रुद्र उवाच ।
निसर्ग एष भद्राश्वानां कीर्तितः केतुमालानां विस्तरेण कथितं । नैषधस्याचलेनद्रस्य पश्चिमेन कुलाचलजनपदनद्यः कीर्त्यन्ते । तथा च विशाखकम्बलजयन्तकृष्णहरिताशोकवर्द्धमाना इत्येतेषां सप्तकुलपर्वतानां कोटिशः प्रसूतिः ।
तन्निवासिनो जनपदास्तन्नामान एव द्रष्टव्याः । तद्यथा सौरग्रामात्तसांतपो कृतसुराश्रवण कम्बलमाहेयाचलकूटवासमूलतपक्रौञ्चकृष्णाङ्गमणिपङ्कजचूडमलसोमीयसमुद्रान्तक कुरकुञ्चसुवर्णः तटककुह श्वेताङ्गकृष्णपाटविदकपिलकर्णिकमहिषकुब्जकरनाटमहोत्कटशुकनासगजभूमककुरञ्जन मनाहकिंकिसपार्णभौमकचोरकधूमजन्म अङ्गारजतीवनजीवलौकिलवाचां सहाङ्गमधुरेयशुकेचकेयश्रवणमत्त कासिकगोदावामकुलपञ्जावर्ज्जहमोदशअलक एते जनपदास्तत्पर्वतोत्था नदीः पिबन्ति । तद्यथा प्लक्षा महाकदम्बा मानसी श्यामा सुमेधा बहुला विवर्णा पुङ्खा माला दर्भवती भद्रानदी शुकनदी पल्लवा भीमा प्रभ़ञ्जना काम्बा कुशावती दक्षा कासवती तुङ्गा पुण्योदा चन्द्रावती सुमूलावती ककुद्मिनी विशाला करण्टका पीवरी महामाया महिषी मानुषी चण्डा एता नदीः प्रधानाः। शेषाः क्षुद्रनद्यः सहस्त्रशश्चेति ।
॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्र्यशीतितमोऽध्यायः ॥८३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP