संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः १८ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः १८ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः १८ Translation - भाषांतर प्रजापाल उवाच ।कथमग्नेः समुत्पत्तिरश्विनोर्वा महामुने ।गौर्या गणपतेर्वाऽपि नागानां वा गुहस्य च ॥१॥आदित्यचन्द्रमातॄणां दुर्गाया वा दिशां तथा ।धनदस्य च विष्णोर्वा धर्मस्य परमेष्ठिनः ॥२॥शम्भोर्वापि पितॄणां च तथा चन्द्रमसो मुने ।शरीरदेवता ह्येताः कथं मूर्त्तित्वमागताः ॥३॥किं च तासां मुने भोज्यं का वा संज्ञा तिथिश्च का ।यस्यां यष्टास्त्वमी पुंसां फलं यच्छन्त्यनामयम् ।एतन्मे सरहस्यं तु मुने त्वं वक्तुमर्हसि ॥४॥महातपा उवाच ।योगसाध्यः स्वरूपेण आत्मा नारायणात्मकः ।सर्वज्ञः क्रीडतस्तस्य भोगेच्छा चात्मनात्मनि ।क्षोभितेऽभून्महाभूते एतच्छब्दं तदद्भुतम् ॥५॥तमप्यप्रीतिमत्तोयं विकारं समरोचयत् ।विकुर्वतस्तस्य तदा महानग्निः समुत्थितः ।कोटिज्वालापरीवारः शब्दवान् दहनात्मकः ॥६॥असावप्यतितेजस्वी विकारं समरोचयत् ।विकुर्वतो बभौ वह्नेर्वायुः परमदारुणः ।तस्मादपि विकारस्थादाकाशं समपद्यत ॥७॥तच्छब्दलक्षणं व्योम स च वायुः प्रतापवान् ।तच्च तेजोऽम्भसा युक्तं श्लिष्टमन्योन्यतस्तदा ॥८॥तेजसा शोषितं तोयं वायुना उग्रगामिना ।बाधितेन तथा व्योम्ना मार्गे दत्ते तु तत्क्षणात् ॥९॥पिण्डीभूतं तथा सर्वं काठिन्यं समपद्यत ।सेयं पृथ्वी महाभाग तेषां वृद्धतराऽभवत् ॥१०॥चतुर्णां योगकाठिन्यादेकैकगुणवृद्धितः ।पृथ्वी पञ्चगुणा ज्ञेया तेऽप्येतस्यां व्यवस्थिताः ॥११॥स च काठिन्यकं कुर्वन् ब्रह्माण्डं समपद्यत ।तस्मिन् नारायणो देवश्चतुर्मूर्तिश्चतुर्भुजः ॥१२॥प्राजापत्येन रूपेण सिसृक्षुर्विविधाः प्रजाः ।चिन्तयन् नाधिगच्छेत सृष्टिं लोकपितामहः ॥१३॥ततोऽस्य सुमहान् कोपो जज्ञे परमदारुणः ।तस्मात् कोपात् सहस्त्रार्चिरुत्तस्थौ दहनात्मकः ॥१४॥स तं दिधक्षुर्ब्रह्माणं ब्रह्मणोक्तस्तदा नृप ।हव्यं कव्यं वहस्वेति ततोऽसौ हव्यवाहनः ॥१५॥ब्रह्माणं क्षुधितः प्रायात् किं करोमि प्रसाधि माम् ।स ब्रह्मा प्रत्युवाचाथ त्रिधा तृप्तिमवाप्स्यसि ॥१६॥दत्तासु दक्षिणास्वादौ तृप्तिर्भूत्वा यतोऽमरान् ।नयसे दक्षिणाभागं दक्षिणाग्निस्ततोऽभवत् ॥१७॥आ समन्ताद्धुतं किंचिद् यत् त्रिलोके विभावसो ।तद् वहस्व सुरार्थाय ततस्त्वं हव्यवाहनः ॥१८॥गृहं शरीरमित्युक्तं तत्पतिस्त्वं यतोऽधुना ।अतो वै गार्हपत्यस्त्वं भव सर्वगतो विभो ॥१९॥विश्वान् नरान् हुतो येन नयसे सद्गतिं प्रभो ।अतो वैश्वानरो नाम तव वाक्यं भविष्यति ॥२०॥द्रविणं बलमित्युक्तं धनं च द्रविणं यतः ।ददाति तद् भवानेव द्रविणोदास्ततोऽभवत् ॥२१॥तनुं पास्यतनुं पासि येन त्वं सर्वदा विभो ।ततस्तनूनपान्नाम तव वत्स भविष्यति ॥२२॥भवान् जातानि वै वेद अजातानि च येन वै ।अतस्ते नाम भवतु जातवेदा इति प्रभो ॥२३॥नाराः सामान्यतः पुंसो विशेषेण द्विजातयः ।ते शंसन्ति यतस्त्वां तु नाराशंसस्ततो भव ॥२४॥अगस् तिरोभवेन्नित्यं निःशब्दो निश्चयात्मकः ।अगस्त्वं सर्वगत्वाच्च तेनाग्निस्त्वं भविष्यसि ॥२५॥ध्मा प्रपूरणशब्दो य इध्मा नाम प्रकीर्त्यते ।पूरितस्यागतिर्येन तेनेध्मस्त्वं भविष्यसि ॥२६॥याज्यान्येतानि नामानि तव पुत्र महामखे ।यजन्तस्त्वां नराः कामैस्तर्पयिष्यन्त्यसंशयम् ॥२७॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टादशोऽध्यायः ॥१८॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP