संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः २३ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः २३ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः २३ Translation - भाषांतर प्रजापाल उवाच ।कथं गणपतेर्जन्म मूर्तिमन्तं च सत्तम ।एतन्मे संशयं छिन्धि धृतिकष्टं व्यवस्थितम् ॥१॥महातपा उवाच ।पूर्वं देवगणाः सर्वे ऋषयश्च तपोधनाः ।कार्यारम्भं तथा चक्रुः सिध्यन्ते च न संशयः ॥२॥सन्मार्गवर्तिषु यथा सिद्ध्यन्ते विघ्नतः क्रियाः ।असत्कारिषु सर्वेषु तद्वदेवमविघ्नतः ॥३॥ततो देवाः सपितरश्चिन्तयामासुरोजसा ।असत्कार्येषु विघ्नार्थं सर्व एवाभ्यमन्त्रयन् ॥४॥ततस्तेषां तदा मन्त्रं कुर्वतस्त्रिदिवौकसाम् ।बभूव बुद्धिर्गमने रुद्रं प्रति महामतिम् ॥५॥ते तत्र रुद्रमागम्य कैलासनिलयं गुरुम् ।ऊचुः सविनयं सर्वे प्रणिपातपुरःसरम् ॥६॥देवा ऊचुः ।देवदेव महादेव शूलपाणे त्रिलोचन ।विघ्नार्थमविशिष्टानामुत्पादयितुमर्हसि ॥७॥एवमुक्तरस्तदा देवैर्भवः परमया मुदा ।उमां निरीक्षयामास चक्षुषाऽनिमिषेण ह ॥८॥देवानां सन्निधौ तस्य पश्यतोमां महात्मनः ।चिन्ताऽभूद् व्योम्नि मूर्तिभ्यो दृश्यते केन हेतुना ॥९॥पृथिव्या विद्यते मूर्त्तिरपां मूर्त्तिस्तथैव च ।तेजसः श्वसनस्यापि मूर्त्तिरेषा तु दृश्यते ।आकाशं च कथं नेति मत्वा देवो जहास च ॥१०॥ज्ञानशक्तिमुमां दृष्ट्वा यद् दृष्टं व्योम्नि शंभुना ।यच्चोक्तं ब्रह्मणा पूर्वं शरीरं तु शरीरिणाम् ॥११॥यच्चापि हसितं तेन देवेन परमेष्ठिना ।एतत्कार्यचतुष्केण पृथिव्यादिचतुर्ष्वपि ॥१२॥मूर्त्तिमानतितेजस्वी हसतः परमेष्ठिनः ।प्रदीप्तास्यो महादीप्तः कुमारो भासयन् दिशः ।परमेष्ठिगुणैर्युक्तः साक्षाद् रुद्र इवापरः ॥१३॥उत्पन्नमात्रो देवानां योषितः सप्रमोहयन् ।कान्त्या दीप्त्या तथा मूर्त्या रूपेण च महात्मवान् ॥१४॥तं दृष्ट्वा परमं रूपं कुमारस्य महात्मनः ।उमाऽनिमेषनेत्राभ्यां तमपश्यत भामिनी ॥१५॥तं दृष्ट्वा कुपितो देवः स्त्रीभावं चञ्चलं तथा ।मत्वा कुमाररूपं तु शोभनं मोहनं दृशाम् ।ततः शशाप तं देवः स्त्रीशङ्कां परमेश्वरः ॥१६॥कुमार गजवक्त्रस्त्वं प्रलम्बजठरस्तथा ।भविष्यसि तथा सर्पैरुपवीतगतिर्ध्रुवम् ।एवं शशाप तं देवस्तीव्रकोपसमन्वितः ॥१७॥अर्द्धकोट्या च रोमाणामात्मनोऽङ्गे त्रिलोचनः ।कूपकास्वेदसलिलपूर्णशूलधरस्तथा ।धुन्वन् शरीरमुत्थाय ततो देवो रुषान्वितः ॥१८॥यथा यथाऽसौ स शरीरमाद्यंधुनोति देवस्त्रिशिखास्त्रपाणिः ।तथा तथा चाङ्गरुहाश्चकासु-र्जलं क्षितौ संन्यपतंस्तथान्याः ॥१९॥विनायकानेकविधा गजास्या -स्तमालनीलाञ्जनसंनिकाशाः ।उत्तस्थुरुच्चैर्विविधास्त्रहस्ता -स्ततस्तु देवा मनसाकुलेन ॥२०॥किमेतदित्यद्भुतकर्मकारीह्येकः करोत्यप्रतिमं महच्च ।कार्यं सुराणां कृतमेतदिष्टंभवेदथैतं परितं कुतस्तत् ॥२१॥दिवौकसां चिन्तयतां तथा तुविनायकैः क्ष्मा क्षुभिता बभूव ।चतुर्मुखश्चाप्रतिमो विमान -मारुह्य खे वाक्यमिदं जगाद ॥२२॥धन्याः स्थ देवाः सुरनायकेनत्रिलोचनेनाद्भुतरूपिणा च ।अनुगृहीताः परमेश्वरेणसुरद्विषां विघ्नकृतां नतौ च ॥२३॥इत्येवमुक्त्वा प्रपितामहस्ता -नुवाच देवस्त्रिशिखास्त्रपाणिम् ।यस्ते विभो वक्त्रसमुद्भवः प्रभु-र्विनायकानां भवतु त्विमेऽनुगाः ॥२४॥भवांस्तथाऽस्यात्मवरेण चाम्बरेत्वया चतुर्ष्वस्तु शरीरचारी ।आकाशमेतद् बहुधा व्यवस्थितंत्वया वरेण्यः कृत एव नान्यः ॥२५॥प्रभुर्भव त्वं प्रतिमास्त्रपाणिनाइमानि चास्त्राणि वरांश्च देहि ।इत्येवमुक्त्वाऽधिगते पितामहेत्रिलोचनश्चात्मभवं जगाद ॥२६॥विनायको विघ्नकरो गजास्योगणेशनामा च भवस्य पुत्रः ।एते च सर्वे तव यान्तु भृत्याविनायकाः क्रूरदृशः प्रचण्डाः ।उच्छुष्मदानादिविवृद्धदेहाःकार्येषु सिद्धिं प्रतिपादयन्तः ॥२७॥भवांश्च देवेषु तथा मखेषुकार्येषु चान्येषु महानुभावात् ।अग्रेषु पूजां लभतेऽन्यथा चविनाशयिष्यस्यथ कार्यसिद्धिम् ॥२८॥इत्येवमुक्त्वा परमेश्वरेणसुरैः समं काञ्चनकुम्भसंस्थैः ।जलैस्तथासावभिषिक्तगात्रोरराज राजेन्द्र विनायकानाम् ॥२९॥दृष्टवाऽभिषिच्यमानं तु देवास्तं गणनायकम् ।तुष्टुवुः प्रयताः सर्वे त्रिशूलास्त्रस्य सन्निधौ ॥३०॥देवा ऊचुः ।नमस्ते गजवक्त्राय नमस्ते गणनायक ।विनायक नमस्तेऽस्तु नमस्ते चण्डविक्रम ॥३१॥नमोऽस्तु ते विघ्नकर्त्रे नमस्ते सर्पमेखल ।नमस्ते रुद्रवक्त्रोत्थ प्रलम्बजठराश्रित ॥३२॥सर्वदेवनमस्कारादविघ्नं कुरु सर्वदा ।एवं स्तुतस्तदा देवैर्महात्मा गणनायकः ।अभिषिक्तश्च रुद्रस्य सोमस्यापत्यतां गतः ॥३३॥एतच्चतुर्थ्यां संपन्नं गणाध्यक्षस्य पार्थिव ।यतस्ततोऽयं महती तिथीनां परमा तिथिः ॥३४॥एतस्यां यस्तिलान् भुक्त्वा भक्त्या गणपतिं नृप ।आराधयति तस्याशु तुष्यते नात्र संशयः ॥३५॥यश्चैतत् पठते स्तोत्रं यश्चैतच्छृणुयात् सदा ।न तस्य विघ्ना जायन्ते न पापं सर्वथा नृप ॥३६॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रयोविंशोऽध्यायः ॥२३॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP