संस्कृत सूची|संस्कृत साहित्य|पुराण|वराहपुराणम्| अध्यायः ३६ वराहपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ वराहपुराणम् - अध्यायः ३६ 'वराह पुराण' हे एक वैष्णव पुराण आहे. या पुराणातील श्लोकांत भगवानांच्या वराह अवतारातील धर्मोपदेश कथांच्या रूपात प्रस्तुत केलेला आहे. Tags : puranvarah puranपुराणवराह पुराणसंस्कृत अध्यायः ३६ Translation - भाषांतर महातपा उवाच ।आदित्रेतासु राजानो मणिजा ये प्रकीर्त्तिताः ।कथयिष्यामि तान् राजन् यत्र जातोऽपि पार्थिव ॥१॥योऽसौ सुप्रभनामासीत् स त्वं राजन् कृते युगे ।जातोऽसि नाम्ना विख्यातः प्रजापालेति शोभनः ॥२॥शेषास्त्रेतायुगे राजन् भविष्यन्ति महाबलाः ।यो दीप्ततेजा मणिजः स शन्तेति प्रकीर्तितः ॥३॥सुरश्मिर्भविता राजा शशकर्णो महाबलः ।शुभदर्शनः पाञ्चालो भविष्यति नराधिपः ॥४॥सुशान्तिरङ्गवंशे वै सुन्दरोऽप्यङ्ग इत्युत ।सुन्दश्च मुचुकुन्दोऽभूत्सुद्युम्नस्तुर एव च ॥५॥सुमनाः सोमदत्तस्तु शुभः संवरणोऽभवत् ।सुशीलो वसुदानस्तु सुखदो सुपतिर्भवत् ॥६॥शम्भुः सेनापतिरभूत् सुकान्तो दशरथः स्मृतः ।सोमोऽभूज्जनको राजा एते त्रेतायुगे नृप ॥७॥सर्वे भूमिमिमां राजन् भुक्त्वा ते वसुधाधिपाः ।इष्ट्वा च विविधैर्यज्ञैर्दिवं प्राप्स्यन्त्यसंशयम् ॥८॥श्रीवराह उवाच ।एवं श्रुत्वा स राजर्षिर्ब्रह्मविद्याऽमृतं प्रभुः ।आख्यानं परमं प्रीतस्तपश्चर्तुमियाद् वनम् ॥९॥ऋषिरध्यात्मयोगेन विहायेदं कलेवरम् ।ब्रह्मभूतोऽभवद्धात्रि हरौ लयमवाप च ॥१०॥वृन्दावनं च राजाऽसौ तपोऽर्थं गतवान् प्रभुः ।तत्र गोविन्दनामानं हरिं स्तोतुमथारभत् ॥११॥राजोवाच ।नमामि देवं जगतां च मूर्त्तिंगोपेन्द्रमिन्द्रानुजमप्रमेयम् ।संसारचक्रक्रमणैकदक्षंक्षितीधरं देववरं नमामि ॥१२॥भवोदधौ दुःखशतोर्म्मिभीमेजरावर्त्ते कृष्णपातालमूले ।तदन्तमेको दधते सुखं मेनमोऽस्तु ते गोपतिरप्रमेय ॥१३॥व्याध्यादियुक्तः पुरुषैर्ग्रहैश्चसङ्घट्टमानं पुनरेव देव ।नमोऽस्तु ते युद्धरते महात्माजनार्दनो गोपतिरुग्रबाहुः ॥१४॥त्वमुत्तमः सर्वविदां सुरेशत्वया ततं विश्वमिदं समस्तम् ।गोपेन्द्र मां पाहि महानुभावभवाद्भीतं तिग्मरथाङ्गपाणे ॥१५॥परोऽसि देव प्रवरः सुराणांपुंसः स्वरूपोऽसि शशिप्रकाशः ।हुताशवक्त्राच्युत तीव्रभावगोपेन्द्र मां पाहि भवे पतन्तम् ॥१६॥संसारचक्रक्रमणान्यनेका -न्याविर्भवन्त्यच्युत देहिनां यत् ।त्वन्मायया मोहितानां सुरेशकस्ते मायां तरते द्वन्द्वधामा ॥१७॥अगोत्रमस्पर्शमरूपगन्ध -मनामनिर्देशमजं वरेण्यम् ।गोपेन्द्र त्वां यद्युपासन्ति धीरा -स्ते मुक्तिभाजो भवबन्धमुक्ताः ॥१८॥शब्दातिगं व्योमरूपं विमूर्त्तिंविकर्म्मिणां शुभभावं वरेण्यम् ।चक्राब्जपाणिं तु तथोपचारा-दुक्तं पुराणे सततं नमामि ॥१९॥त्रिविक्रमं क्रान्तजगत्त्रयं चचतुर्मूर्त्तिं विश्वगतां क्षितीशम् ।शम्भुं विभुं भूतपतिं सुरेशंनमाम्यहं विष्णुमनन्तमूर्त्तिम् ॥२०॥त्वं देव सर्वाणि चराचराणिसृजस्यथो संहरसे त्वमेव ।मां मुक्तिकामं नय देव शीघ्रंयस्मिन् गता योगिनो नापयान्ति ॥२१॥जयस्व गोविन्द महानुभावजयस्व विष्णो जय पद्मनाभ ।जयस्व सर्वज्ञ जयाप्रमेयजयस्व विश्वेश्वर विश्वमूर्त्ते ॥२२॥श्रीवराह उवाच ।एवं स्तुत्वा तदा राजा निधाय स्वं कलेवरम् ।परमात्मनि गोविन्दे लयमागाच्च शाश्वते ॥२३॥॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP