संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
सापिंड्यनिर्णयः

धर्मसिंधु - सापिंड्यनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अनन्यपूर्विकांकान्तामसपिण्डांयवीयसीम् । अरोगिणीभ्रातृमतीमसमानार्षगोत्रजाम् १

इतियाज्ञवल्क्याद्युक्तकन्याविशेषणेषुकान्तत्वनीरोगत्वभ्रातृमत्वभिन्नविशेषणानामभावेइहपरत्रपातित्यात्तानि

प्रपञ्चयन्ते तत्रान्यपूर्विकाः पुरुषान्तरपूर्विकाः मनोदत्तावाचा दत्ताग्निपरिगतासप्तमं

पदंनीताभुक्तागृहीतगर्भाप्रसूतेतिसप्तविधपुनर्भ्वस्तद्भिन्नामनन्यपूर्विकाम् सप्तपदीविधेःपूर्वमद्यानांतिसृणांसंकटेन्येनविवाहोभवति

सप्तपदीविधौजातेबलाद्विवाहितापिन्यान्यत्रदेया असपिण्डां समानःएकःपिण्डःपिण्डदानक्रियामूलपुरुषशरीरंवायस्याः

सासपिण्डातद्भिन्नाम् तत्रलेपभाजश्चतुर्थाद्याःपित्राद्याःपिण्डभागिनः । पिण्डद्रःसप्तमस्तेषां सापिड्यंसाप्तपौरुषम् १

इतिमात्स्योक्तेरेकस्यांपिण्डदानक्रियायांदातृत्वपिण्डभाक्त्त्वलेपभाक्तवान्यतमसंबन्धेनप्रवेशोनिर्वाप्यसापिण्ड्यमितिकेशहांचिन्मतम्

अत्रस्त्रीणामपिपतिभिःसहकतृत्वात्सापिण्ड्यसिद्धिः मूलपुरुषैकशरीरावयवान्वयेनावयासापिण्ड्यमित्यपरंमतम्

यद्यपिश्चातृपत्नीनांपरस्परंनैतत्संभवतितथाप्याधारत्वेनैकशरीरान्वयः एकमूलपुरुषावयवानांपुत्रद्वारातास्वधानादितिज्ञेयम

उभयत्रापिगयादौमित्रादेरपिपिण्डभाक्त्वादेकशरीरान्वयस्यसप्तमात्परेषुपरश्श्तेष्वपिसत्वाच्चातिप्रसंगप्राप्तेःवधवावरस्यवातातःकूटस्ताद्यदिसप्तमः ।

पञ्चमी चेत्तयोर्मातात्सापिंड्यंनिवर्ततेइत्यादिवचनैर्निरासः

मातृत्वपितृत्वादिसंबन्धेसत्येवपञ्चमसप्तमपर्यन्तमेवेत्युभयनियमस्वीकारात्

तथाचपितृद्वारकसापिंड्याविचारेसप्तमादूर्ध्वंसापिंड्यनिवृत्तिः मातृद्वारकसापिंण्डयविचारेतुपञ्चमादुर्ध्वंतन्निवृत्तिरितिनिर्णयः ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP