संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथद्वितीयं पुनरुपनयनम्

धर्मसिंधु - अथद्वितीयं पुनरुपनयनम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथद्वितीयं पुनरुपनयनम् प्रदोषेनिश्यनध्यायेमन्देकृष्णेगलग्रहे ।

अपराह्णेचोपनीतः पुनःसंस्कारमर्हति १ अत्रप्रदोषःप्रदोषदिनं

कृष्णःकृष्णपक्षएकादश्यादिरन्‍त्यत्रिकरूपः अपराह्णश्चदिनतृतीयभागरूपइत्युक्तम्

अनध्यायाअपिनित्याएवपौर्णिमाप्रतिपदादयःपुनरुपनयननिमित्तम् नतुनैमित्तिकाअकालवृष्ट्यादिनिमित्तकत्रिरात्रादयः

नैमित्तिकेषुप्रातर्गर्जितनिमित्तानध्यायएवपुनःसंस्कारनिमित्तम् अत्रविस्तरःकौस्तुभे

अंसाभिमर्शनपूर्वकंबटोःसमीपमानयनंप्रधानकर्म तस्यविस्मरणेपुनरुपनयनम् एवंगायत्र्युपदेशविस्मरणेपि ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP