संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथ स्मृत्युक्तानिः

धर्मसिंधु - अथ स्मृत्युक्तानिः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथ स्मृत्युक्तानि नित्यंयज्ञोपवीतद्वयंधारयिष्ये ।

सोदककमण्डलुंछत्रमुष्णीषंपादुकेउपानहौसुवर्नकुण्डलेदर्भमुष्टिंचधारयिष्ये

कर्तनेनर्‍हस्वीकृतकेशश्मश्रुनखःस्याम् निमित्तं विनामुण्डनं न करिष्यइत्यर्थः

नसमावृत्तामुण्डेरन्नितिनिषेधात् नित्यमध्ययनरतःस्याम् निमित्तं विनामुण्डनं न करिष्यइत्यर्थः

नसमावृत्तामुण्डेरन्नितिनिषेधात् नित्यमध्ययनरतःस्याम स्वशरीरादुद्धृतंस्वनिर्माल्यंपुष्पचन्दनादिपुनर्नधारयिष्ये

शुक्लाम्बरधरःस्याम् सुगन्धीप्रियदर्शनः स्या‍ विभवेसतिजीर्नवासामलवद्वसाश्चनस्याम्

रक्तंवासःशरीरपीडावहंवास्त्रंनधारयिष्ये गुरुंविनान्यैर्धृतंवस्त्रमलंकारंस्त्रजंचनधारयिष्ये

अशक्तस्तुअन्यद्धृतमपिवस्त्रदिप्रक्षाल्यधारयेत अन्यधृतोपवितमुपानहौचनधारये कन्थांनधारयिष्ये

नस्वरूपमुदकेनिरीक्षिष्ये नभार्यासाकमेकपात्रीककालेवाश्नीयाम् एतद्विवाहभिन्नविषयम्

शूद्रायधर्मज्ञानंनीतिज्ञानंव्रतकल्पंचनोपदिशामि एतत्साक्षादुपदेशपरम् कृत्वाब्राह्मणमग्रतइतिब्राह्मणद्वारकोपदेशेदोषाभावात

गृहमेधिशूद्रायस्वोच्छिष्टंनदास्ये शूद्राअहोमशेशंनदास्ये उद्धृतोदकेनतिष्ठन्नाचमन्नकरिष्ये

जानुमात्रेतदधिकेवाजलेतिष्ठदाचमनेदोषाभावात् अशुचिनाएकहस्तेनवाआनीतजलैर्नाचमिष्ये

पादेनपादधावनंकरिष्ये अकल्पांस्त्रियंनगमिष्यामि नप्रावृतमस्तकोहनिपर्यटिष्यामि

रात्रौमलमूत्रोत्सर्गेचप्रावृतशिराःस्याम् सोपानत्कोशनाभिवादननमस्कारान्नकरिश्ये

पादेनासनंनापकर्षिष्यामि एवमन्यान्यपिस्म्रुत्यक्तानिज्ञेयानि एतेषुव्रतेषुयानिकर्तुंशक्नुयात्तावन्त्येवसंकल्पयेत्

अत्रसंकल्पितव्रतोल्लंघनेमत्याकृतेत्र्यहमभोजनम् अमत्याकृतेएकरात्रमभोजनंप्रायश्चित्तम् अशक्तस्त्रीनेकंवाविप्रंभोजयेत्

इतिस्नातकव्रतानि

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP