संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथोपनयनादौसंकल्पाः

धर्मसिंधु - अथोपनयनादौसंकल्पाः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथोपनयनादौसंकल्पाः तत्रोपनयनात्पूर्वेद्युराचार्योममोपनेतृत्वयोग्यतासिद्ध्यर्थं

कृच्छ्र्त्रयंतत्प्रत्याम्नायगोनिष्क्रयीभुतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्ये त

थाद्वादशाधिकसहस्त्रगायत्रीजपमुपनेतृत्वयोग्यतासिद्ध्यर्थंकरिष्येइतिसंकल्पयेत्

यदिपूर्वसंस्काराअतितास्तदास्यकुमारस्यपुंसवनादीनामथवा

जातकर्मादीनांचौलान्तानांसंस्कारानांकालातिपत्तिजनितप्रत्यवायपरिहारद्वारा

श्रीपरमेश्वरप्रीत्यर्थं प्रतिसंस्कारमेकैकां भुर्भुवःस्वःस्वाहेतिसमस्तव्याह्रत्याज्याहुतिंहोष्यामि

इतिसंकल्प्याग्निस्थापनेध्माधानादिपाकयज्ञतन्त्रसहितावह्निस्थापनाज्यसंस्कारपात्रसंमार्गमात्रसहिता

वातीतसंस्कारसमसंख्यसमस्तव्याह्रत्याज्याहुतीर्जुहुयात्

ततोस्यकुमारस्यपुंसवनानबलोभनसीमन्तोन्नयनजातकर्मनामकर्मसूर्यावलोकननिष्क्रमणोपवेशनान्नप्राशनचौलसंस्काराणां

लोपनिमित्तप्रत्यवायपरिहारार्थंप्रतिसंस्कारंपादकृच्छ्रं प्रायश्चित्तंचौलस्यार्धकृच्छ्रंबुद्धिपूर्वकलोपेप्रतिसंस्कारमर्द्धकृच्छ्रंचूडायाः

कृच्छ्रंतत्प्रत्याम्नायगोनिष्क्रयीभूतयथाशक्तिरजतद्रव्यदानेनाहमाचरिष्ये

चौलस्योपिनीत्यासहकरणस्यकुलधर्मप्राप्तत्वेकालातिपत्तिहोमंचौललोपप्रायाश्चित्तंचनकार्यम्

केचित्संस्कारलोपप्रायश्चित्तंबटुनाकारयन्ति ततोबटुर्मकामचारकामवादकामभक्षादिदोषपरिहारद्वारोपनेयत्वयोग्यतासिद्ध्यर्थं

कृच्छ्रत्रयप्रायश्चित्त्म्तत्प्रत्यअम्नायगोनिष्क्रयीभूतयथाशक्तिरजतदानद्वाराआचरिष्येइतिसंकल्पयेत्

निष्कंनिष्कार्धंनिष्कपादंनिष्कपादार्धवा रजतंगोमूल्यंदेयंनतुन्यूनम् अष्टगुञ्जमाषरीत्याचत्वारिंशन्माषोनिष्कइत्युक्तम्

ततः प्रायश्चित्तेकृतेपश्चादतीतमपिकर्मवै । कार्यमित्येकआचार्यानेत्यन्येतुविप्रश्चितः १

इतिवचनाज्जातकर्मादिसंस्काराःकार्यानकार्याइतिपक्षद्वयम्

तत्रप्रायश्चित्तेनप्रत्यवायपरिहारेपिसंस्कारजन्यापुर्वोत्पत्त्यर्थंसंस्कारानुष्ठानपक्षेसंकल्पः

पत्न्याकुमारेणचसहोपविश्यदेशकालौसंकीर्त्यास्यकुमारस्यगर्भाम्बुपानजनितदोषनिबर्हणायुर्मेधाभि

वृद्धिबीजगर्भसमुद्भवइनोनिबर्हणद्वाराश्रीपरमेश्वरप्रीत्यर्थंअतिक्रांतंजातकर्म

तथाबीजगर्भ्समुद्भवैनोनिबर्हणायुरभिवृद्धिव्यवहारसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थंनामकर्म आयुरभिवृद्धिद्वाराश्रीपर० उपवेशनं

मातृगर्भमलप्राशनशुद्ध्यन्नाद्यब्रह्मवर्चसतेजइन्द्रियायुरभिवृद्भिबीजगर्भसमुद्बवैनोनिबर्हणद्वाराश्रीपरमे०

अन्नप्राशनंचाद्यकरिष्ये बीजगर्भसमुद्भवैनोनिर्बहणबलायुर्वर्चोभिवृद्धिद्वाराश्रीप०र्थचूडाकर्म

द्विजत्वसिद्ध्यावेदाध्ययनाधिकारार्थंउपनयनंचश्वःकरिष्ये जातादिसर्वसंस्कारांगत्वेनपुण्याहवाचनंमातृकापूजनंनान्दीश्राद्धंकरिष्ये

उपनयनांगत्वेनमण्डपदेवतास्थापनंकुलदेवतास्थापनंचकरिषे इति स्वस्वगृह्यग्रन्थानुसारेणसंकल्प्य

नान्दीश्राद्धान्तंतंत्रेणकृत्वामण्डपदेवतास्थापनादिकंबटुपितृभ्यांसुह्रत्कृतवस्त्रदानान्तंकृत्वान्नप्राशनान्ताः

संस्कारायथागृह्यंपूर्वादिनेकार्याःचौलोपनयनेपरदिनेकार्ये

सर्वेषांसद्यःकरणेपुर्वोक्तसर्वसंकल्पभयांगत्वेनपुण्याहवाचनंनान्दीश्राद्धंउपनयनांगत्वेनमण्डपदेवतास्थापनंकुलदेवतापस्थानंचकरिष्यइतिसंकल्पः

ततःपरदिनेतिक्रान्तंचौलंकृत्वापूर्वं जातचौलंत्वभ्यङ्गस्नानेनस्नापयित्वामात्रासहभोजयेत् तदाब्रह्मचारिभ्योभोजनंदेयमित्याचारः

ततोदेशकालौ संकीर्त्यास्यकुमारस्यद्विजत्वसिद्धिद्वाराश्रीपरमेश्वरप्रीत्यर्थंगायत्र्युपदेशंकर्तु तत्प्राच्यांगभूतंवापनादिकरिष्यइति

संकल्प्य वापनादिकुर्यात मुख्याशिखान्यशिखानांचौलेधृतानामत्रवापनम् ततः स्नातमहतवस्त्रंबद्धशिखं कृतमङ्गलतिलकंबटुंकर्युः

मौहूर्तिकंसंपूज्यतदुक्तेसुमुहुर्तेआचार्योवेद्यांप्राङ्‍मुख उपविष्टोन्तःपटमपसार्यबटुमुखमीक्षेत कृतनमस्कारान्तेस्वाङ्केकुर्वीत

ततोविप्रा यथाचारंमन्त्रैरुभयोःशिरस्यक्षतान्‌क्षिपेयुः एवं यथागृह्यमुपनयनप्रयोगंज्ञात्वानुष्ठेयम् सर्वत्रबटुनागायत्र्यादिमन्त्रान्वाचयन्

संधिकृतंवर्णविकारंनान्यथाकुर्यात् प्रयोगशेषंसमाप्यद्वेशतेशतंयथाशक्तिवा ब्राह्मणभोजनंसंकल्पविप्रेभ्योभूयसींदक्षिणांदद्यात ततो

ब्रह्मचारीनूतनभिक्षाभाजनेमातरंमातृष्वस्त्रादिकांवाभिक्षांभवतीददात्वितिअनुप्रवचनीयार्थंतण्डुलान्याचेत पितरंभिक्षांभवान्‌ददात्वितियाचेत

भैक्ष्यमाचार्यायनिवेद्यमध्याह्नसंध्यामुपास्यगुरुसन्निधावहःशेषंनयेत् तद्दिनेमध्याह्नसंध्याविकल्पितेत्यन्ये

ब्रह्मयज्ञस्तुद्वितीयदिनमारभ्यगायत्र्याकार्यः

अनुप्रवचनीयहोमारम्भात्पूर्वंगर्जितवृष्ट्यादिसंभावनायांदिवैवचरुश्रपणान्तंकृत्वाऽस्तमितेजुहुयात्

पाकाभावेगर्जितादिनिमित्तेतुशान्तिंकृत्वापाकः कार्यः ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP