संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथसंक्षेपतोगोत्रप्रवरनिर्णयः

धर्मसिंधु - अथसंक्षेपतोगोत्रप्रवरनिर्णयः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसंक्षेपतोगोत्रप्रवरनिर्णयः तत्रगोत्रलक्षणम् विश्वामित्रोजमदग्निर्भरद्वाजोऽथगौतमः ।

अत्रिर्वसिष्ठःकशपइत्येतेसप्तऋषयः १ सप्तानामृषीणामागस्त्याष्टमानांयदपत्यंतद्गोत्रमित्याचक्षते

यद्यपिकेवलभार्गवेष्वार्ष्टिषेणादिषुकेवलाङ्गिरसेषुहारितादिषुचनैतल्लक्षणंभृग्वङ्गिरसोरष्टऋषिष्वनन्तर्गतत्वात्

तथाप्यत्रप्रवरैक्यादेवाविवाहः यद्यपिगोत्राणि अनन्तानिगोत्राणांतुसहस्त्राणिप्रयुतान्यर्बुदानिच ।

इत्युक्तेस्तथापिऊनपञ्चाशदेवगोत्रभेदाःव्यावर्तकप्रवरभेदानाम्तावतामेवदर्शनात

प्रवरलक्षणंतुगोत्रवंशप्रवर्तकऋषीणांव्यावर्तकारुषिविशेषाःप्रवराइत्येवसंक्षेपतोज्ञेयम्

समानगोत्रत्वंसमानप्रवरत्वंचपृथकपृथकविवाहप्रतिबन्धकम् तत्रप्रवरसाम्यंद्विविधमएकप्रवरसाम्यंद्वित्रिप्रवरसाम्यंच

तत्रभृग्वङ्गिरोगणेतरेषुएकप्रवरसाम्यमपिबिवाहप्रतिबन्धकं

केवलभृगुगणेषुकेवलाङ्गिरोगणेषुचैकप्रवरसाम्यंनविवाहबाधकम् पञ्चानांत्रिषुसामान्यादविवाहस्त्रिषुद्बयोः ।

भृग्वङ्गिरोगणेष्वेवंशेषेष्वेकोपिवारयेत् १

इत्यादिवचनात जामदग्न्यभृगुगणेषुगौतमांगिरसेषुभारद्वाजांनिरसेषुचेकप्रवरसाम्येपिक्वचितप्रवरसाम्याभावेपिचसगोत्रत्वादेवाविवाहः ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP