संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
बृहस्पतिशान्तिः

धर्मसिंधु - बृहस्पतिशान्तिः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


कुमारस्योपनयनकाले कन्याया विवाहेवाबृहस्पत्यानुकूल्याभावेशौनकाद्युक्ताशान्तिः कार्या

अस्यकुमारस्योपनयने अस्याःकन्यकाया विवाहेवा बृहस्पत्यानुकूल्यसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ

बृहस्पतिशान्तिं करिश्यइतिसंकल्प्याचार्यवृणुयात स्थण्डिले ईशान्यांयथाविधिस्थापिते

श्वेतकलशे पञ्चगव्यकुशोदकविष्णुक्रान्ताशतावरीप्रमुखौ धिप्रक्षेपपूर्णपात्रनिधानान्तेहरिताक्षतनिर्मितदीर्घचतुरस्त्रपीठेहैमीगुरुप्रतिमां

प्रतिष्ठाप्यस्थण्डिलेग्निस्थापनादि अन्वाधानेबृहस्पतिमश्वत्थसमिदाज्यसर्पिर्मिश्रपायसैः साज्येनमिश्चितयवव्रीहितिलेनच

प्रतिद्रव्यमष्टोत्तरशताहुतिभिः शेषेणस्विष्टकृतमित्यादि आज्यभागान्तेप्रतिमायांषोडशोपचारैर्गुरुपूजा

तत्रपीतवस्त्रयुग्मपीतयज्ञोपवीतपीचन्दनपीताक्षतपीतपुष्पघृतदीपदध्योदननैवेद्यार्पणान्तेमाणिक्यं

सुवर्णवदक्षिणांदत्त्वाग्रहमखोक्तरीत्याकुम्भानुमन्त्रानांन्तेबृहस्पतिमन्त्रेणदधिमध्वक्तसमिदाज्यग्रुहसिद्धपायसमिश्रितयवाद्यैर्यथान्वाधानंहोमः
होमशेष्म्समाप्यगन्धादिभिर्बृहस्पतिसंपूज्यपीतगन्धाक्षतपुष्पयुतताम्रपात्रस्थजलेनास्तुते १

प्रार्थयेत् भक्त्यायत्तेसुराचार्यहोमपूजादिसत्कृतम् । तत्त्वंगृहाणशान्त्यर्थबृहस्पतेनमोनमः १

जिवोबृहस्पतिःसूरिराचार्योगुरुरन्ङ्गिराः । वाचस्पतिर्देवमन्त्रीशुभं कुर्यात्सदामम २

इति विसर्जनप्रतिमादानान्तेकुमारादियुतयजमानाभिषेकः तत्रमन्त्राः आपोहिष्ठेतितिस्त्रः ३ ।

तत्त्वायामि० ३ । स्वादिष्ठया० ३ । समुद्रज्येष्ठाः ४ । इदपापःप्रवह० १ तामग्निवर्णा० १ ।

याऔषधीः० १ । अश्वावतीर्गोमतीर्न० १ । यद्देवादेवहेडनमित्याद्याःकूष्माण्डमन्त्राःपुनर्मनः

पुनरायुरित्यन्तास्तैत्तिरीयशाखायांप्रसिद्धाः कौस्तुबादौलिखिताएतैरभिषिच्यविप्रान्भोजयेदिति इतिबृहस्पतिशान्तिः ॥

N/A

References : N/A
Last Updated : May 17, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP