संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथसमावर्तनसंकल्पाः

धर्मसिंधु - अथसमावर्तनसंकल्पाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसमावर्तनसंकल्पादिममगृहस्थाश्रमाहतासिद्धिद्वाराश्रीपर० समावर्तनंकरिष्यइति संकल्प्य

नान्दीश्राधान्तंबटुरेवकुर्यात् ब्रह्मचारीजीवत्पितृकश्चेत्प्तुर्मात्राद्युद्देशः ब्रह्मचार्यशक्तश्चेत्पित्रादिस्तत्प्रतिनिधित्वेननान्दीश्राद्धंकुर्यात्

समावर्तनउपनयनादाविवपित्रादिरेव नान्दीश्राद्धकर्तेतिमतान्तरेणप्रागुक्त‍ अवशिष्टप्रयोगःस्वस्वगृह्यानुसारेण

दशत्रीन्‌वाविप्रान्‌ भोजयेत दास्यन्तिमधुपर्कयेतत्रैरजनींवसेत् ।

ततोव्रतानिसंकल्पयेत् तानिचस्वसूत्रोक्तानिस्मृत्यक्तानिचेतिद्विविधानि ।

सर्वाण्यपिपुरुषार्थान्येवनतुसमावर्तनाङ्गानि तत्राशक्त सूत्रोक्तान्येवव्रतानिकुर्यात् शक्तस्तुस्मृत्युक्तान्यपि

तानि यथा निमित्तंविनाननक्तंस्नास्यामि ननग्नःस्नास्यामि न नग्नःशयिष्ये

ननग्नांस्त्रियमीक्षिष्येन्यत्रमैथुनात् वर्षतिनधाविष्ये नवृक्षमारोहिष्ये नकूपमवरोहिष्ये

नबाहुभ्यांनदींतरिष्यामि नप्राणंसंशयमभ्यापत्स्ये इति मूत्रोक्तानि ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP