संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथतिथिविचारः

धर्मसिंधु - अथतिथिविचारः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


द्वितीयातृतीयापञ्चमीषष्ठीदशम्येकादशीद्वादश्यःप्रशस्ताःक्वचित्सप्तमीत्रयोदशीकृष्णप्रतिपद्विधिःपुनरुपनयनमूकाद्युपनयनविषयः

तिथौसोपपदाख्यायामनध्यायेगलग्रहे । अपराह्नेचोपनीतः पुनःसंस्कारमर्हति १ सिताज्येष्ठेद्वितीयाचआश्विनेदशमीप्सिता ।

चतुर्थद्वादशीमाघेएताःसोपपदाःस्मृताः २ अनध्यायाःपौर्णमासीचतुर्दश्यष्टमीअमा । प्रतिपत्सूर्यसंक्रान्तिर्मन्वाद्याश्चयुगादयः ३

कृष्णपक्षेद्वितीयाश्चकार्तिकाषाढफाल्गुने । विषुवायनसंक्रान्त्यौःपक्षिणीअनध्यायइतिपूर्वपरिच्छेदेउक्तम्

सोपपदानामनध्यायतिथीनांचदिनद्वये सूर्योदयोत्तरंसूर्यास्तात्पूर्वंचत्रिमुहूर्तसत्त्वेदिनद्वयमनध्यायः

शिष्टास्तुप्रतिपच्छेषघटिकादिमात्रोपिव्रतबन्धेऽनध्यायंवदन्ति विषुवायनेतरसंक्रान्तिमन्वादियुगादिषुतुप्रथमद्वितीयपरिच्छेदोक्तरीत्या

यत्रदिनेसंक्रान्तिपुण्यकालोयुगमन्वादिश्राद्धकालश्चताद्दिनेऽनध्यायः नतुतेषामस्तादौमुहूर्तत्रयेसत्त्वमनध्यायहेतुः

त्रयोदश्यादिचत्वारिसप्तम्यादिदिनत्रयम् । चतुर्थीचैकतःप्रोक्ताअष्टावेतेगलग्रहाः १ अत्रचतुर्थीनवमीचव्रतकालेत्याजेतिभाति

केचिच्चतुर्थीशेषयुतपंचम्यांव्रतबन्धनंकुर्वन्तितत्रमूलंमृग्यम् नवमीशेषयुतदशम्यांमौञ्ज्नकार्येतिमयूखे

अपराह्णस्त्रेंधाविभक्तदिनतृतीयांशोव्रतबन्धे वर्ज्यः दिनमध्यमभागोमध्यमः प्रथमभागोमुख्यः

मन्वादियुवादयोद्वितीयपरिच्छेदेदर्शिताः तत्रोपनयनेचैत्रशुक्लतृतीयायाःमन्वादेर्वैशाखशुक्लतृतीयायुगादेश्चप्रसक्तिः

अन्येषांयुगादिमन्वादितिथीनांप्रसक्तिर्नास्ति अनयोरपवादः सिन्धुकौस्तुभादौस्मर्यते

याचैत्रवैशाखसितातृतीयामाघस्यसप्तम्यथफाल्गुनस्य ।

कृष्णेद्वितीयोपनयेप्रशस्ताप्रोक्ताभरद्वाजमुनींद्रमुख्यैः १

इति अत्रमाघसप्तम्यामन्वादेरपवादःपुनरुपनयनादिविषयः

फाल्गुनकृष्णद्वितीयायाश्चातुर्मास्याद्वितीयात्वेनानध्यायत्वंप्राप्तंतस्यापवादोय्म्यत्तु अनध्यायस्यपूर्वेद्युरनध्यायात्परेहनि ।

व्रतारम्भंविसर्गंचविद्यारम्भंचवर्जयेत् १ इतिस्मृत्यन्तरम्

तद्वितीयाविध्यनुपपत्यागलग्रहत्वेनप्राप्तसप्तमीत्रयोदशीनिषेधानुवादकमितिभाति अप्राप्तनिषेधकत्वे मन्वादियुगादिसंक्रान्त्यादिप्रयुक्तानध्यायेभ्योपिपूर्वपरदिनयोर्निषेधापत्त्याचैत्रशुक्लद्वितीयादेरपिनिषिद्धत्वापातात् नचेष्टापत्तिः

शिष्टाचाराग्रन्थेषुचानुपलम्भात

मुहूर्तमार्तण्डोक्त्यामाघेशुक्लद्वितीयाकृष्णद्वितीयावैशाखकृष्णद्वितीयाचेत्यनध्यायत्रयमुपनयनेधिकंप्राप्नोति

एतदपरेनाद्रियन्ते बहुग्रन्थेषुमूलानुपलम्भात् मौञ्जीप्रकरणेमुहूर्तचिन्तामण्यादिग्रन्थेषुक्वाप्यनुक्तेश्च

अतोमार्तण्डोक्तानामतिरिक्तानध्यायानामुपनिषत्पाठादिविषयत्वंनतुमौञ्जीविषयत्वमितियुक्तंभाति

तत्रतृतीयाषष्ठीद्वादशीषुप्रदोषसत्वेमौञ्जीनकार्या रात्रेःप्रथमयामेचतुर्थीसार्धयामेसप्तमीयामद्वयेत्रयोदशीचेत्तदाप्रदोषः

दिनद्वयेप्रथमयामादिषुचतुर्थ्यादिव्याप्तौपुर्वादिनेप्रदोषोनोत्तरदिनेइतिकौस्तुभे

प्रदोषदिनेमन्दवारेकृष्णपक्षान्त्यत्रिकेचोपनयनेपुनरुपनयनमितिमयूखे एतेनित्यानध्यायाः ।

 

N/A

References : N/A
Last Updated : May 16, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP