संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथसमावर्तनम्

धर्मसिंधु - अथसमावर्तनम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथसमावर्तनम् गुरवेक्षेत्राद्यन्यतमंदत्त्वातदनुज्ञयास्नायात् स्नानंनामसमावर्तनम्

तानिचक्षेत्रंहेमगौरश्वश्चछत्रोपानहौधान्यंवस्त्रत्रयंशाकमित्येतानिचक्षेत्रंहेमगौरश्वश्चछत्रोपानहौधान्यंवस्त्रत्रंयंशाकमित्येतानिएषुयद्‌गुरोः

प्रियंतद्देयम्‌दानं विनैव गुरुप्रीतौतदनुज्ञयैवस्नायात्‌क्षेत्रादिनापिनाविद्यानिष्क्रयः एकैकमक्षरंयस्तुगुरुः शिष्ये निवेदयेत् ।

पृथिव्यांनास्तितद्‌द्रव्यंयद्दत्त्वात्वनृणीभवेत् १ इत्युक्तेः सचस्नातकस्त्रिविधः विद्यास्नातकोव्रतस्नातकउभयस्नातकइति

तत्रैकंद्वौत्रीन्चतुरोवावेदान्वेदैकदेशंवाधीत्यतदर्थंचज्ञात्वाद्वादशवर्षादिब्रह्मचर्यकालावधेःप्रागेवस्नातिसविद्यास्नातकः

उपनयनव्रतसावित्रीव्रतवेदाव्रतान्यनुष्ठायवेदसमाप्तेःपूर्वमेवस्नातोव्रतस्नातकः द्वादशवर्षादिब्रह्मचर्यसमाप्त्योवेदं

समाप्यस्नातोविद्याव्रतोभयस्नातकः तत्रोपनयनोत्तरंमेधाजननपर्यन्तंत्रिरात्रद्वादशरात्रादिव्रतमुपनयनव्रतम्

मेधाजननोत्तरमुपाकर्मान्तंब्रह्मचारिधर्मानुष्ठानंसावित्रीव्रतम् तदुत्तरंवेदाध्ययनार्थंद्वादशवर्षादिकालावच्छिन्नंव्रतंवेदव्रतम्

स्वाध्यायोध्येतव्यइतिविधेरर्थज्ञानपर्यन्तत्वाद्वेदार्थज्ञानंविनावेदाध्ययनमात्रेणसमावर्तनेऽधिकारोनेतिपुर्वमीमांसकाः

वेदग्रहणमेवविधिफलंपूर्वकाण्डार्थज्ञानंकर्मानुष्ठानाक्षिप्तम् उत्तरकाण्डार्थज्ञानकाम्यश्रोतव्यविधिप्राप्तमित्युत्तरमीमांसकाः

तत्रसंहिताब्राह्मणंचमिलित्वैकोवेदः आरण्यकाण्डंब्राह्मणान्तर्गतमेव संपूर्णैकवेदाध्ययनेष्वशक्तोवेदैकदेशंपठेत्

अत्यशक्तेनसंहितायाःप्रथमचरमसूक्तेकतिपयसूक्तानां प्रथमाऋचःसर्वसूक्तानांप्रथमाऋचोवाध्येतव्याः

एवंवेदैकदेशाध्ययनोत्तरंसमावृत्तोविवाहितोवाब्रह्मचर्योक्तनियमेनवेदाध्ययनंकुर्यात् तत्रऋतौभार्यागमनंकार्यम्

ब्रह्मचारिव्रतलोपप्रायश्चित्तं कृच्छ्रत्रयंकृत्वामहाव्याह्रतिहोमंचकृत्वासमावर्तनंकार्यम्‌एतच्चसंध्याग्निकार्य

भिक्षालोपशूद्रादिस्पर्शकटिसूत्रमेखलाजिनत्यागदिवास्वापाञ्जनपर्युषितभोजनादिव्रतभङ्गेषुअल्पकालमल्पव्रतभङ्गेज्ञेयम्

बहुधर्मलोपेतु तंवोधियानव्यस्याशविष्टमितिमन्त्रस्यलक्षजपःशिवालयेइत्युक्तम्

एवंचमहानाम्न्यादिव्रतलोपस्यब्रह्मचर्यव्रतलोपस्यचप्रायश्चित्तरंसमावर्तनाधिकारः

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP