संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथपुनरुपनयनम्

धर्मसिंधु - अथपुनरुपनयनम्

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथपुनरुपनयनम् तच्चत्रिविधम् प्रत्यवायनिमित्तकंप्रायश्चित्तभूतंपुनरुपनयनमाद्यम्

तच्चजातकर्मादिसहितंतद्रहितंप्रायश्चित्तान्तरसहितकेवलं चेत्यनेकविधम्

कृतस्योपनयनस्योक्तकालाद्यङ्गवैगुण्येनवैकल्यापत्तावपरम् वेदान्तराध्ययनार्थंतृतीयम् तत्रप्रथमंयथा

अमत्या औषधान्तरानाश्यरोगनाशार्थपैष्ट्याःसूरायाः पाने त्रिमासंकृच्छ्राचरणंपुनरुपनयनंच

मत्यापैष्ट्यन्यसुरायाऔषधार्थकृछ्रातिकृच्छ्रौपुनरुपनयनंच पैष्टीपाने द्वादशाब्दम्

अज्ञानाद्वारुणीगौडीमाध्वीसूरापीताचेत्पुनरुपनयनंस्तप्तकृच्छ्रंच ज्ञात्वाविण्मूत्राद्यशनेचान्द्रायणपुनःसंस्कारौ

लशुनपलाण्डुगृञ्जनविड्वराहग्रामकुक्कुटनरगोमांसभक्षणेद्विजातीनाम्तत्तत्प्रायश्चित्तान्ते पुनरुपनयनम्

अविखरोष्ट्रमानुषीक्षीरपानेहस्तिनीवडवाक्षीरपानेचतप्तकृच्छ्रंपुनः संस्कारश्च रासभोष्ट्राद्यारोहणेकृच्छ्रःपुनः

संस्कारश्च इदंहेमाद्रिमतमितिसिन्धौक्वचित् मिताक्षरास्मृत्यर्थसारादिमते रासभोष्ट्रारोहेउपवासत्रयादिमात्रंनतुपुनःसंस्कारः

कौस्तुभाशयोप्येवम् वृषभारोहणेअमत्या कृच्छ्रंमत्याकृच्छ्रत्रयादि केचिद्‌वृषारोहेपुनःसंस्कारंकुर्वन्तितत्रमूलंमृग्यम्

एवमजबस्तमहिषारोहेपि मांसभक्षकपशोर्विट्‌भक्षणेपुनरुपनयनमात्रम्

केचिन्मानुषमलभक्षणेपिपुनःसंस्कारमात्रमाहुः प्रेतशय्याप्रतिग्राहीपुनःसंस्कारमर्हति ।

जीवतोमृतवार्ताश्रुत्वान्त्यकर्मकरणे तंधृतकुम्भे

निमज्योद्धृत्यस्नापयित्वाजातकर्माद्युपनयनान्तसंस्कारान्‌कृत्वात्रिरात्रव्रतान्तेपूर्वभार्ययातस्यांमृतायामन्यभअर्ययावाविवाहःकार्यः

आहिताग्निश्चेत्पुनराधानायुष्मादिष्ट्यादि तीर्थयात्रांविनाकलिङ्गाङ्गावङ्गान्ध्रसिन्धुसौवीरप्रत्यन्तवासिदेशगमनेपुनः संस्कारः

चाण्डालान्नभक्षणेचान्द्रायणम् बुद्धिपूर्वभक्षणेकृच्छ्राब्दम् उभयत्रपुनःसंस्कारः अजिनंमेखलादण्डोभैक्ष्यचर्याव्रतानिच ।

निर्वर्तन्तेद्विजातीनांपुनःसंस्कारकर्मणि १ वपनंमेखलेतिस्मृत्यन्तरेपाठः

ब्रह्मचारिणोमधुमांसाशनेपुनरुपनयनंप्राजापत्यंत्रिरात्रोपवासोवा मत्याभक्षणेपराकः अभ्यासेद्विगुणंपुनःसंस्कारश्च

पितृमातृगुरुभ्योभिन्नस्यप्रेतस्यान्तकर्मकरनेब्रह्मचारिणःपुनरुपनयनम् हस्तमथितदधिभक्षणेबहिर्वेदिपुरोडाशाशनेअभ्यासेकृच्छ्रः

पुनःसंस्कारश्च यःसंन्यासगृहीत्वाततोनिवृत्त्यगार्हस्थ्यं चिकीर्षतिसषण्मासंकृच्छ्रान्‌कृत्वाजातकर्मादिस्स्कारैःसंस्कृतः शुद्धोगार्हस्थ्यं

कुर्यात् एवमनशनंमरणार्थसंकल्प्यनिवृत्तोपिकुर्यात्कर्मनाशाजलस्पर्शात्करतोयाविलंघनात् । गण्डकीबाहुतरणात्पुनःसंस्कारमर्हति ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP