संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अथमण्डपोद्वासनपर्यन्तंनिषेधाः

धर्मसिंधु - अथमण्डपोद्वासनपर्यन्तंनिषेधाः

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


अथमण्डपोद्वासनपर्यन्तंनिषेधाः नान्दीश्राद्धेकृतेपश्चाद्यावन्मातृविसर्जनम् ।

दर्शश्राद्धक्षयश्राद्धंस्नानंशीतोदकेनच १ अपसव्यंस्वधाकारंनित्यश्राद्धंतथैवच ।

ब्रह्मयज्ञंचाध्ययनंनदीसीमातिलंघनम् २ उपवासव्रतंचैवश्राद्धभोजनमेवच ।

नैवकुर्युः सपिण्डाश्चमण्डपोद्वासनावधि ३ अत्रस्वधाकारग्रहणं तत्सहचरितवैश्वदेवनिषेधार्थम्

अत्रसपिण्डास्त्रिपुरुषपर्यन्ताइतिपुरुषार्थचिन्तामणौ अभ्यङ्गेसुतकेचैवविवाहेपुत्रजन्मनि ।

माङ्गल्येषुचसर्वेषुनधार्य गोपिचन्दनम् १ एतेषुभस्मधारनमपिनकुर्वन्ति

जननाशौचेभस्मगोपीचन्दनेनिषिद्धे मृतके भस्मधार्यम ॥

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP