संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|तृतीयः परिच्छेदः : पूर्वार्ध २|
अत्रोदाहरणानि

धर्मसिंधु - अत्रोदाहरणानि

This 'Dharmasindhu' grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


विर्ष्णोर्मूलात्कान्तिगौर्यौजातौताभ्यांसुधीहरौ ।

बुधमैत्रौचैत्रशिवौगणभूपौमृडाच्युतौ १ तज्जातयोरष्टमयोर्विवाहोरतिकामयोः ।

विष्णौर्मूलाद्दत्तचैत्रौसोममैत्रौसुधीबुधौ २ ताभ्यांश्यामारतीतज्जशिवगौर्यौःकरग्रहः ।

विष्णोर्मूलादत्तचैत्रौसोममैत्रौसुधीबुधौ ३ ताभ्यांश्यामानर्मदाचाशिवकामौरमाकवी ।

मण्डूकप्लुतिसापिंद्यरमाकव्योर्विवाह्रत ४ विष्णोर्मूलाद्दत्तचैत्रौसोममैत्रौसुधीबुधौ ।

श्यामाशिवौकान्तिहरौहरकान्तिनदंपती ५ निवृत्तमप्येकतस्तदन्यतस्त्वनुवर्तते ।

दिङ्गात्रेणोदाह्रतात्रयेसंसापिंड्यपद्धतिः ६

कूटस्थात्पंचम्योःकन्ययोःसंततौमातृद्वारकत्वात्सापिंड्यनिवृत्तिः पंचम्योःकन्ययोर्यौपुत्रौतयोःसंततपितृद्वारकत्वात्सापिंड्यमनुवर्तत

इतीदंमण्डूकप्लुतिसापिंड्यम् ।

पंचम्याःकन्यायाःपुत्रस्यषष्ठस्यकूटस्थात्पञ्चमादिःसपिंडोनभवतितथापिद्वितीयसंततिपंक्तौपञ्चमषष्ठादेः

पितृद्वारकत्वादिनासापिण्ड्यसत्वादेकतोनिवृत्तावप्यन्यतोनुवृत्त्यापञ्चमषष्ठादिनापञ्चम्याःकन्यायाःसंततिर्नविवाह्याएवं

कूटस्थमारभ्याष्टमादेःकूटस्थमारभ्यद्वितीयादेश्चैकतोनिवृत्तिपरतोनुवृत्त्योःसत्त्वमूह्यम्

एवमाशौचविषयकसापिण्ड्येपिएकतोनुवृत्त्यादिकंयथासंभवंसर्वमूह्यम् ।

एवंपितृद्वारकसापिंण्ड्यंसप्तमादूर्ध्वंनिवर्ततेमातृद्वारकंतुपञ्चमादूर्ध्वमितिमुख्यकल्पेन वर्जनीयानांकन्यानांसंख्याचेत्थंसंपद्यते

पितृकुलेषोडशाधिकद्विसाहस्त्री २०१६ मातृकुलेपञ्चोत्तरशतम् १०५

कुलद्वयेमेलनेनैकविंशत्युत्तरशताधिकसहस्त्रद्वयसंख्या २१२१ कन्यावर्ज्याःसंपद्यन्ते

अत्रगणनाप्रकारस्तत्रमूलश्लोकास्तद्व्याख्याचकौस्तुभेस्पष्टाः बालानांदुर्बोधतयानेहोच्यते

तथाचमुख्यकल्पेनकुलद्वयेएतावत्याःवर्जनीयाएव नत्वनुकल्पानुसरणेनसप्तमात्पञ्चमादर्वाग्विवाहःकार्यः

पञ्चमेसप्तमेचैवयेषांवैवाहिकीक्रिया । क्रियापराअपिहितेपतिताःशूद्रतांगताः १ सप्तमात्पञ्चमाद्धीमान्यःकन्यामुद्वहेद्द्विजः ।

गुरुतल्पीसविज्ञेयःसगोत्रांचैवमुद्वहन्‍ २ इत्यादिस्मृतिभ्यःयानितु चतुर्थीमुद्वहेत्कन्यांचतुर्थःपञ्चमोवरः ।

तृतीयांवाचतुर्थीवापक्षयोरुभयोरपि १ इत्यादिवचनानितेषुकानिचिन्निर्मूलानिकानिचिदत्तकसापत्न्यादिसंबन्धविषयतया

विप्राणांक्षत्रियादिषुसापिण्ड्यविषयतयावानेयानिइतिनिर्णयसिन्धुमतम् कौस्तुभेतु उद्वहेत्सप्तमादूर्ध्वंतदभावेतुसप्तमीम् ।

पञ्चमीतदभावेतुपितृपक्षेप्ययंविधिः १ । सप्तमीचतथाषष्ठीपञ्चमीचतथैवच ।

एवमुद्वाहयेत्कन्यांनदोषः शाकटायनः २ तृतीयांवाचतुर्थीवापक्षयोरुभयोरपि ।

विवाहयेन्मनुः प्राहप्राराशर्योमोऽङ्गिराह ३ यस्तुदेशानुरूप्येणकुलमार्गेणचोद्वहेत ।

नित्यंसव्यवहार्यःस्याद्वेदाच्चैतत्प्रतीयते ४ इत्यादिवचनानांचतुर्विंशतिमतषट्‌त्रिंशन्मतादिषूपलभ्यमानत्वातसापिण्ड्यंकोचेन

विवाहस्यबहुदेशेषुदर्शनाच्चअयेषांकुलेदेशेचानुकल्पत्वेनसापिण्ड्यसंकोचःपर्म्परयासमागतस्तेहां

सापिण्ड्यसंकोचेन विवाहोनदोषाय स्वकुलदेशविरूद्धेनसापिण्ड्यसंकोचेनविवाहेदोषोभवत्येव

जनपदधर्मा ग्रामधर्माश्चतान्विवाहेप्रतियात् येनास्यपितरोयातायेनयाताःपितामहाः ।

तेनयायात्सतां मार्गंतेनगच्छन्नदुष्यति १ इत्यादिवाक्यैः स्वकुलदेशाचाराविरुद्धस्यैवशास्त्रस्यविवाहेनुसर्तव्यत्वात्

एवंमातुलकन्यापरिणयनेपि तृप्तांजहुर्मातुलस्येवयोषाभागस्तेपैतृष्वसेयीवपामिवेतिमन्त्रालिङ्गैर्मातुलस्यसुतामूढामात्रुगोत्रांतथैवच ।

समनप्रवरांचैवत्यक्त्वाचान्द्रायणंचरेत १ इत्यादिस्मृतीनाबाधातयेषांकुलेमातुलकन्यापरिणयःपरंपराप्राप्तस्तैःसकार्यः

गोत्रान्मातुःसपिण्डाच्चविवाहोगोवधस्तथाइतिमातुलकन्याविवाहस्यकलिवर्ज्यत्ववचनमपियेषांकुलेदेशमातुलकन्याविवअहोनास्तितत्परम्

मातुलकन्यापरिणयनस्यानेकश्रुतिस्मृतिसिद्धत्वात अतएवमातुलकन्योद्वाहिनांश्राद्धेनिमन्त्रणनिषेधोपिस्वकुलाचारादिविरोधेनतदुद्वाहिपरः

उक्तविधसापिण्ड्यसंकोचेनविवाहंकुर्वतांशिष्टैः श्राद्धादौभोजनाद्याचारादित्याबहूपपादितम्

परंतुसापिंड्यसंकोचस्वीकारेपिकतिथीकन्याकथितेनपुरुषेणविवाह्याकतिथेननविवाह्येतिव्यवस्थानोपपादिता ॥

सापिण्ड्यदिपिकाकारादयोर्वाचीनास्तु चतुर्थीमुद्वहेत्कन्यांचतुर्थःपञ्चमोवरः ।

पाराशरमतेषष्थीपञ्चमोनतुपञ्चीमीम १ इत्यादिवचनानांसमूलत्वंनिश्चित्य

अशक्तैःसंकटेसमाश्रयणीयस्यसापिण्ड्यसंकोचस्यव्यवस्थामूचुः

तथाहि चतुर्थीकन्यापितृपक्षेमातृपक्षेचचतुर्थेनपञ्चमेनवापुंसाविवाह्या द्वितीयतृतीयषष्ठाद्यैश्चतुर्थीनोद्वाह्या

पराशरमतेपञ्चमःषष्ठीमुद्वहेत द्वितीयतृतीयचतुर्थादिःषष्ठींनोद्वहेत् पञ्चमःपञ्चमीनोद्वहेत मातृतःपितृतश्चापिषष्ठःषष्ठीसमुद्वहेत

इतिवचनान्तरातषष्ठेनापिषष्ठीविवाह्या पञ्चमषष्ठभिन्नैःषष्ठीनविवाह्येतिपर्यवसन्नम्

तथापितृपक्षेसप्तमीमातृपक्षेपञ्चमीचतृतीयाद्यैःसर्वैःपरिणेया पितृपक्षासप्तमीमातृपक्षात्तुपञ्चमीमिति व्यासवचनात् ।

उद्वहेत्सप्तमादूर्ध्वंतदभावेतुसप्तमीम । पञ्चमींतदभावेतुपितृपक्षेप्यय्म्विधिः

इतिचतुर्विंशतिमतोक्तेश्चपितृपक्षेपिपञ्चमीतृतीयाद्यैःपरिणेया

तत्रापि मातृपक्षेपितृपक्षेपिपञ्चमेनपञ्चमीनोद्वाह्या पञ्चमोनतुपञ्चमीमितिसर्वत्रनिषेधात्

तृतीयांवाचतुर्थीवापक्षयोरुभयोरपीतिवचनात्तुतृतीयाविवाह्याप्रानितिततव्यवस्थोच्यते

मातृपक्शेतावत्तृतीयामातुलकन्यामातृष्वसृकन्यावासंभवति

पितृपक्षेतुतृतीयापितृव्यकन्यापितृष्वसृकन्यावा तत्रपितृव्यकन्यासगोत्रत्वात्त्याज्या पैतृष्वसेयींभगिनींस्वस्त्रीयांमातुरेवच

एतास्तिस्त्रस्तुभार्यार्थेनोपयच्छेतबुद्धिमान्‍ १ इतिमनूक्तेः पितृष्वसृमातृष्वसृकन्येअपित्याज्ये पितृष्वसृकन्यांमातृर्भगिनीमातृष्वसारं

मातुःस्वस्त्रीयांमात्रुष्वसृकन्यामेतास्तिस्त्रोनोद्वहेदितितदर्थात मातुलकन्यैवतृतीयापूर्वोक्तरीत्या कुलपरंपरागतत्वेपरिणेया

एवंचतृतीयापितृतीयेनैवमातुलकयैवपरिणेयानचतुर्थादिनाकेनापि केचित्संकटेपितृषसृकन्यापरिनयनमाहुः

तत्रदेशकुलाचाराद्वयवस्थाज्ञातव्या अत्रायं सापिण्ड्यदीपिकादिसिद्धार्थसंग्रहः तृतीयामातुलकन्यैवोद्वाह्या

चतुर्थीचतुर्थपञ्चमाभ्यामेवपञ्चमीपञ्चमभिन्नैस्तृतीयाद्यैःसप्तमान्तैः षष्ठीपञ्चमाषष्ठाभ्यामेव सप्तमीतृतीयाद्यैःसप्तमान्तैरिति

अयंसापिंड्यसंकोचेनविवाहःसंकटेष्वशक्तेनकार्यः कन्यान्तरलाभेशक्तैर्नकार्यः गुरुतल्पादिदोषस्मृतेः

सापिंड्यसंकोचवाक्यानामशक्तविषयत्वस्यस्पष्टत्वात प्रभुःप्रथमकल्पस्ययोनुकल्पेनवर्तते ।

सनाप्नोतिफलंचेहेतिशक्तैरनुकल्पस्वीकारेदोषोक्तेः दत्तकसापिंण्ड्यंदत्तकनिर्णयेप्रागेवोक्तम् ।

सापिण्ड्यदीपिकाकारदयोर्वाचीनास्तु चतुर्थीमुद्वहेत्कन्यांचतुर्थःपञ्चमोवरः । पाराशरमतेषष्ठीपञ्चमोनतुपञ्चमीम्‍ १

इत्यादिवचनानांसमूलत्वंनिश्चित्यअशक्तैःसंकटेसमाश्रयणीयस्यसापिण्डयसंकोचस्यववस्थामूचुः

तथाहि चतुर्थीकन्यापितृपक्षेमातृपक्षेचचतुर्थेनपञ्चमेनवापुंसाविवाह्या द्वितीयतृतीयषष्ठाद्यैश्चतुर्थीनोद्वाह्या

पराशरमतेपञ्चमःषष्ठीमुद्वहेत द्वितीयतृतीयचतुर्थादिःषष्ठींनोद्वहेत पञ्चमःपञ्चमीनोद्वहेत्‍ मातृतःपितृतश्चापिषष्ठःषष्ठीसमुद्वहेत

इतिवचनान्तरातषष्ठेनापिषष्ठीविवाह्या पञ्चमषष्ठभिन्नैःषष्ठीनविवाह्यतिपर्यवसन्नम्‍

तथापितृपक्षेसप्तमीमातृपक्षेपञ्चमीचतृतीयाद्यैःसर्वैःपरिणेया पितृपक्षाच्चसप्तमीमातृपक्षात्तुपञ्चमीमिति व्यासवचनात ।

उद्वहेत्सप्तमादूर्ध्वंदभावेतुसप्तमीम । पञ्चमींतदभावेतुपितृपक्षेप्ययंविधिः इतिचतुर्विंशतिमतोक्तेश्चपितृपक्षेपिपञ्चमीतृतीयाद्यैःपरिणेया

तत्रापि मातृपक्षेपितृपक्षेपिपञ्चमेनपञ्चमीनोद्वाह्या पञ्चमोनतुपञ्चमीमितिसर्वत्रनिषेधात्‍ तृतीयांवाचतुर्थीवापक्षयोरुभयोरपी

तिवचनात्तुतृतीयाविवाह्याप्राप्नोतितत्रव्यवस्थोच्यते मातृपक्षेतावत्तृतीयामातुलकन्यामातृष्व सृकन्यावासंभवति

पितृपक्षेतुतृतीयापितृव्यकन्यापितृष्वसृकन्यावा तत्रपितृव्यकन्यासगोत्र त्वात्त्याज्या पैतृष्वसेयींभगिनीस्वस्त्रीयांमातुरेवच

एतास्तिस्त्रस्तुभार्यार्थेनोपयच्छेतबुद्धिमान १ इतिमनुक्तेः पितृष्वसृमात्रुष्वसृकन्येअपित्याज्ये पितृष्वसृकन्यांमातृर्भगिनीमातृष्वसारं

मातुःस्वस्त्रीयांमतृष्वसृकन्यामेतास्तिस्त्रोनोद्वहेदितितदर्थात मातुलकनयैवव्रुतीयापूर्वोक्तरीत्या कुलपरंपरागतत्वेपरिणेया

एवंचतृतीयापितृतीयैनैवमातुलकन्यैवपरिनेयानचतुर्थादिनाकेनापि केचित्संकटेपितृष्वसृकन्यापरिणयनामाहुः

तत्रदेशकुलाचाराद्वयवस्थाज्ञातव्या अत्रायं सापिण्ड्यदीपिकादिसिद्धार्थसंग्रहः तृतीयामातुलकन्यैवोद्वाह्या

चतुर्थीचतुर्थपञ्चमाभ्यामेवपञ्चमीपञ्चमभिन्नैस्तृतीयाद्यैःसप्तमान्तैः षष्ठीपञ्चमषष्ठाभ्यामेव सप्तमीतृतीयाद्यैःसप्तमान्तैरिति

अयंसापिंड्यसंकोचेनविवाहःसंकटेष्वशक्तेनकार्यः कन्यान्तरलाभेशक्तैर्नकार्यः गुरुतल्पादिदोषस्मृतेः

सापिंड्यसंकोचवाक्यानामशक्तविषयत्वस्यस्पष्टत्वात्‍ प्रभुःप्रथमकल्पस्ययोनुकल्पेनवर्तते ।

सनाप्नोतिफलंचेहेतिशक्तैरनुकल्पस्वीकारेदोषोक्तेः दत्तकसापिंण्डयंदत्तकनिर्णयेप्रागेवोक्तम्‍ ।

N/A

References : N/A
Last Updated : May 19, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP